________________ वीरिय 1406 - अभिधानराजेन्द्रः - भाग 6 वीरिय यः / 1 // " इति / चकारी धनधान्यद्विपदचतुष्पदशरीराद्यनित्यत्वभावनाथी (थम्) अशरणाद्यशेषभावनार्थ चानुक्तसमुच्चयार्थमुपात्ताविति // 12 // अपि चएवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे। आरियं उवसंपजे, सव्वधम्ममकोदियं / / 13 / / सह संमइए णचा, धम्मसारं सुणेत्तु वा। समुवट्ठिए उ अणगारे, पञ्चक्खाए य पावए॥१४॥ अनित्यानि सर्वाध्यपि स्थानानीत्येवम् आदाय-अवधार्य मेधावीमर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः सम्बन्धिनी गृद्धि-गाद्वर्य ममत्वम् उद्धरेद्-अपनयेत्, ममेदमहमस्य स्वामीत्येवं ममत्वं क्वचिदपि न कुर्यात्, तथा आराद्यातः सर्वहेयधर्मे भ्य इत्यायों- मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रा-त्मकः, आर्याणां वा-तीर्थकृदादीनामयमार्यो मार्गस्तम् उपसम्पद्येत- अधितिष्ठेत् समाश्रयेदिति / किम्भूत मार्गमित्याह- सर्वेः कुतीर्थिकधर्मः अकोपितः- अदूषितः स्वमहिम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठां गतः (तं). यदिवासर्वधर्म:- स्वभावैरनुछानुरूपैरगोपितं-कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः // 13 // सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह-धर्मस्य सारः- परमार्थों धर्मसारस्तं ज्ञात्वाअवबुध्य कथमिति दर्शयति-सह सन्- मत्या स्वमत्या वा विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकत्वात् ज्ञानस्य, तेन सह, धर्मस्य सारं ज्ञात्वेत्यर्थः, अय॑भ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्धा धर्मसारमुपगच्छति, धर्मस्य वा सार-चारित्र तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यात-निराकृतं पापक सावधानुष्ठानरूप येनासौ प्रत्याख्यातपापको भवतीति // 14 // किश्चान्यत्जं किंचुवक्कम जाणे, आउक्खेमस्स अप्पणो। तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए / / 15 / / जहा कुम्मे सअंगाई, सए देहे समाहरे। एवं पावाई मेधावी, अज्झप्पेण समाहरे / / 16 / / उपक्रम्यते-संवर्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्त(य) वञ्चनं जानीयात्, कस्य ?- आयुःक्षेमस्यस्वायुष इति / इदमुक्तं भवतिस्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलो जीवितानाशंसी पण्डितो विवेकी संलेखनारूपां शिक्षा भक्तपरिज्ञेशितमरणादिकां वा शिक्षेत, तत्र ग्रहणशिक्षया यथा वन्मरणविधिं विज्ञायाऽऽसेवनशिक्षया त्वासेवेतेति / / 15|| किश्चान्यत-यथेति उदाहरणप्रदर्शनार्थः, यथा कूर्मः . कच्छपः स्वान्यगानिशिरोऽधरादीनि स्वके देहे समाहरेद्-- गोपयेद्-अव्यापाराणि कुर्याद् एवम्-अनयैव प्रक्रियया मेघावी-मर्यादावान् सदसद्विवेकी वा पापानि-पापरूपाण्यनुष्ठानानि अध्यात्मना-सम्यग्धर्मध्यानादिभावनया समाहरेत- उपसंहरेत्, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति / / 16 / / संहरणप्रकारमाहसाहरे हत्थपाए य, मणं पंचिंद्रियाणि य। पावकं च परीणाम, भासादोसं च तारिसं / / 17 / / अणुमाणं च मायं च, तं पडिन्नाय पंडिए। सातागारवणिहुए, उवसंते णिहे चरे॥१८॥ पादपोषगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च संहरेद-व्यापारान्निवर्तयत्, तथा मनः- अन्तःकरणं तच्चाकुशलव्यापारेभ्यो निवर्तयत्, तथा शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रन्द्रियादीनिपञ्चापीन्द्रियाणि। चशब्दः समुच्यते। तथा पापकं परिणाममैहिकामुष्मिकाशंसारूप संहरेदित्येव भाषादोष च तादृशंपापरूपं संहरेत्, मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरण वाऽशेषकर्मक्षयार्थं सम्य-गनुपालयेदिति॥१७॥ तं च संयमे पराक्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षों न कार्य इति दर्शयितुमाह-चक्रवादिना सत्कारादिना पूज्यमानेन अणुरपिस्तोकोऽपि मानः- अहंकारो न विधेयः, किमुत महान् ? यदिवोत्तममरणोपस्थिते नोग्रतपोनिष्टप्तदेहेन वा अहोऽह-मित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेयाकिमुत महती ? इत्येवं क्रोधलोभावपि न विधेयाविति / एवं द्विविधयाऽपि परिज्ञया कषायास्तद्विपाकांश्च परिज्ञाय, तेभ्यो निवृत्ति कुर्यादिति / पाठान्तरं वा 'अइमाणं च मायं च तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव त दुःखावहमित्येवं ज्ञात्वा परिहरेत् / इदमुक्तं भवति यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यम् / पाठान्तरं वा 'सुयं मे इहमेगेसि, एवं वीरस्स वीरिय' येन बलेन संग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य न भवति, अपि तुयेन कामक्रोधादीन् विजयते तद्वीरस्य-महापुरुषस्य वीर्यम् / इहैव-अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीना सम्बन्धि वाक्यं मया श्रुतम्, पाठान्तरं वा 'आयतट्ट सुआदाय, एवं वीरस्न धीरिय आयतो मोक्षोऽपर्यवसितावस्थानत्वात् स चासावर्थश्च तदर्थों वातत्प्रयोजनो वा सम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्त सुष्टवादायगृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतवीरस्य वीर्यमिति / यदुक्तमासीत् 'किं (तु) नु वीरस्य वीरत्वमि' ति तद्यथा भवति तथा व्याख्यातम् / किञ्चान्यत्- सातागौरवं नाम सुखशीलता तत्र निभृतः- तदर्थमनुद्युक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतःशब्दाविषयेभ्योऽप्यनुकूलप्रतिकूले - भ्योऽरक्त द्विष्टतयोपशान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति, तथा