________________ 123 - अभिधानराजेन्द्रः - भाग 6 मरण 'प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव भवति। 'भूयोऽर्चिमालिप्रभा' इति, भूयःशब्दः प्राचुर्ये, ततः प्रभूता*दित्यदीप्तयो, न ह्येकस्यैवाऽऽदित्यय तादृशी द्युतिरस्तीति भूयोग्रहणम्। ति सूत्रार्थः // 26 // 27 // (17) उपसंहर्तुमाहताणि ठाणाईं गच्छति, सिक्खित्ता संजमं तवं। भिक्खाए वा गिहत्थे वा, जे संति परिनिव्वुडा॥२८॥ 'तानि' अभिहितरूपाणि तिष्ठन्त्येषु, सुकृतिनो जन्तव इति स्थानानिश्रावासाऽऽत्मकानि, 'गच्छन्ति' यान्ति, उपलक्षणत्वागता गमिष्यन्ति 3. उपलक्षणं चैतत् सौधर्माऽऽदिगमनस्य, तत्राऽपि तेषां केषाञ्चिद्गमनसम्भवात्। 'शिक्षित्वा' अभ्यस्य, 'संयम' सप्तदशभेद, 'तपो' द्वादशभेदं, क इत्याह-'भिक्खाए वा गिहत्थे व ति' प्राकृतत्वाद्वचनव्यत्ययेन मिक्षाको वा, गृहस्थो वा भावतो यतय एवेति यावत्, अत एवाह-'जे' विये, शान्त्या-उपशमेन परिनिर्वृताः-शीतीभूता विध्यातकषायाऽ शान्तिपरिनिर्वृताः, यद्वा-ये केचन' सन्ति' विद्यन्ते परिनिर्वृताः, अवच देवावास्यादित्येकवचनप्रक्रमेऽपि यद्बहुवचनाभिधानं तद्व्याप्तयर्थ, ततो न य एक एवेश्वराद्यनुगृहीतः स एव सम्यग्दर्शनाऽऽदिमानपि दिवंक्रामति किन्तु सर्वोऽपि इत्युक्तं भवति / इति सूत्रार्थः / / 28|| . एतचाऽऽकर्ण्य मरणेऽपि यथाभूता महात्मानो भवन्ति यथाऽऽह सिं सुचा सपुजाणं, संजयाणं वुसीमओ। संतसंति मरणंते,सीलवंता बहुस्सुआ॥२६॥ . 'तेषाम् अनन्तराभिहितस्वरूपाणां भावभिक्षूणां, 'श्रुत्वा' आकर्ण्य, उक्तरूपस्थानावाप्तिमिति शेषः / कीदृशाम् ? 'सत्पूज्याना' सतां पूजार्हाणां, सती वा पूजा येषां ते सत्पूजास्तेषां, 'संयताना' संयमवतां, 'सीमओ त्ति' प्राग्वत्,'न संत्रस्यन्ति' नोद्विजनते, कदा? मरणे मरणेन याऽन्तो मरणान्तस्तस्मिन् आवीचीमरणाऽपेक्षया वाऽन्त्यमरणे, प्राकृतत्वाच परनिपातः / समुपस्थित इति शेषः। 'शीलवन्तः' चारित्रिणो, 'बहुश्रुता' विविधागमश्रवणावदातीकृतमतयः, इदमुक्तं भवति-य एवाविदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणादुद्विजन्ते, यथाकाऽस्माभिर्मृत्वा गन्तव्यमिति, उपार्जितधर्माणस्तुधर्मफलमवगच्छन्तो नकुतोऽप्युद्विजन्ते, यथाक्वाऽस्माभिर्भूत्वा गन्तव्यम्। यदुक्तम्- "चरितो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः / मरणादपि नोद्विजते, कृतकृत्योऽस्मीति धर्माऽऽत्मा / / 1 / / " इति सूत्रार्थः / / 26 / / . इत्थं सकामाऽकाममरणस्वरूपमभिधाय शिष्योपदेशमाह तुलिया विसेसमायाय, दयाधम्मस्स खंतिए। विप्पसीइड मेधावी, तहाभूएण अप्पणा॥३०॥ 'तोलयित्वा' परीक्ष्यात्मानं, धृतिदाया॑ऽदिगुणान्वितमिति गम्यते। 'विशेष' प्रक्रमाद्भक्तपरिज्ञाऽदिकं मरणभेदं आदाय' बुद्ध्या गृहीत्वाऽ भ्यपगम्येति यावत्, दयाप्रधानो धर्मो दयाधर्मोदशविधयतिधर्मरूपः, तस्य सम्बन्धिनीया क्षान्तिस्तया, उपलक्षणत्वात्-मार्दवाऽऽदिभिश्च / 'विप्रसीदेत्' विशेषेण प्रसन्नो भवेत्, न तु मरणादुद्विजेतेति भावः / 'मेधावी' मर्यादावर्ती, 'तथाभूतेन' उपशान्तमोहोदयेन, यदिवा-यथैव मरणकालात्प्रागनाकुलचेता अभूत्, मरणकालेऽपि तथैवावस्थितेन तथाभूतेनाऽऽत्मना स्वयमयमपरकल्पोऽपि विप्रसीदेत्, कषायपङ्कापगमतः स्वच्छतां भजेत्, न तु कृतद्वादशवर्षसंलेखनतथाविधतपस्तिवन्निजाङ्गुलीभङ्गाऽऽदिना कषायतिामवलम्बेत मेधावी / किं कृत्वा ? तोलयित्वा बालमरणपण्डितमरणे, ततश्च 'विशेष' बालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणम्,'आदाय' गृहीत्वा, तथा दयाधर्मस्येति चशब्दस्य गम्यमानत्वात् दयाधर्मस्य च-यतिधर्मस्य विशेषंशेषधोतिशायित्वलक्षणमादायेति सम्बन्धः / 'कया विप्रसीदेत् ?' क्षान्त्या, तथाभूतेनेति निष्कषायेणाऽऽत्मनोपलक्षितः। इति सूत्रार्थः॥३०॥ विप्रसन्नश्च यत् कुर्यात्तदाह-' तओ काले अभिप्पेए, सड्डी तालीसमंतिए। विणएज्ज लोमहरिसं, भेयं देहस्स कंखए॥३१॥ 'तत्' इति कषायोपशमानन्तरं,'काले' मरणकाले, 'अभिप्रेते' अभिरुचिते, कदा च मरणमभिप्रेतम् ? यदायोगा नोत्सर्पन्ति / 'सड्डि त्ति' प्रागवत् ; श्रद्धावान्, तादृशमिति भयोत्थम्, 'अन्तिके' समीपे गुरूणां मरणस्य वा, विनयेद्' विनाशयेत्, कम् ? लुनाति लीयन्ते वा तेषु यूका इति लोमानि तेषां हर्षो लोमहर्षस्तं-रोमाञ्चं, हा! मममरणं भविष्यतीति भयाभिप्रायसम्प्राप्य, किं च-'भेदं' विनाशं, 'देहस्य' शरीरस्य, काङ्केदिव काङ्ग्रे त्, त्यक्ततत्परिकर्मत्वात् / अथवा-'तालिसन्ति' सुब्ब्यत्ययात् तादृशो यादृशः प्रव्रज्याप्रतिपत्तिकाले संलेखनाकाले वा अन्तकालेऽपितादृशः अद्धावान् सन्, उक्तं हि-'जाए सद्धाए णिक्खंतो, परियायट्ठाणमुत्तमं तमेव अणुपालेज त्ति।" ईदृशश्च परीषहोपसर्गजं लोमहर्ष विनयेदिति सम्बन्धः / इति सूत्रार्थः // 31 // (18) नियमयितुमाह - अह कालम्मि संपत्ते, आघायाय समुच्छयं / सकाममरणं मरति, तिण्हमन्नयरं मुणी॥३२॥ 'अथेति' मरणाभिप्रायानन्तरं, 'काले' इति मरणकाले, संप्राप्ते 'णिप्फाइया य सीसा' इत्यादिना क्रमेण समायाते, 'आधायाय त्ति' आर्षत्वात् आघातयन्, संलेखनादिभिरुपक्रमणकारणैः समन्ताद् घातयन्- विनाशयन, कं? समुच्छ्रयम्-अन्तः कार्मणशरीरं 'बहिरौदारिक' यद्वा 'समुस्सतं ति' सुब्व्यत्ययात्समुच्छ्रयस्याऽऽघातायविनाशाय, काले सम्प्राप्त इति सम्बन्धनीयम्। किमित्याह-सकामस्यउक्तनीत्या साभिलाषस्य मरणंसकाममरणं, तेन म्रियते, त्रयाणांभक्तपरिज्ञेङ्गिनीपादपोपगमनानामन्यतरेण,सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः। 'मुनिः तपस्वी। इति सूत्रार्थः // 32 / / उत्त०५ अ०।