________________ दीरिय 1407 - अभिधानराजेन्द्रः - भाग 6 वीरिय निहन्यन्ते ाणिनः संसारे यया सा निहा-भाया न विद्यते सा यस्यासावनिहो; मायाप्रपारहित इत्यर्थः, तथा मानरहितो लोभवर्जित इत्यपि द्रष्टव्सम, स चैवम्भूतः संयमानुष्ठानं चरेत्-कुर्यादिति, तदेव मरणकाले अन्यदा वा पण्डितवीर्यवान् महाव्रतेषूद्यतः स्यात् / तत्रापि पाणातिपातविरतिरेव गरोयसीति कृत्वा तत्प्रतिपादनार्थमाह-''उडमहे तिरियं वा, जे पाणा तसथावरा / सब्वत्थ विरतिं कुजा, संति निव्वाणमाहियं / / 1 / / ' अयं च श्लोको न सूत्रादर्शषु दृष्टः, टीकायां तु दृष्ट इति कृत्वा लिखितः, उत्तानार्थश्चति // 18|| सूत्र० 1 श्रु० 8 अ० / (अबुद्धा इव बालवीर्यवन्त इति अबुद्ध' शब्दे प्रथमभागे 684 पृष्ठे गतम्।) साम्प्रत पण्डितवीNिणोऽधिकृत्याऽऽहजे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो। सुद्धं तेसिं परकंतं, अफलं होइ सव्यसो / / 23 / / तेसिं पि तवो ण सुद्धो, निक्खंता जे महाकुला। जन्ने वन्ने वियागंति, न सिलोगं पवेञ्जए।।२४।। अप्पपिंडासि पाणासि, अप्पं भासेज सुव्वए। खंतेऽभिविव्वुडे दंते, वीतगिद्धी सदा जए।।२।। झाणजोगं समाहटु, कायं विउसेज सव्वसो। तितिक्खं परमं णच्चा, आमोक्खाए परिव्वए॥२६| जासि त्ति बेमि, इति श्रीवीर्याख्यमष्टममध्ययनं संमत्तं / ये केचन स्यंबुद्धास्तीर्थकराद्यास्तच्छिष्या वा बुद्धबोधिता गणधरादयो महाभागा महापूजाभाजो वीराः- कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणविराजन्त इति वीराः, तथा सम्यक्त्वदर्शिनः- परमार्थतत्त्ववेदिनस्तेषां भगवता यत्पराक्रान्ततपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धम्-- अवदातं निरुपरोध सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति अफल भवति-तन्निरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः। तथाहि-सम्यगदृष्टीना सर्वमपि संयमतपःप्रधानमनुष्ठान भवति, संयमस्य चानाप्रवरूपत्वात् तपसश्च निर्जराफलत्वादिति। तथा च पठ्यते-''संयमे अणाहयफल तवे वोदाणफले' इति // 23 // किञ्चान्यत्- महत्कुलम् इक्ष्वाक्वादिक येषां ते महाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्तीर्णयशसस्तेषामपि पूजा-सत्काराद्यर्थमुत्कीर्तनेन वा यत्तपस्तदशुद्धं भवति / यच क्रियमाणमपि तपो नैवान्ये दानश्राद्धादयो जानन्ति / तत्तथाभूतमात्मार्थिना विधेयम्, अतो नैवात्मश्लाघां प्रवेदयेत्- प्रकाशयेत् / तद्यथा-अहमुत्तमकुलीन इभ्यो वाऽऽसं साम्प्रतं पुनस्त-पोनिष्टप्तदेह, इति, एवं स्वयमाविष्करणेन न स्वकीयमनुष्ठानं फल्गुतामापादयेदिति / / 24 / / अपिच-अल्पस्तोक पिण्डमशितुं शीलमस्यासावल्पपिण्डाशी यत्किञ्चनाशीति भावः, एवं पानेऽप्यायोज्यम्। तथा चागमः- 'हे जंव तं व आसी य, जत्थ व तत्थ व सुहोवगयनिहो। जेण व तेण व संतु-टु, | वीर ! मुणि-ओऽसि ते अप्पा'' ||1|| तथा "अट्टकुक्कुडिअंडगमेत्तप्पामणे कवले आहारमाणे अप्पाहारे दुबालसकवलेहिं अवड्डामोयरियासोसलहिं दुभागे पत्ते--चउवीस ओभोदरिया, तीसं पमाणपत्ते बत्तीस कवला संपुण्णाहारे'' इति, अत एकैककवलहान्यादिनानोदरता विधया, एवं पाने उपकरणे चोनोदरतां विदध्यादिति। तथा चोक्तम्- "थोवाहारो थोव भणिओ अ जो होइ थोवनिदो अ। थोवोवहिउवकरणो, तस्स हु देवा विपणमति||१||" तथा सुव्रतः-साधुः अल्पंपरिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः / भावावमौदर्यमधिकृत्याह-भावतः क्रोधाद्युपशमात् क्षान्तः- क्षान्तिप्रधानः तथा अभिनित्तोलोभादिजयान्निरातुरः, तथा इन्द्रियनोइन्द्रियदमनात् दान्तोजितेन्द्रियः / तथा चोक्तम्-“कषाया यस्य नोच्छिन्ना यस्य नात्मवश मनः। इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् // 1 // '' एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः आशंसादोषरहितः सदा सर्वकालं संयमानुष्ठाने यतेत-यत्न कुर्यादिति / / 25 / / अपि च- 'झाणजोगं' इत्यादि, ध्यानंचित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाक्कायव्यापारस्त ध्यानयोग समाहृत्य-सम्यगुपादाय कायंदेहमकुशलयोगप्रवृत्तं व्युत्सृजेत्-परित्यजेत् सर्वतः- सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारिन व्यापारयेत्।तथा तितिक्षां-क्षान्तिं परीषहोपसर्गसहनरूपां परमाप्रधाना ज्ञात्वा आमोक्षाय-अशेषकर्मक्षयं यावत् परिखजेरितिसंयमानुष्टानं कुर्यास्त्वमिति / इतिः परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत् / / 26 / / समाप्तं चाष्टमं वीर्याख्य-मध्ययनमिति / सूत्र०१ श्रु०८ अ०। जीवाणं भंते ! किं सवीरिया अवीरिया ? गोयमा ! सवीरिया वि, अवीरिया वि।से केणऽटेणं ? गोयमा ! जीवा दुविहा पन्नत्ता, तं जहा-संसारसमावन्नगा य, असंसारसमावन्नगा या तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धाणं अवीरिया, तत्थ णं जे जे संसारसमावन्नगा ते दुविहा पन्नत्ता, तं जहा-सेलेसिपडिवन्नगा य, असेलेसिपडिवनगा य / तत्थ णं जे ते सेलेसिपडि वनगा ते णं लद्धिवीरिएणं सवीरिया, करणवीरिएणं अवीरिया। तत्थणं जे ते असेलेसिपडिवन्नगा ते णं लद्धिवीरिएणं सवीरिया, करणवीरिएणं सवीरिया वि, अवीरिया वि। से तेणटेणं गोयमा ! एवं वुचइ-जीवा दुविहा पण्णत्ता, तं-जहा-सवीरिया वि, अवीरिया वि। नेरइया णं भंते ! किं सवीरिया, अवीरिया? गोयमा ! नेरइया लद्धिवीरिएणं सवीरिया, करणवीरिएणं सवीरिया वि, अवीरिया वि। से केणऽट्टेणं ? गोयमा ! जेसिणं नेरझ्याणं अत्थि उहाणे कम्मे बले वीरिए पुरिसक्कारपारक्कमे ते णं नेरइया लद्धिवीरिएण वि सवीरिया, करणवीरिएण वि सवीरिया, जेसि णं नेरइयाणं नत्थि उट्ठाणे० जाव परक्कमे ते णं नेरइया लद्धिवीरिएणं सवीरिया, करणवीरिएणं अवीरिया। से