SearchBrowseAboutContactDonate
Page Preview
Page 1420
Loading...
Download File
Download File
Page Text
________________ वीरंगय 1396- अमिधानराजेन्द्रः - भाग 6 वीरतव वीरंगय–पुं०(वीराङ्गद) बलदेवपुत्रस्य रेवतीगर्भसम्भूतस्य निषध कुमारस्य पूर्वभवजीवे, नि०। ('णिसढ' शब्दे चतुर्थभागे, 2137 पृष्ठे तत्कथोक्ता।) चेटकराजस्य रथिनि, आ० क० 4 अ०। वीरकण्ह-पुं०(वीरकृष्ण) श्रेणिकमहाराजभार्यायाः वीरकृष्णायाः पुत्रे, नि०। (स च वीरान्तिके प्रव्रजय वर्षत्रयं व्रतपर्याय परिपाल्य महाशुक्रे सप्तमे कल्पे समुत्पद्य सप्तदशसागरोपममायुरनुपाल्यततश्च्युतो महाविदेहे सेत्स्यतीति निरयावलिकायाः सप्तमेऽध्ययने सूचितम्।) वीरकण्हा-स्त्री०(वीरकृष्णा) श्रेणिकमहाराजभार्यायां वीरकृष्णकुमारमातरि, नि०। (साच वीरान्तिके प्रव्रज्य महतीं सर्वतो-भद्रप्रतिमां प्रतिपद्य सिद्धेत्यन्तकृद्दशानामाष्टमे वर्गे सप्तमे अध्ययने सूचितम्।) वीरकप्प-पुं०(वीरकल्प) कण्णाणयणीय' शब्दे तृतीयभागे 231 पृष्ठे व्याख्याते भगवतो महावीरस्य कल्पे, ती० 48 कल्प। वीरकूड-न०(वीरकूट) चतुर्थदेवलोकस्थे विमानभेदे, स०४ सम०। वीरग-पु०(वीरक) द्वारवत्यां वासुदेवभक्ते कौलिके, आव० 3 अ०। वीरगणि-पुं०(वीरगणिन) श्रीगणिशिष्ये वलभीनाथ-व्यन्तरप्रतिबोधके चामुण्डराजपुत्रदे आचार्य, अयमाचार्यः 638 विक्रमसंवत्सरे जातः६८० संवत्सरे दीक्षितः 661 संवत्सरे, स्वर्गतः / जे० इ० / वीरधोस-पुं०(वीरघोष) वीरजिनविहते मोराकसन्निवेशे स्वनाम-रख्याते कर्मकरे, आ० म०१ अ०। आ० चू०। वीरचरित्त न०(वीरचरित्र) हेमचन्द्रविरचिते वीरजिनचरितनिबद्ध ग्रन्थके, ध०२ अधिक। वीरजिण-पुं०(वीरजिन) वीरश्चासौ जिनश्च कषायादिप्रत्य-र्थिसार्थजयाद् वीरजिनः। श्रीवर्द्धमानस्वामिनि, कर्म०२ कर्म० / "जयति जगदेकदीपः प्रकटितनिःशेषभावसद्भावः / कुमतपतङ्गविनाशी, श्रीवीरजिनेश्वरो भगवान् // 1 // " आ० म०१ अ०। वीरण-पुं (वीरण) तृणवनस्पतिकायभेदे, यन्मूलमुशीरं भवति। आचा० 1 श्रु०१ अ०५ उ० सूत्र०ाम्लेच्छभेदे, प्रज्ञा०१ पद। वीरतव-न० (वीरतपस्) वीरप्रभोश्छाद्यस्थिके तपसि, आ०म० 1 अ०। आव०॥ तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराह - जो य तवो अणुचिण्णो, वीरवरेणं महाणुभावेणं / छउमत्थकालियाए, अहक्कम कित्तइस्सामि।।५२७|| व्याख्या -- यच तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम - येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः / / 527 / / तचेदम् - नव किर चाउम्मासे, छक्किर दोमासिए उवासीय। बारस य मासियाई, बावत्तरि अद्धमासाइं / / 528 / / व्याख्या - नव किल चातुर्मासिकानि तथा षट् 'कल द्विमासिकानि उपोषितवान्, किलशब्दः- परोक्षाप्तागमवादसं- सूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः / / 528 / एग किर छम्मासं, दो किर तेमासिए उवासीय। अड्डाइजाइ दुवे, दो चेव दिवड्डमासाइं॥५२६।। व्याख्या-एक किल पाण्मासं, द्वे किल त्रैमासिके उपोषितवान्, तथा 'अड्डाइलाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः- क्षपणं वाऽर्धतृतीयं, ते-अर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवड्डमासाहं.' तिसार्धमासे तपसी क्षपणेवा, क्रियायोगोऽनुवर्त्तत एवेति गाथार्थः // 526 // भदं च महाभ, पडिमं तत्तो य सव्वओभई। दो चत्तारि दसेव य, दिवसे ठासीय अणुवद्धं / / 530 / / व्याख्या-भद्रा च महाभद्रा प्रतिमा ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमितियोगः, आसामेवानुपूर्व्या दिवसप्रमाणमाह-दौ चतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धंसन्ततमेवेति गाथार्थः / / 530 / / गोयरममिग्गहजुयं, खमणं छम्मासियं च कासी य। पंचदिवसेहि ऊणं अव्वहिओ वच्छनयरीए।।५३१।। व्याख्या गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युत क्षपणं षाण्मा-सिकं च कृतवानपञ्चभिर्दिवसैन्यूनम, अध्यधितः-अपीडितो वत्सानगर्याकौशाम्ब्यामिति गाथार्थः / / 531 // दस दो य किर महप्पा, ठाइ मुणी एगराइयं पडिमं / अट्ठमभत्तेण जई, एक्कक्कं चरमराईयं // 532 / / व्याख्या-दश द्वे च संख्यया द्वादशेत्यर्थः, किल महात्मा ठासि मुणि' त्ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमा पाठान्तरं वा एकराइएपडिमे' त्ति एकरात्रिकीः प्रतिमाः, कथ-मित्याह अष्टनभक्तेन-त्रिरात्रोपवासेनेति हृदयम्, यतिः- प्रयत्नवान्, एकैकां चरमरात्रिकी चरमरजनीतिष्पन्नामिति गाथार्थः // 532 / / दो चेव यछट्ठसए, अउणातीसे उवासिया भगवं। न कयाइ निचमत्तं, चउत्थभत्तं च से आसि / / 533 / / व्याख्या-द्वे एव च षष्ठशते एकोत्रिंशदधिके उपोषितो भगवान, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याऽऽसीदिति गाथार्थः / / 533 / / बारस वासे अहिए, छ8 भत्तं जहण्णयं आसि। सय्वं च तवोकम्मं, अपाणयं आसि वीरस्स।।५३४|| व्याख्या-द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः षष्ठं भक्तं' द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्व च तपः-कर्म अपानकमासीद्वीरस्य। एतदुक्तं भवतिक्षीरादिद्र वाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः // 534|| आव० 1 अ०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy