________________ वेमाया 1538- अभिधानराजेन्द्रः - भाग 6 वेयणा वेमाया-स्त्री०(विमात्रा) कदाचित्सातं कदाचिदसातमित्यादिरूपायां विविधमात्रायाम्, भ०६ श०१ उ०। स्या०। विविधा मात्रापरिमाणमा सामिति विमात्रा। विचित्रपरिणामायाम्, उत्त०२ अ०। आव०। आ० म०। वेयडिय-त्रि०(वैकटिय) सुरासन्धानकारिणि, व्य०६ उ०। वेयङ्क-पुं०(वैताळ्य) पर्वतविशेषे, प्रश्न० / वैताट्यसमीपे द्विसप्ततिबिलानि क्व सन्तीति प्रश्नः ? अत्रोत्तरंवैताळ्यनिश्रया गङ्गासिन्ध्वोर्द्विसप्ततिबिलानि, तत्र दक्षिणभरतार्द्ध उत्तरभरतार्द्ध च तत्तटद्वये तव नव बिलसद्भावादिति 87 / सेन०४ उल्ला०। वेयण-न०(वेतन) मूल्ये, विपा० 1 श्रु०३ अ० उत्त०। वेदन-न० अनुभवे, स्था० 8 ठा०३ उ०। आचा०। कर्म० / सूत्र०। अवनं गमनंवेदनमिति पर्यायाः।आ०म०१अ० न० स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेनचोदयभावमुपनीतस्यानुभवने, स्था० 4 ठा०१ उ० दश०। प्रतिसयमं स्वेन रसविपाकेनानुभवने, स्था०४ ठा०४ उ०। उदये, दश०४ अ०। वेयणअहियासण-न०(वेदनाध्यासन) क्षुदादिपीडासहने, भ०१७ श० 3 उ०॥ वेयणंतिया-स्त्री०(वेदनान्तिका) ब्राह्मया लिपेर्भेदे, स०१८ सम०। वेयणवेयावच-न०(वेदनावैयावृत्य) वेदना चक्षुर्वेदना वैयावृत्त्यं चाचा र्यादिकृत्यकरणं वेदनावैयावृत्त्यम् / वेदनोपशमनार्थे वैयावृत्यकरणे, स्था०६ ठा०३ उ०। वेदनावैयावृत्त्यार्थ भुञ्जीततत्र क्षुद्वेदनोपशमेनाय भुञ्जीत यतो नास्ति क्षुत्सदृशी वेदना / ग०२ अधि०। वेयणा-स्त्री०(वेदना) वेद्यतेऽनयेति वेदना। योगशास्त्रपरिभाषया स्पर्शनेन्द्रियजे ज्ञाने, यत्प्रकर्षादिव्यास्पर्शविषयं ज्ञानेमुत्पद्यते। द्वा०२६ द्वा०। आव० / वेदनं वेदना स्वभावेनोदीरणाकरणेन चोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवने, संवरविशेषे चायोग्य-वस्थारूपे कर्मणां वेदनैव भवति नबन्ध इति / स्था०। वेदनास्वरूपमाहएगा वेयणा। (सू०१५) वेदनं वेदना- स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः / सा च ज्ञानावरणीयादि-कम्मपिक्षया अष्टविधाऽपि विपाकोदयप्रदेशोदयापेक्षया द्विविधाऽपि आभ्युपगमिकीशिरोलोचादिकी औपक्रमिकीरोगादिजनितेत्येवं द्विविधाऽपि वेदना सामान्यादेकैवेति / स्था० 1 ठा० / औ०। स० / स्वशरीराव्यक्तचेतनायाम्, आचा०१श्रु०१ अ०२ उ० कर्मानुभवे, 'णत्थिवेयण त्ति नसंज्ञां निवेशयेत् सूत्र०२ श्रु०५ अ०। ज्ञाने, सातासातरूपे, सूत्र०२ श्रु०२ अ०। सुखदुःखानुभवस्वभावा वेद्यन्त इति वेदनाः। शीतोष्णशाल्मल्याश्लेषणादौ, उत्त० 5 अ० / आव० / आचा० / नयनादिपीडायाम्, स्था०७ठा०३ उ०। दुःखे, स्था०४ ठा०१3०। उत्त०। _ वेदनावक्तव्यतार्थाधिकारसंग्रहःसीता(य) दव्वसरीरा, साता तह वेदणा भवति दुक्खा। अन्मुवगमोवकमिया, निदा य अणिदाय नायव्वा / / 1 / / सायमसायं सव्वे, सुहं च दुक्खं अदुक्खमसुहं च / माणसरहियं विगलिं-दिया उसेसा दुविहमेव // 2 // 'सीया (य) दव्वे' त्यादि, वेदना प्रथमतः शीता चशब्दादुष्णाशीतोष्णा च वक्तव्या, तदनन्तरं द्रव्यक्षेत्रकालभावैर्वेदना वक्तव्या; ततः शारीरी उपलक्षणान्मानसीच वेदनावाच्या,ततः साता तथा दुःखावेदनासभेदा वक्तव्यतया ज्ञातव्या भवति, तदनन्तरमाभ्युपगमिकी औपक्रमिकी च वेदना वक्तव्यतया ज्ञातव्या, ततोऽप्यनन्तरं निदा, चानिदा चेति / सातसुखादीनां विशेषमाभ्युपगमिथ्यादिशब्दानामर्थे त्वग्रे वक्ष्यामः / सातादिवेद-नामधिकृत्य यो विशेषो वक्ष्यते तत्संग्राहिका द्वितीया गाथा'सायमसाय' मित्यादि सर्वे संसारिणः सातामसातां चशब्दात्सातासातां च वेदनां वेदयन्ते, तथा सुखां दुःखाम, अदुःखासुखां च, तथा विकलेन्द्रिया- एकद्वित्रिचतुरिन्द्रियाः तुशब्दस्याधि-कारार्थसंसूचनार्थत्वादसंज्ञिपञ्चेन्द्रियाश्च मानसरहितांमनोविकलां वेदनांवेदयन्ते, शेषास्तु द्विविधामेव शरीरमनो-निबन्धनां, शारीरीं मानसीं तदुभयसमुद्भवां चेति भावः, निदाऽनिदादिगतस्तु वेशेषो न संग्रहीतो, विचित्रत्वात् सूत्रगतेः। तत्र'यथोद्देशं निर्देश' इति न्यायात् प्रथमतः शीतादि. वेदनाः प्रतिपादनार्थमाहकइविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेदणा पण्णत्ता, तं जहा-सीता उसिणासीतोसिणा। 'कइविहा णं भंते !' इत्यादि, शीता-शीतपुद्गलसंपर्क समुत्था, एवमुष्णा,याच अवयवभेदेन शीतोष्णपुद्गलसंपर्कतः शीता उष्णा च सा शीतोष्णा। एनामेव त्रिविधां वेदनां नैरयिकादिचतुर्विशतिदण्ड है कक्रमेण चिन्तयतिनेरझ्या णं भंते ! किं सीतं वेदणं वेदेति, उसिणं वेदणं वेदेति, सीतोसिणं वेदणं वेदेति ? गोयमा ! सीतं पि वेदणं वेदेति, उसिणं पि वेदणं वेति, नो सीतोसिणं वेदणं वेदेति / केई एक्ककपुढवीए वेदणाओ, भणंति, रयणप्पभापुढविनेरइया णं भंते ! पुच्छा, गोयमा! नो सीतं वेदणं वेदेति, उसिणं वेदणं वेति, नो सीतोसिणं वेदणं वेदेति, एवं० जाववालुयप्पभापुढविनेरइया, पंकप्पमापुढविनेरइयाणं पुच्छा, गोयमा! सीतं पि वेदणं वेदेति उसिणं पिवेदणं वेदेति, नो सीतोसिणं वेदणं वेदेति, ते बहुयतरागा जे उसिणं वेदणं वेदेति, ते थोवतरागा जे सीतं वेदणं वेदेति / धूमप्पभाए एवं चेव दुविहा, नवरं ते बहुयतरागा जे सीतं वेदणं वेदेति, ते थोवतरागा जे उसिणं वेदणं वेदेति। तमाएयतमतमाएयसीयं वेदणं वेदेति, नो उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं वेदेति। असुरकुमाराणं पुच्छा, गोयमा! सीतं पि वेदणं वेदेति उसिणं पि वेदणं वेदेति सीतोसिणं पि वेदणं वेदेति, एवं० जाव वेमाणिया। (सू०३२८४)