SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मरण 116 - अभिधानराजेन्द्रः - भाग 6 मरण वान् दण्डयते संयमसर्वस्वापहरणेनाऽऽत्मा अनेनेति दण्डः भनोदण्डाऽदिस्तं 'समारभते' प्रवर्तत इति, केषु ? त्रस्यःन्तितापाऽद्युपतप्तौ छायाऽऽदिकं प्रत्यभिसर्पन्तीति त्रसाःद्वीन्द्रियाऽदयस्तेषु, तथा शीताऽऽद्युपहृता अपि स्थानान्तरं प्रत्यनभिसर्पितया स्थानशीलाः स्थावरास्तेषु च, अर्थः-प्रयोजनं वित्तवाप्तयाऽऽदिः तदर्थमर्थाय, चस्यव्यवहितसम्बन्धत्वात् अनर्थाय च-यदात्मनः सुहृदादेर्वा नोपयुज्यते, ननु किमनर्थमपि कश्चिदृदण्ड समारभते, एवमेतत् तथाविधपशुपालवत्। तत्र सम्प्रदायः-यथैकः पशुपालः प्रतिदिनं मध्याह्नगते रवौ अजासु महान्यग्रोधतरुं समाश्रितासु "तत्थुत्ताणतो णिविण्णो वेणुविदलेण अजोद्रीर्णकोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन् तिष्ठति, एवं तेन स वटमादपः प्रायसश्छिद्रपत्रीकृतः, अन्नया तत्थेगो राथपुत्तो दातियधाडितोतच्छायसमस्सितोपेच्छएयतस्य वडस्ससर्वाणि पत्राणि छिद्रितानि, तोतेण सोपसुपालतो पुच्छितो-केणेयाणि पुत्राणि छिद्दिकयाणि ? तेण भण्णइ-मया, एयाणि क्रीडापूर्वं छिद्रितानि, तेण सो बहुणा दव्वजाएण विलोभेउं भण्णंति-सक्केसि जस्साहंभणामि तस्स अच्छीणि छिद्देउं ? तेण भण्णाति-छुडु अब्भासत्थो होउं तो सक्केमि। तेण णयरं नीतो, रायमग्गसन्निविटे घरे ठवितो, तस्स रायपुत्तस्य भाया राया, सो तेण मग्गेण अस्सवाहणियाए णिज्जई, एएण भण्णति-एयस्स अच्छीणि पाडेहि त्ति, तेण यगोलियधणुएण तस्स णिग्गच्दमाणस्स दो वि अच्छीणि पाडियाणि, पच्छा सो रायपुत्तो रायाजातो, तेण यसो पसुपालो भण्णतिब्रूहि वरं, किं तं प्रयच्छामि? तेण भण्णतिमज्झ तमेव गामं देहि जत्थ अच्छामि, तेण सो दिण्णो, पच्छा तेण तम्मि पच्चंतगामे उच्छू रोविओ तुंबीतो' य, निप्फणण्णेसु तुंबाणि गुले सिद्धिउ तं गुडतुंबयं भुक्त्वा 2 गायति सः-"अट्टमट्टच सिक्खिज्जा, सिक्खियं ण णिरत्थयं / अट्टमट्टमसाएण, भुंजए गुडतुंबयं / / 1 / / " तेण ताणि वडपत्ताणि अणट्ठाए इत्युक्तं, तत्किमसावारम्भमात्र एवावतिष्ठत इतयाह-'भूयग्गाम ति' भूताःप्राणिनस्तेषां ग्रामः-समूहस्तं विविधैः प्रकारैर्हिनस्तिव्यापादयति, अनेन च दण्डत्रयव्यापार उक्तः। इति सूत्रार्थः।।८|| किमसौ कामभोगानुरागेणैतावदेव कुरुते ? उतान्यदपीत्याहहिंसे बाले मुसावाई, माइल्ले पिसुणे सढे। मुंजमाणे सुरं मंसं, सेयमेयंति मन्नइ हिंसनशीलो हिंस्त्रः अनन्तरोक्तनीत्या, तथैवंविधश्च सन्नसौ 'बालः' उक्तरूपो 'मृषावादीति' अलीकभाषणशीलः, 'माइल्ले त्ति' मायापरवञ्चनोपायचिन्ता तद्वान्, 'पिशुनः' परदोषोद्घाटकः 'शठः तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतभात्मानमन्यथा दर्शयति, मण्डिकचौरवत्। (तच्छूलारोपणकथा 'मंडिय' शब्देऽस्मिन्नेव भागे 21 पृष्ठेगता) अत एव च भुजानः 'सुरां' मद्यं 'मांसं पिशितं 'श्रेयः' प्रशस्यतरमेतदिति मन्यते, उपलक्षणत्वात् भाषते च-"न मांसभक्षणेदोषो, न मद्ये न च मैथुने।" इत्यादि, तदनेन मनसा वचसा कायेन चासत्यत्वमस्योक्तम्। इति सूत्राऽर्थः // 6 // (१-सुष्टु, २-याति, ३-तिष्ठामि, ४-तुम्ब्य, ५-पक्त्वा / ) पुनस्तद्वक्तव्यतामेवाऽऽहकायसा वयसा मते, वित्ते गिद्धे य इत्थिसु। दुहओ मलं संचिणइ, सिसुनागु व मट्टियं // 10 // 'कायस त्ति' सूत्रत्वात्, कायेन-शरीरेण, वचसा-वाचा उपलक्षणत्वात् मनसा च 'मत्तो' दृप्तः, तत्र कायमत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान्, यद्वाऽहो अहं बलवान् रूपवान् वा, इतिचिन्तयन् वच सा स्वगुणान् ख्यापयन्, अहो अहं सुस्वर इत्यादि वा चिन्तयन, मनसा च मदाऽऽध्मातमानसः अहो अहमवधारणाशक्तिमानिति वा मन्वानो वित्ते' द्रविणे, 'गृद्धो' गृद्धिमान्, चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः, तत्र वित्ते गृद्ध इति अदत्ताऽऽदानपरिग्रहोपलक्षणं, तद्भावभावित्वात्तयोः, स्त्रीषु गृद्ध इत्यनेन मैथुनाऽऽसेवित्वमुक्तं, स हि स्रियः संसारसर्वस्वभूता इति मन्यते, तथा चतद्वचः-"सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः। अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः // 1 // " तदभि रतिमांश्च मैथुनाऽऽसेव्येव भवति, स एवंविधः किम् ? इत्याह-'दुहओत्ति द्विधाद्वाभ्यां रागद्वेषात्मकाभ्यां बहिरन्तः-प्रवृत्त्यात्मकाभ्यां वपा प्रकाराभ्यां, सूत्रत्वाद् द्विविधं वा इहलोकपरलोकवेदनीयतया पुण्यपापात्मकतया वा, 'मलम्' अष्टप्रकारं कर्म 'संचिनोति' बध्नाति, क इव किमित्याह'शिशुनागो' गण्डूपदोऽलस उच्यते, स इव मृत्तिका, सहि स्निग्धतनुतया बही रेणुभिरवगुण्ड्यते, तामेव चाश्नीते, इति बहिरन्तश्च द्विधाऽपि मलमुपचिनोति, तथाऽयमपि, एतद्दृष्टान्ताऽभिधाने त्वयमभिप्रायोयथाऽसौ बहिरन्तश्चोपचितमलः खरतरदिवाकरकरनिकरसंस्पर्शतः शुष्यन्निहैव क्लिश्यति विनाशं चाप्नोति, तथाऽयमप्युपवितमलः आशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति च / इति सूत्रार्थः // 11 // अमुमेवार्थ व्यक्तीकर्तुमाहतओ पुट्ठो आयंकेण, गिलाणो परितप्पति। पभीओ परलोगस्स, कम्माणुप्पेही अप्पणो॥११॥ 'तओ त्ति' तकः, ततो वा दण्डाऽऽरम्भणाधुपार्जितमलतः, स्पृष्टः, केन ? 'आतङ्केन' आशुघातिना शूलविशूचिकाऽऽदिरोगेण तत्तदुःखोदयाऽत्मकेन वा 'ग्लान' इति मन्दोपगत हर्षो वा, परीतिसर्वप्रकारंतप्यते। किमुक्तं भवति? बहिरन्तश्च खिद्यते, 'प्रभीत' इति प्रकर्षण त्रस्तः, कुतः ? 'परलोगस्स त्ति परलोकात्, सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी, किमिति ? क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः कर्मानुप्रेक्षी, यत इति गम्यते, कस्य ? आत्मानः, स हि हिंसाऽलीकभाषणादिकामात्मचेष्टां चिन्तयन् न किञ्चिन्मया शुभमाचरितं, किंतु-सदैवाजरामरवचेष्टितमिति चिन्तयश्चेतस्याऽतधुत्तश्च तनावपि खिद्यते, भवति हि विषयाकुलितचेतसोऽपि प्रायः प्राणोपरम- / समयेऽनुतापः / तथा चाऽऽहु:-"भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात्। पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीणवपुषाम्॥१॥" इति सूत्राऽर्थः // 11||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy