________________ वीरिय 1404 - अमिधानराजेन्द्रः - भाग 6 वीरिय किं नु वीरस्स वीरत्तं, कहं चेयं पवुचई ? ||1|| कम्ममेगे पवेति, अकम्मं वाऽवि सुव्वया। एतेहिं दोहि ठाणे हिं,जेहिं दीसंति मच्चिया / / 2 / द्वे विधे-प्रकारावस्येति द्विविध-द्विप्रकारम, प्रत्यक्षासन्नवाचित्वात् इदमो यदनन्तरं प्रकर्षणोच्यते प्रोच्यते वीर्य तद् द्विभेदं सुष्टवाख्यातं स्वाख्यातं तीर्थकरादिभिः, 'वा' -वाक्यालङ्कारे, तत्र'ईर' -गतिप्रेरणायोः, विशेषेण ईरयतिप्रेरयति अहितं येन तद्वीर्य जीवस्य शक्तिविशेष इत्यर्थः, तत्र; किं नु वीरस्य-सुभटस्य वीरत्वम् ? केन वा कारणेनासौ वीर इत्यभिधीयते ? नुशब्दो- वितर्कवाची / एतद्वितर्कयति- किं तद्वीर्यम् ? वीरस्य वा किं तदीरत्वमिति ?||1|| तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह--कर्मक्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति, यदिवाकर्माष्टप्रकारं कारण कार्योपचारात् तदेवं वीर्यमति प्रवेदयन्ति / तथाहि-औदयिकभावनिष्पन्नं कर्मेत्युपदिश्यते औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव बालवीर्यम्। द्वितीयभेदस्त्वयं न विद्यते कर्मास्येत्यकर्मावीर्यान्तरायक्षयजनितं जीवस्य सहज वीर्यमित्यर्थः / चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितंच, हे सुव्रता ! एवम्भूतं पण्तिवीर्य जानीत् यूयम्। आभ्यामेव द्वाभ्यां रथानाभ्यां सकर्मकाऽकर्मकापादितबालपण्डितवीर्याभ्यां व्यवस्थित वीर्यमित्युच्यते। यकाभ्यां च ययोर्वा व्यवस्थिता मर्येषु भवा माः ‘दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा। तथाहि नानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मयं दृष्ट्वा वीर्यवानय मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति / / 2 / / इह बालवीर्य कारणे कार्योपचारात्कर्मव वीर्यत्वेनाभिहितम, साम्प्रतं कारणे कार्योपचारादेव प्रभादं कर्मत्वेनापदिशन्नाहपमायं कम्ममाहंसु, अप्पमायं तहाऽवरं / तब्भावाऽऽदेसओ वाऽवि, बालं पंडियमेव वा // 3 // सत्थमेगे तु सिक्खंता, अतिवायाय पाणिणं। एगे मंते अहिज्जंति, पाणभूयविहेडिणो ||4|| प्रमाद्यति सदनुष्ठानरहिता भवन्ति, प्राणिनो येन स प्रमादोमद्यादिः तथा चोक्तम- 'मजं विसयकसाया, णिहा विगहा य पंचमी भणिया। एस पमायपमाओ, णिद्दिट्ठो वीयरागेहिं / / 1 / / तमेवम्भूतं प्रमादं कर्मापादानभूतं कर्म आहुः-उक्तवन्तस्तीर्थकरादयः, अप्रमाद च तथा अपरकर्मकमाहुरिति। एकदुक्तं भवति--प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यत्क्रियानुष्ठानं तद्रालवीर्यम्, तथाऽप्रमत्तस्य कर्माभावे भवति, एवंविधस्य च पण्डितवीर्यं भवति, एतच्च बालवीर्य पण्डितवीर्यमिति वा प्रमादवतः सकर्मणो बालवीर्यग-प्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यम् / 'तभावाऽऽदेसओ वावी' ति तस्यबालवीर्यस्य कर्मणश्च पण्डितवीर्यस्य या भावः- सत्ता स तद्धावस्तेनाऽऽदेशोव्यपदेशः ततः, तद्यथा-बालवीर्यमभव्यानामनादि अपर्यवसितम्, भट्यानामनादि सपर्यवसितं वा सादि सपर्यवसितं वेति, पण्डितवीर्य तु सादि सपर्यवसितमेवेति।।३।। तत्र प्रमादोपहतस्य सकर्मणो यदालवीयं तद्दर्शयितुमाह-शस्त्रं खङ्गादिप्रहरणं शास्त्र वा धुनर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्टु सातगौरवगृद्धा एकै–केचन शिक्षन्ते-उद्यमेन गृह्णन्ति / तत्र शिक्षितं सत् प्राणिनां जन्तूनां विनाशाय भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढप्रतयालीढादिभिर्जीव व्यापादयितव्ये स्थान विधेयम् / तदुक्तम्- "मुष्टिनाऽऽच्छादयेल्लक्ष्यं, मुष्टौ दृष्टि निवेशयेत् / हतं लक्ष्य विजानीयाद्यदि मूर्धा न कम्पते // 1 // " तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति। तथा एवं चौरादेः शूलारोपणादिको दण्डो विधेयः, तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थम, तथा कामशास्त्रादिकं चोद्यमेना-शुभाध्यवसानियाऽधीयते, तदेवं शस्त्रस्य धुनर्वेदादेः शास्त्रस्य वा यदभ्यसनं तत्सर्व बालवीर्यम्। किञ्च-- एकंकेचन पापोदयात् मन्त्रानभिचारकानाथर्वणानश्वमेधपुरुषमेधसर्वमेधादियागार्थमधीयते / किम्भूतानिति दर्शयति-प्राणाद्रीन्द्रियादयः भूतानि-पृथिव्यादीनि तेषां विविधम्- अनेकप्रकारं हेठकान्बाधकान् ऋक्संस्थानीयान् मन्त्रान् पठन्तीति / तथा चोक्तम्- 'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि ।अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः / / 1 / / " इत्यादि / / 4 / / अधुना ‘सत्थ' मित्येतत्सूत्रपदं सूत्रस्पार्शिकयः नियुक्तिकारः स्पष्टयितुमाहसत्थं असिमादीयं, विज्जा मंते य देवकम्मकयं / पत्थिववारुणअग्गे–य वाउतह मीसग चेव ||1|| शस्त्र-प्रहरणं तच असिः- खगस्तदादिक, तथा विद्याधिष्ठित, मन्त्राधिष्ठित देवकर्मकृतं-दिव्यक्रियानिष्पादितंतच पञ्चविधम्, तद्यथापार्थिव वारुणभाग्नेयं वायव्यं तथैव द्व्यादि-मिश्रं चेति॥ किञ्चान्यत्माइणो कटु माया य, कामभोगे समारभे। हंता छेत्ता पगम्भित्ता, आयसायाणुगामिणो / / 5 / / मणसा वयसा चेव, कायसा चेव अंतसो। आरओ परओ वाऽवि, दुहाऽविय असंजया॥६।। माया-परवञ्चनादि (त्मि) का बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः- परवञ्चनानि कृत्वा एकग्रहणे तज्जातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः कामान्-इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् समारभन्ते सेवन्ते / पाठान्तरं वा- 'आरंभाय तिवट्टई' त्रिभिः मनोवाकायैरारम्भार्थं वर्तते, बहून् जीवान् व्यापादयन् बध्नन् अपध्वंसयन् आज्ञापयन् भोगार्थी; वित्तोपार्जनार्थ प्रवर्तत इत्यर्थः / तदेवम् आत्मसातानुगामिनः- स्वसुखलिप्सवो दुःखद्विषो विषयेषुगृद्धाः कषायकलुषितान्तरात्मानः, सन्त एवम्भूता भवन्ति, तद्यथा