________________ वीरिय 1405 -- अभिधानराजेन्द्रः - भाग 6 वीरिय हन्तार:- प्राणिव्यापादयितारस्तथा छेत्तारः- कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति / / 5 / / तदेतत्कथमित्याहतदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च अन्तशः- कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनरीव पापानुष्ठानानुमत्या कर्म बध्नातीति। तथा आरतः परतश्चेति लौकिकी वाचायुक्तिरित्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः द्विधाऽपि-स्वयं करणेन परकरणेन चासंयताजीवोपघातकारिण इत्यर्थः / / 6 / / साम्प्रतं जीवोयघातविपाकदर्शनार्थमाहवेराई कुव्वई वेरी, तओ वेरेहिं रज्जती। पावोवगा य आरंभा, दुक्खफासाय अंतसो / / 7 / / संपरायं णियच्छंति, अत्तदुक्कडकारिणो। रागदोसस्सिया बाला, पावं कुव्वंति ते बहु ||8|| वैरमस्यास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, तताऽपि च वैरादपरैरनुरज्यते-संबध्यते, वैरपरम्परानुषड्गी भवतीत्यर्थः / किमिति यतः पापम् उपसामीप्येन गच्छन्तीति पापोपगाः, क एते ?-आरम्भाः-सावद्यानुष्ठानरूपाः अन्तशो-विषाककाले दुःखं रपृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति // 7 // किश्चान्यत्- 'संपरायं णियच्छती त्यादि, द्विविधं कर्मईर्यापथं, साम्परायिकं च / तत्र सम्परायाबादरकषायास्तेभ्य आगतं साम्परायिक तत् जीवोपमर्दकत्वेन वैरानुषङ्गितया आत्मदुष्कृतकारिणः- स्वपापविधायिनः सन्तो नियच्छन्ति-बघ्रन्ति / तानेव विशिनष्टिरागद्वेषाश्रिताः- कषायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः पापम्-असद्वेध बहुअनन्तं कुर्वन्ति-विदधति।।८।। एवं बालवीर्य प्रदोपसंजिघृक्षुराहएवं सकम्मविरियं, बालाणं तु पवेदितं / इत्तो अकम्मविरियं, पंडियाणं सुणेह मे |6|| ददिबए बंधणुम्मुक्के, सव्वओ छिन्नबंधणे / पणोल्ल पावकं कम्मं सल्लं कंतति अंतसो / / 10 / / एतत्- यत् प्राक् प्रदर्शितम्, तद्यथा-प्राणिनामतिपातार्थ शस्त्र शास्त्रं वा केचन शिक्षन्ते, तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयते, तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वत, केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते (ते) तथाहिजमदग्निना स्वभार्याऽकार्य-व्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः,जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्रकृत्वो ब्राह्मणा व्यापादिताः। तथा चोक्तम्-"अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान्। अधिकां कुरुतेऽरियातनां, द्विषतां जातमशेषमुद्धरेत्॥१॥" तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति / तदेतत्सकर्मणा बालानां वीर्य तुशब्दात्प्रमादवतां च प्रकर्षण वेदितं प्रवेदितं प्रतिपादितमितियावत्। अत ऊर्ध्वमकर्मणां-पण्डिताना यवीर्य तन्मे-मम कथयतः शृणुत यूयमिति॥६यथा प्रतिज्ञातमेवाहद्रव्यो-भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनातागद्वेषविरहाद्वा द्रव्यभूतोऽकषायीत्यर्थः / यदिवा-वीतराग इव वीतरागोऽल्पकषाय इत्यर्थः / तथा चोक्तम्- "किं सक्का वोत्तु जे, सरागधम्मम्मि कोइ अकसायी। संते वि जो कसाए, निगिण्हई सोऽपि तत्तुलो / / 1 / / " स च किम्भूतो भवतीति दर्शयति-बन्धनात् कषायात्मकान्मुक्तो बन्धनोन्मुक्तः, बन्धनत्वं तु कषायाणां कर्मस्थितिहेतुत्वात् / तथा चोक्तम्"बंधहिई कसायवसा'' कषायवशात् इति, यदिवा-बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः सर्वतः-सर्वप्रकारेण सूक्ष्मबादररूपं छिन्नम्अपनीतं बन्धनं-कषायात्मकं येन स छिन्नबन्धनः, तथा प्रणुद्य-प्रेर्य पाप-कर्मकारणभूतान् वाऽऽश्रवानपनीय शल्यवच्छल्यं शेषकं कर्म तत् कृन्तति- अपनयति अन्तशोनिरवशेषतो विघटयति / पाठान्तरं वा 'सल्लं कतइ अप्पणो' तिशल्यभूतं यदष्टप्रकार कर्म तदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः / / 10|| यदुपादाय शल्यमपनयति तदर्शयितुमाहनेयाउयं सुयक्खायं, उवादाय समीहए। मुजो भुञ्जो दुहावासं, असुहत्तं तहा तहा।।११।। ठाणी विविहठाणाणि, चइस्संति ण संसओ। अणियत्ते अयं वासे, णायएहि सुहीहि य / / 12 / / नयनशीलो नेता, नयतेस्ताच्छीसिकस्तृन्, स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते, तंमार्ग धर्म वा मोक्ष प्रति नेतारं सुष्ठु तीर्थकरादिभिराख्यात स्वाख्यातं तम् उपादाय-गृहीत्वा सम्यक् मोक्षाय ईहते-चेष्टते ध्यानाध्ययनादावुद्यम विधत्ते / धर्मध्यानारोहणालम्बनायाह-भूयो भूयः-पौनःपुन्येन यद्वालवीर्य तदतीतानागतानन्तभवग्रहणेषु दुःखमावासयतीति दुःखावासं वर्तते / यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तते इति / / 11 / / साम्प्रतमनित्यभावनामधिकृत्याह-स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा-देवलोके इन्द्रस्तत्सामानिकत्रायस्त्रिंशत्पार्षद्यादीनि, मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि, तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि-नाना-प्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति / तथा चोक्तम्- "अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च / देवासुरमनुष्याणामृद्धयश्च सुखानि च॥१॥" तथाऽयं ज्ञातिभिः-बन्धुभिः सार्ध सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति। तथा चोक्तम्- "सुचिरतरमुषित्वा बान्धवैर्विप्रयोगः, सुचिरमपि हि रत्वा नास्ति भोगेषु तृप्तिः। सुचिरमपि सुपुष्ट पाति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहा