________________ मरण 118 - अभिधानराजेन्द्रः - भाग 6 मरण यदुक्तं-स्त इमेद्वे स्थाने' तत्राऽऽयं तावदाहतत्थिमं पढमं ठाणं, महावीरेण देसियं। कामगिद्धे जहा वाले, भिसं कूराणि कुव्वति // 4 // 'तत्रेति तयोरकामगरणसकाममरणाऽऽख्ययोः स्थानयोर्मध्ये, 'इदम्' अनन्तस्मभिधास्यमानरूपं, 'प्रथमम् ' आद्य स्थानम्, 'महावीरेणति' चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्त्यथमेतत् / 'देशित' प्ररूपितम्। किंतत् ? इत्याह-'कामेषु-' इच्छाभदनाऽऽत्मकेषु 'गृद्धः-' अभिकासावान् कामगृद्धो, 'यथा' इत्युपप्रदर्शनार्थः, 'बालः' इत्युकरूपो, 'भृशम् अत्यर्थ, 'क्रूराणि' रौद्राणि, कर्माणि इतिगम्यते। तानि च प्राध्यपरोपणाऽऽदीनि, 'कुव्वति त्ति' करोति-क्रियायाऽभि- | निर्वयिति. शतावशतावपि क्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च | प्रक्रमादयःम एव मियते / इति सूत्राऽर्थः / 4 / / इदमेव ग्रहणकवाक्यं प्रपञ्चयितुमाहजे गिहे कामभोगेसु, एगे कूडाय गच्छइ / न मे दिट्टे परे लोए, चक्खुट्ठिा इमा रती / / 5 / / 'य' पति-अनिर्दिष्टस्वरूपो, गृद्धः, काम्यन्त इति कामाः, भुज्यनत इति भागाः, ततश्च, कामाश्च ते भोगाश्च कामभोगाः, तेषु-अभिलषजीसशब्दाऽऽदिषु, यद्वा-कामौ च शब्दरूपाऽऽख्यौ भोगाश्च स्पर्शरसग Tऽख्याः कामभोगाः तेषु / उक्तं हि-'कामा दुविहा पण्णत्ता सद्दा, रूवा या (कामानामनेकविधत्वम् 'काम' शब्दे तृतीयभागे 431 पृष्ठ गतम्) 'भोगा तिविहा पण्णत्ता / तं जहा- गंघा, रसा, फासा य।' इति (किं स्वरूपाः भोगा इति 'भोग' शब्दे पञ्चमभागे 1610 पृष्ठे उक्तम्) | (कामभोगाः कतिविधा इति 'कामभोग' शब्दे तृतीयभागे 442 पृष्ठे | विस्तरः) एकः कश्चित्क्रूरकर्मा तन्मध्यात् कूटमिव कूटं प्रभूतप्राणिना यातनाहेतुत्वान्नरक इत्यर्थः। यथैव हि कूटनिपतितो मृगो व्याधैरनेकधा हन्यते, एवं नरकपतितोऽपि जन्तुः परमाधार्मिकरिति, तस्मै कूटाय, 'गत्यर्थकर्मणि द्वितीयाचतुथ्यौ० (पा०२-३-१२) इत्यादिना चतुर्थी, 'गच्छति' याति / यद्वा-यो गृद्धः 'कामभोगेष्विति' कामेषु स्त्रीसङ्गेषु भोगेषु धूपनविलेपनाऽऽदिषुस एकः सुहृदादिसाहाय्यरहितः कूटाय गच्छति, अथवा-कूट द्रव्यतो, भावतश्च ।तत्र द्रव्यतो मृगाऽऽदिबन्धनम्, भावतस्तुमिथ्याभाषणाऽऽदि तस्मै गच्छतीत्यनेकार्थत्वात् प्रवर्तते, स हि मांसाऽऽदिलोलुपतया मृगाऽऽदिबन्धनान्यारभते, मिथ्याभाषणाऽदीनिचाऽऽसेचत इति, प्रेरितश्च कैश्चिद्वदति-'न मे' इति / न मया 'दृष्टः' अवलोकितः, कोऽसौ ? 'परलोको' भूतभाविजन्माऽऽत्मकः, कदाचिद्विषयाभिरतिरप्येवंविधैव स्यात् ? अत आह-चक्षुषा लोचनेन दृष्टाप्रतीता चक्षुर्दृष्टा इयम्' इति / तामेव प्रत्यक्षां निर्दिशतिरम्यतेऽस्यामिति रतिः, स्पर्शनाऽऽदिसम्भोगजनिता चित्तप्रवत्तिः / तस्यायमाशयःकथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलभेयम् / इति सूत्रार्थः / / 5 / / पुनस्तदाशयमेवाभिव्यञ्जयितुमाहहत्थाऽऽगया इमे कामा, कालिया जे अणागया। को जाणइ परे लोए ? अस्थि वा नऽऽस्थि वा पुणो // 6 / / हसन्ति तेनाऽऽवृत्य मुखंधन्ति वा धात्यमनेनेति हस्तस्तम् आगताः- प्राप्ताः हस्ताऽगताः, उपमार्थोऽत्र गम्यते, ततो हस्ताऽगताः इव स्वाधीनतया, क एते? 'इमे' प्रत्यक्षोपलभ्यमानाः काम्यन्त इति कामाःशब्दाऽदयः, कदाचिदागामिनोऽप्येवंविधा एव स्युरित्याह-काले सम्भवन्तीति कालिकाः-अनिश्चितकालान्तरप्राप्तयो ये 'अनागताः भाविजन्मसम्बन्धिनः, कथं पुनरमी अनिश्चितप्राप्तय इत्याह-'को जाणइ त्ति' उत्तरस्य पुनःशब्दस्येह सम्बन्धनात् कः पुनर्जानाति ? नैव कश्चित्, यथा-परलोकोऽस्ति नास्ति वेति / अयं चास्याऽऽशयः-परलोकस्य सुकृताऽऽदिकर्मणा वाऽस्तित्वनिश्चयेऽपि-'को हि हस्तगतं द्रव्यं, पादगामि करिष्यति' इति न्यायतः क इव हस्ताऽऽगतान् कामान्पहाय कालिककामाऽर्थ यतेत, तत्त्वतस्तु परलोकनिश्चय एव न समस्ति, तत्र प्रत्यक्षस्याऽप्रवृत्तेः। अनुमानस्य तु प्रवृत्तावपि गोपालघटिकाऽदिधूमादग्रयनुमानवदन्यथाऽप्युपलम्भनान्निश्चायकत्वासम्भवान्न ततस्तदस्तित्वनिश्चयो, नास्तित्वनिश्चयो वा, किन्तु-सन्देह एव।नत्वयमेवं विवेचयति-यथाऽवाप्ता अपि कामा दुरन्ततया त्यतुमुचिताः, दुरन्तत्वं च तेषां शल्यविषाऽऽदिभिरुदाहरणैः प्रतीतमेव। तथा च वक्ष्यति- सल्लं कामा विसं कामा, कामा आसीविसोवडा / कामे पत्थेभाणा, अकामा जति दुग्गति॥१॥" न हि विषाऽऽदीनि मुखमधुराण्यप्यायतिविरसतया विवेकिभिर्न हीयन्ते। यदपि परलोकसन्देहाऽभिधान, तदपिन पापपरिहारोपदेशं प्रति बाधक, पापनुष्ठानस्येहैव चौर पारदारकाऽऽदिषु महाऽनर्थ हेतुतया दर्शनात् / परलोकनास्तित्वाऽनिश्चये च-तत्राः पि तथाऽनर्थहेतुतया सम्भावयमानत्वावल्मीककरप्रवेशनाऽऽदिवत् प्रेक्षावद्भिः परिहतुमुचितत्वात, न च परलोकास्तित्वं प्रति सन्देहः / तन्निश्चायकाऽनुमानस्य तदहतिबालकस्तनाभिलाषाऽऽदिलिङ्गबलोत्पन्नस्य तथाविधाध्यक्षवदव्यभिचारित्वेन तत्र तत्र समर्थितत्वादित्यल प्रसङ्गेन। इति सूत्रार्थः // 6 // अन्यस्तुकथञ्चिदुत्पादितप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाहजणेण सद्धि होक्खामि, इति बाले पगभइ। कामभोगाऽणुरागेणं, केसं संपडिवजह // 7il जायत इति जनो-लोकः, तेन 'सार्ध ' सह भविष्यामि, केमुक्तं भवति ? बहुजनो भोगाऽऽसङ्गी तदहमपि तदतिं गमिष्यामि, यदा'होक्खामि त्ति' भोक्ष्यामिपालयिष्यामि, यथा ह्ययं जनः कलात्राऽऽदिक पालयति तथाऽहमपि, न हीयान् जनोऽज्ञ इति, बालः-अज्ञः 'प्रगल्भते' धाव॑मवलम्वते. अलीकवाचालतया च स्वयं नष्टः परग्नपि नाशयति, न विवेचयति यथा-किमुन्मार्गप्रस्थितेऽनाविवेकिजनेन बहुनाऽपि ? मम विवेकिनः प्रमाणीकृतेन ? स्वकृतकर्मफलभुजा हि जन्तवः, स चैवं कामभोगेषु-उक्तरूपेषु अनुरागः-अभिष्वङ्ग कामभागानुराग:-तेन 'क्लेशम्' इह परत्र च विविधबाधाऽऽत्मकं, सम्प्रतिपद्यते' प्राप्नोति / इति सूत्रार्थः / / 7 / / यथा च कामभोगाऽनुरागेण क्लेशं संप्रतिपद्यते तथा वक्तुमाहतओ दंडं समारभति, तसेसुं थावरेसु य। अट्ठाए य अणट्ठाए, भूयग्गामं विहिंसइ / / 8 / / 'तत' इति / कामभोगानुरनामात् (से इति) स धार्य -