________________ वेयणा 1440 - अभिधानराजेन्द्रः - भाग 6 वेयणा स्परोदीरणतः परमाधार्मिकोदरीरणतो वा क्षेत्रानुभावतो वा शरीरे पीडामनुभवन्ति तदा शारीरीं वेदनां वेदयन्ते / यदा तु केवलं मनसि दुःखं परिभावयन्ति पाश्चात्य वा भवमात्मीय दुष्कर्मकारिणमनुसृत्य पश्चात्तापमतीव कुर्वते तदा मानसीं वेदनां वेदयन्ते। यदातु शरीरे मनसि चोक्तप्रकारेण युगपत् पीडाम् अनुभवन्ति तदा शारीरमानसी / इहापि वेदनानुभवः क्रमेणैव केवलं विवक्षिततावत्कालमध्ये शरीरे चपीडामनुभवन्ति मनसि च एतावन्तं कालमेकं विवक्षित्वा, युगपच्छरीरमनःपीडानुभवः प्रतिपादित इत्यदोषः / एवं जाव वेमाणिया' इत्यादि, एवं नैरयिक्तोकेन प्रकारेण सूत्रं तावद् वक्तव्यं यावद्वैमानिकाः, नवरमेकेन्द्रियविकलेन्द्रियाः शारीरी वेदनां वेदयन्ते न मानसीं, तेषां मनसोऽभावात्, ततस्तदनुसारेण तद्विषय सूत्र वक्तव्यम्। प्रकारान्तरेण वेदनामभिधित्सुः प्रश्ननिर्वचनसूत्रे आह-- कइविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता, तं जाह-साता, असाता, साता साता। नेरइया णं भंते ! किं सायं वेदणं वेदेति, असातं वेदणं वेदेति, सायासायं वेदणं वेदेति? गोयमा!तिविहं पिवेयणं वेयंति, एवं सव्वजीवा० जाव वेमाणिया। कतिविहाणं भंते ! वेदणा पण्णत्ता? गोयमा ! तिविहा पण्णत्ता, तंजहा-दुक्खा, सुहा, अदुक्खसुहा। नेरइया णं भंते ! किं दुक्खं वेदणं वेदेति पुच्छा, गोयमा ! दुक्खं पि वेदणं वेदेति, सुहं पि वेदणं वेदेति, अदुक्खमसुहं पि वेदणं वेदेति, एवं जाव वेमाणिया। (सू०३२८॥ 'कइविहा णं भंते !' इत्यादि, तत्र साता-सुखरूपा असातादुःखरूपा साताऽसाता-सुखदुःखात्मिका, एतामेव नैरयिकादिचतुर्विशतिदण्डकक्रमेण चिन्तयति-'नेरइया ण' मित्यादि, तत्र तीर्थङ्करजन्मादिकाले सातवेदनां वेदयन्ते, शेषकालमसातवेदना वेदयन्ते, यदा तुपूर्वसङ्गतिको देवो दानवो वा वचनामृतेः सिञ्चति तदा मनसि सातं शरीरे तु क्षेत्रानुभावतोऽसातम्, यदिवा- मनस्येव तद्दर्शनतः तद्वचनश्रवणतश्च सातं पश्चात्तापानुभवनतस्त्वसातमिति, तदा सातासातवेदनामनुभवन्ति / अत्रापि तावन्तं विवक्षितकालमेक विवक्षित्वा सातासातानुभवो युगपत् प्रतिपादितः, परमार्थतस्तु क्रमेणैव च वेदितव्य इति / एवमित्यादि, एवं-नैरयिकोक्तप्रकारेण सर्वे जीवास्तावद्वक्तव्या यावद्वैमानिकाः, तत्र पृथिव्यादयो यावन्नाद्याप्युपद्रवः स न्निपतति तावत् सातवेदनां वेदयन्ते, उपद्रवसम्पाते त्वसातवेदनामवयवभेदेनोपद्रवसम्पातभावे सातासातवेदनाम्, / व्यन्तरज्योतिष्कवैमानिका देवाः सुखमनुभवन्तः सातवेदना, च्यवनादिकाले त्वसातवेदना, परविभूतिदर्शनतो मात्सर्याद्यनुभवे स्ववल्लभदेवीपरिष्वङ्गाधनुभवे च युगपज्जायमाने सातासातवेदना वेदयन्ते इति। भूयः प्रकारान्तरेण एतामेव प्रतिपादयन् प्रश्ननिर्वचनसूत्रे आह- 'कइविहा णं भते ! इत्यादि, या वेदना नैकान्तेन दुःखा भणितुं शक्यते सुखस्यापि भावात्, नापि सुखा दुःखस्यापि भावात्, सा अदुःखसुखा सुखदुःखात्मिका इत्यर्थः / अथ सातासातयोः सुखदुःखयोश्च परस्परं कः प्रतिविशेषः ? उच्यते- ये क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवतः साताऽसाते ते साताऽसाते उच्येते, ये पुनः परोदीर्यमाणवेदनारूपे साताऽसाते ते सुखदुःखे इति / एतामेव चतुर्विशतिदण्डकक्रमेण चिन्तयति-'नेरइया ण' मित्यादि। वेदनामेव प्रकारान्तरेण चिन्तयन्नाहकतिविहा णं भंते ! वेदणा पण्णत्ता ! गोयमा ! दुविहा वेयणा पण्णत्ता, तं जहा-अब्भोवगमिया य, उवक्कमिया य / नेरइया णं मंते ! अब्भोवगमियं वेदणं वेदेति, उवक्कमियं वेदणं वेदेति, एवं० जाव चउरिंदिया, पंचिंदियतिरिक्खजोणिया मणूसा य दुविहं पि वेदणं वेयंति, वाणमंतरजोतिसियवेमाणिया जहा नेरइयाइ / / (सू०३२६) 'कतिविहा णं भंते ! इत्यादि, तत्राभ्युपगमिकी नाम या स्वयमभ्युपगम्यते, यथा साधुभिः केशोल्लुञ्चनातापनादिभिः शरीरपीडा, अभ्युपगमेन-स्वयमङ्गीकारेण निर्वृत्ता आभ्युपगमिकीति व्युत्पत्तेः, उपक्रमणमुपक्रमः- स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनं तेन निर्वृत्ता औपक्रमिकी, स्वयमुदीर्णस्य उदीरणाकरणेन वा उदयमुपनीतत्त्य वेदनीयकर्मणो विपाकासुनयनेन निर्वृत्ता इत्यर्थः। तत्र पञ्चेन्द्रियतिर्यचो मनुष्याश्च द्विविधामपि वेदनां वेदयन्ते, सम्यगदृशां पञ्चेन्द्रियतिरश्वा मनुष्याणां च कर्मक्षपणार्थमाभ्युपगमिक्या अपि वेदनायाः सम्भवात्, शेषास्त्वौपक्रमिकीमेव वेदनां वेदयन्ते नाभ्युपगमिकीम्, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाणां मनोविकलतया विवेकाभावतस्तथाप्रतिपत्तेरभावात, नारकभवनपतिव्यन्तरज्योतिष्कवैमानिकानां च तथाभवस्वाभाव्यादिति / एतदेव सूत्रकृत प्रतिपादयति- 'नेरइया णं भंते ! इत्यादि सुगमम्। पुनः प्रकारान्तरेण वेदनामेवाभिधित्सुराहकतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! दुविहो वेदना पण्णत्ता, तं जहा-निदा य, अणिदा य / नेरइया णं भंते ! किं निदायं वेयणं वेदयंते, अणिदायं वेयणं वेदयं-ते ? गोयमा ! निदायं पि वेदणं वेदेति, अणिदायं पिवेदणं वेदयंते / से केणतुणं भंते ! एवं वुचइ, नेरइया निदायं पि अनिदायं पि वेयणं वेदें ति? गोयमा ! नेरइया दुविहा पण्णत्ता, तं जहा-सण्णीभूया य असण्णीभूया य / तत्थ णं जे ते सण्णीभूया ते णं निदायं पि वेयणं वेदेति, तत्थ णंजे ते असण्णीभूता ते णं अणिदायं वेदणं