________________ मरण 126 - अभिधानराजेन्द्रः - भाग 6 मरण कृतिभद्रकस्योदमाऽदिदोषानाविर्भावयेत्, प्रासुकदानफलं च प्ररूप-येत, यथाशक्तितो धर्मकथां च कुर्यात / तद्यथा-(काले देशे क०, दान सत्पुरुषे०, दुःखसमुद्रं प्रा०, अवत्यैषा श्लोकत्रयी दाण' शब्दे 4 भाग 2460 पृष्ठेऽस्ति) इत्यादि, इतिरधिकारपरिममाप्ती, अवीमीत्येतत्पूर्वोक्तम्। वक्ष्यमाणं चेत्याहभिक्खुं च खलु पुट्ठा वा, अपुट्ठा वा, जे इमे आहच गंथा वा फुसंति।से हंता, हणह, खणह, छिंदह, दहह, पयह, आलुपह, विलुपह, सहसाकारेह, विप्परामुसह, ते फासे धीरो पुट्ठो अहियासए। अदुवा-आयारगोयरमाइक्खे तकियाणमणेलिसं। अदुबा-वइगुत्तीए गोयरस्स अणुपुटवेण सम्म पडिलेहए, आयतगुत्ते बुद्धेहिं एयं पवेइयं / (सूत्र-२०४) 'चः' समुच्चये, 'खलुः वाक्यालङ्कारे, भिक्षणशीलो भिक्षुस्त भिक्षु, पृष्टवा कश्चित्, यथा भो भिक्षो ! भवदर्थभशनाऽऽदिकमावसथं वा संस्करिष्येऽननुज्ञातोऽपि तेनाऽसौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते। अपरस्त्वीषत्साध्वाचारविधिज्ञोऽतोपृष्टवब छाना ग्राहयिष्यामीत्यभिसन्धायाऽशनाऽदिकं विदध्यात् / स च तदपरिभोगे श्रद्धाभङ्गात् चाटुशताग्रहणाच रोषाऽऽवेशान्निः सुखदुःखतया लोकशा इत्यनुशयाच राजानुसृष्टतया च न्यामारभावनातः प्रद्वेषमुपगतो हननाऽऽदिकमपि कुर्यादिति दर्शयति-एकाधिकारे बहतिदेशाहो इमे प्रश्नपूर्वकमप्रश्नपूर्वक वा आहाराऽऽदिक ग्रन्थात्' महतो द्रव्यव्ययाद, आहृत्य ढौकिल्वा, आहतग्रत्था वा, व्ययीकृतद्रवरूा वा, तदपरिभोगे 'सपृशन्ति' उपतापयन्ति, कथमिति चेदर्शयति-'स' ईश्वराऽऽदिः प्रद्विष्टः सन, हन्ता स्वतोऽपरांश्च हननाऽऽदौ चोदयति। तद्यथा-हतैनं साधुंदण्डाऽऽदिभिः 'क्षणुत' व्यापादयत छिन्नहस्तपादाऽऽदिकं, दहत अग्नयादिना, पचत उरुमांसाऽदिक, आलुम्पत वस्त्राऽऽदिक, विलुम्पत सर्वस्वापहारेण, सहसा कारयत-आशु पञ्चत्वं नयत, तथा-विविधं परामृशत नानापीडाकरणैर्वाधयत् 'तान्' चैवम्भूतान् 'स्पर्शान्' दुःखविशेषान् 'धीरः' अक्षोभ्यः, तैः स्पर्श : 'स्पृष्टः' सन, अधिसहेता तथा अपरैः क्षुत्पिपासापरीषहैः; स्पृष्टः सन्नधिसहेत / न तु पुनरुपसर्गः परीषहैर्वा तर्जितो विक्लेतामापनस्तदुद्देशिकाऽऽदिकमभ्युपेयात् / अनुकूला सान्त्वचादाऽदिभिरुपसर्गितो नाऽदद्यात्। अपितु-सति सामर्थ्य जिनकल्पिकादन्य आचारगोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान स्पर्शानधिसहेत। अथवा' साधूनामाचारगोचरम्- आचारानुष्ठानविषय, मूलोत्तरगुणभेदभिन्नमाचक्षीत।नपुनर्नयैर्द्रव्यविचारम् / तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत। अत्र च पिण्डैषणासूत्राणि पठितव्यानि। अपि च-"यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभतमपि / केवलमुपग्रहकर, धर्मकृते तद्भवेद्देयम ! // 1 // ' किं सर्वस्य सर्व कथयेत् ? नेति दर्शयति-तर्कयित्वा' पर्या लोच्य पुरुष, तद्यथा-कोऽयं पुरुषः कञ्चनतोऽभिगृहीतोऽनभिगृहीतांमध्यस्थः प्रकृति भद्रकोवेत्येवमुपयुज्य यथार्ह -यथाशक्ति चाऽऽवेदयेत्। सत्यां च शको पञ्चावयवनान्यथा वा वाक्येन 'अनीदृशम् अनन्यसदृशं, स्वपरपक्षस्थापनाव्युदासद्वारेणाऽऽवेदयेदिति / अथ सामथ्यंविकः नः स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यनी-कस्ततो वागुप्तिर्विधयेत्याहसति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत / 'अथवा' इतयन्यथाभावे तु-'वाग्गुप्तया' वयवस्थितः सन्नात्महितमाचरन् 'गोचरस्य ' पिण्डविशुद्ध्यादेराचारगोचरस्य 'आनुपूर्या' उद्रमप्रश्नाऽऽदिरूपया, सम्यग शुद्धिं, प्रत्युपेक्षेत / किम्भूतः ? आत्मगुप्तः सन्, सततोपयुक्त इत्यर्थः / नैतन्मयोच्यत इत्याह-'बुद्धेः कल्प्याकल्प्यविधिः , 'एतत्' पूर्वोक्तं प्रवेदितम्। (अग्रेतनं सव्याख्यं सूत्रद्वयन- 'दाग' शब्दे 4 भागे 2462 पृष्ठे, 'मज्झिमेणं ति' सूत्रं च-'धम्म' शब्दे 4 भागे 2675-2676 पृष्ठे गतम्) (23) केचित्तु मध्यमवयसि समुत्थिता अपि परीषहेन्द्रिप्रेलर्लानता नीयन्त इति दर्शयितुमाह आहारोवचया देहा, परीसहपभंगुरा पासह एगे सव्विंदिएहिं परिगिलायमाणेहिं / (सूत्र-२०८) आहारेणोपचयो येषा ते आहरोपचयाः, के ते ? दिह्यन्त इति देहा:, सदभावे तु म्लायन्ते नियनते वा, तथा- 'परीषहप्रभञ्जिनः' परीषहै: सद्धिर्भगुरा देहा भवन्ति, ततश्चाऽऽहारोपचितदेहा अपि प्राप्तपरीषहा वाताऽऽदिक्षोभेण वा पश्यत यूयम्, 'एके क्लीबाः, सर्वरिन्द्रियैलायमानः क्लीवतामीयुः / तथाहि क्षुत्पीडितो न पश्यति, न शृणोति, न जिघ्रतीत्यादि।तत्र केवलिनोऽप्याहारमन्तरेण शरीरं गलानभावं यायाद, आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति। स्यान्गतम्- अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाचाऽऽहारयति , दयाऽऽदीनि व्रतान्यनुपालया। केवली तु नियमात् सेत्स्यतीत्यतः किमर्थ शरीर धारयति ? सद्धरणार्थ चोऽऽहारयतीति ? अत्रोच्यते-तसयाऽपि चतुष्कर्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीर बिभृयात्, तद्धरणं च नाऽऽहारमन्तरेण क्षुद्वेदनीयसद्भावाचेति / तथाहि-वेदनीयसद्भावात्तत्कृता एकादशाऽपि परीषहाः केवलिनो व्यस्तसमस्ताः प्रादुष्ष्यन्ति, इत्यत आदारयत्येव केवलीति स्थितम। अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिदिीतम। (24) विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह - ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मायन्ने खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुट्ठाइ अपडिन्ने दुहओ छित्ता नियाई। (सूत्र-२०६) 'ओजः, एको रागाऽऽदिरहितः सन्, सत्यपि क्षुत्पिपासाऽदिपरीषहे 'दयामेव दयते' कृपां पालयति, नपरीषहैस्तर्जितो दयां खण्डयतीत्यर्थः / क: पुनर्दया पालयतीत्याह-यो हिलघुकर्मा सम्यनिधीयने नारकाऽदिगतिषु येन तत्सन्निधानं कर्म, तस्य स्वरूपनिरूपकं शास्त्र तस्य, खेदज्ञो-निपुणो, यदि वा-सन्निधानस्य-कर्मणः शप-संयमः सन्निधानशस्त्रं तस्य, खेदज्ञः-सम्यक्संयमभ्यवेत्ता, यश्च संयमविधि: