SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मरण 127 - अभिधानराजेन्द्रः - भाग 6 मरण स भिक्षुः, कालज्ञः उचिताऽनुचिताऽवसरज्ञः, एतानि च सूत्राणि लोक विजयपशमाद्देशकल्या,यानुसारेण नेतव्यानीति / तथा बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः सगयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतः छेत्ता, रा चैवम्भूतः रायमानुष्ठाने निश्चयेन याति निर्यातीति (अग्रेतनं सन्यारव्यं सूत्रम्- 'सीयफासपरीसह' शब्दे - चतुर्थीद्देशलान्य चत्वारि सव्याख्यानि सूत्राणि च 'वत्थ' शब्द क्ष्यन्ते) (25) यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो खलु अहमंसिनालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थाऽवि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इचेयं विमोहाऽऽयतणं हियं सुहं खमं निस्सेसं आणुगामियं ति वेमि / (सूत्र-२१५) 'णम्' इति वाक्यालङ्कारे,यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति। तद्यथा-स्पृष्टः खल्वहमस्मि रोगाऽऽतकैः शीतस्पर्शाऽऽ देभिर्वा स्त्र्याधुपसगा, ततो ममारिमन्नवसरे शरीरविमोक्षं कर्तुं श्रेयो, 'नाल' न समर्थोऽइमस्मि, 'शीतस्पर्श' शीताऽऽपादित दुःखाविशेष, भावशीत र पर्श वा रत्र्याधुपसर्गम् 'अध्यासपितुम्' अधिसोढुम, इस्यतो भाकपरिक्षेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्तुं युक्तम्, न च तस्य ममाऽस्मिन्नवसरेऽवसरो यतो मे कालक्षेपाऽसहिष्णुरुपसर्गः समुस्थितो रोगवेदनां वा चिराय सोदु नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिक मरणमत्र साम्प्रतम्। न पुनरुपसर्गितस्तदेवाभ्युपे-यादित्याह-'स' साधुः, वमुद्रव्यं न चात्र संयमः स विद्यतं यस्याऽसौ वसुमार, 'सर्वसमन्वागाप्रज्ञानेनात्मना कश्चित् अर्धकटाक्षनिरीक्षणादुपसर्गसम्भते सत्यपि तदकरणाया आ-समन्ताद्वत्तो-व्यवस्थित आवृत्तः, यदिवा-शीतस्पर्शवाताऽऽदिजनित दुःखविशेषमसहिष्णुस्तचिकित्साया अकरणतया वसुमान, सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो-व्यवस्थित इति / सचोपसर्गितो वाताऽऽदिवेदना चाऽसहिष्णुः किं कुर्यादित्याहहुहेती, यस्भाचिराय वाताऽऽदिवेदनां सोढुमसहिष्णुः, यदिवा-यस्मात् सीमन्तिनो उपसर्गयितुमुपस्थिता विषभज्ञक्षणोद्वन्धनाडुपन्यासेनाऽपि नमुक्षति, ततः 'तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततोध्नस्य, तदैव श्रेयो यदा ‘एकः कश्चित्, निजैः सपत्नीकोऽपवरके प्रदेशितः, आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्यात, विषं वा भक्षयेत्, पतनं वा कुर्याद्, दोर्घकाल वा शीतस्पर्शाऽऽदिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात्। (सुदर्शन्कथाम् सुदंसण' शब्दे वक्ष्यामि) ननु च वेहानसाऽदिकं बालमरणमुक्त, तथाऽमर्थाय. तत्कथं तस्याऽभ्युपगमः ? तथा चाऽऽगमः"इचेए बालमरणेणं मरमाणे जीवे अणतेहि नेरइयभवग्गहणेहि अप्पाणं संजोएइ० जाव अणाइयं च णं अणवयग्गं चाउरंतं संसारकतारं भुजो भुलो परियट्टइति।'' अत्रोच्यते-नैष दोषोऽत्रास्माकमार्हताना, नैकान्ततः किशित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय / अपि तुद्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते, तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायाऽपवादोऽपि गुणाय कालज्ञस्य साधोरिति। एतद्दर्शयितुमाहदीर्घकालं संयमप्रतिपालन विधाय, संलेखनाविधिना कालपर्यायण भक्तपरिज्ञाऽऽदिमरणं गुणायेति / एवंविधे त्ववसरे 'तत्राऽपि' वेहानसगाईपृष्ठाऽऽदिमरणेऽपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय, एवं वेहानसाऽऽदिकमपीत्यर्थः / बहुनाऽपि कालपर्यायेण यावन्मात्र कर्माऽसौ क्षपयति, तदसावल्पेनाऽपि कालेन कर्मक्षयमवाप्नोतीति दर्शयति'सोऽपि' वेहानसाऽऽदेर्विधाता, न केवलमानुपूर्व्या भक्तपरिज्ञाऽऽदेः कर्तेत्यपिशब्दार्थः तत्र' तस्मिन् वेहानसाऽऽदिमरणे 'विअंतिकारए त्ति' विशेषेणान्तिय॑न्तिः- अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवरारे तदेहानसाऽऽदिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः, सेत्स्यन्ति च, उपसञ्जिहीर्षुराह'इत्येतत्' पूर्वोक्तं वहानसादिभरणं, विगतमोहाना-'आयतनम्' आश्रयः कर्तव्यतया, तथा-'हितम्' अपायपरिहारतया, तथा-'सुखं' जन्मान्तरेऽपि सुखहेतुत्वात्, तथा-'क्षम' युक्तंप्राप्तकालत्वात् / तथानिःश्रेयसं कर्मक्षयहेतुत्वात्, तथा-'आनुगामिक' तदर्जितपुण्याऽनुगमनात, इति-ब्रवीमिशब्दौ पूर्वबद् / विमोक्षाध्ययनस्य चतुर्थोद्देशकः समाप्तः। आधा०१ श्रु०८ अ०४ उ०। (भक्तपरिज्ञा भत्तपच्चक्खाण' शब्दे पञ्चमभागे 1358 पृष्ठे गता) (26) तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्रं धारयतः, परिकर्मितमतेलधुकर्मतया एकत्वभावनाऽध्यवसायः स्यादिति दर्शयितुमाह जस्स णं मिक्खुस्स एवं भवइ / एगे अहमंसि, न मे अस्थि कोइ, न याऽहमवि कस्स वि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा / लाघवियं आगममाणे तवे से अभिसमण्णगए भवइ० जाव समाभिजाणिया। (सूत्र-२१६) ‘णम्' इति वाक्यालङ्कार, यस्य भिक्षोः, एवं' इति वक्ष्यमाणं भवति, तद्यथा-एकोऽहमस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनाम् / एवमसौ साधुरेकाकिनमेवाऽऽत्मानमन्तरात्मानं सम्यगभिजानीयात्। नास्याऽऽत्मनो नरकाऽऽदिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं सन्दधानो यद्यद्रोगाऽऽदिकमुपतापकारणमापद्यते, तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं, मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते। कुत एतदधिसहते? इत्यत आह-'लाघवियं' इत्यादि चतुर्थोद्देशकवगतार्थम् / यावत् 'सम्मत्तमेव समभिजा-णिय ति। इह द्वितीयोद्देशके उद्गमोत्पादनैषणाप्रतिपादिता। तद्यथा-"आउसंतो! समणा! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइम वा साइमं वा वत्थं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy