________________ वीर 1365 - अभिधानराजेन्द्रः - भाग 6 वीर नामज्ञानिकानां च स्थान-पक्षमभ्युपगतमित्यर्थः, यदिवा-स्थीयतेऽरिमन्निति स्थान--दुर्गतिगमनादिकं प्रतीत्यपरिच्छिद्य सम्यगवबुध्ये - त्यर्थः एतेषां च स्वरूपमुत्तरत्रन्यक्षेण व्याख्यास्यामः,लेशतस्त्विदम्क्रियैव परलोकसाधनयाल-मित्येवं वदितुं शील येषां ते क्रियावादिनः, तषां हि दीक्षाल एव क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अवियावादिनस्तु ज्ञानवादिनः तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः तथा चोक्तम्- 'पञ्चविंशतितत्त्वज्ञो, यत्र तत्राभग्मे रतः / शिखो मुण्डी जटी वापि, सिध्यते नात्र संशयः // 1 // " तथा विनयादेव मोक्ष इत्येवं गोशालकमतानुसारिगो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथा अज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवं रूप तेषामभ्युपगमं परिच्छिद्यस्वतः सम्यगवगम्य-सम्यगवबोधेन, तथा स एव वीरवर्धमानस्वाभी सर्वमन्यमपि बौद्धादिकं यं कञ्चनवादमपरान सत्त्वान यथावस्थिततत्त्वोपदेशेन वेदयित्वापरिज्ञाप्योपस्थितः सम्यगुत्थानन सयन व्यवस्थितो न तु यथा अन्ये / तदुक्तम्- "यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः / शिष्यैरमुज्ञामलिनोपचारैवक्तृत्वदोषास्त्वयि ते न सन्ति / / 1 / / " इति दीर्घरात्रम् / इति यावजीवं संयमोत्थाने नोस्थित इति / / 27 / / अपिच-स भगवान् धारयित्वा-प्रतिषिध्य, किं तदित्याह- 'रिचयम्' इति-स्त्रीपरिभाग मैथुनमित्यर्थः, सह रात्रिमक्तेन वर्तत इति सरात्रिभक्तम् उपलक्षणार्थस्वादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यम्, तथा उपधानंतपस्तद्विद्यते यस्यासी उपधानवान्- तपोनिष्टप्तदेहः, किमर्थमिति दर्शयति-दुःस्यतीति दुःखम्-- अष्टप्रकार कर्म तस्य क्षयः-अपगमस्तदर्थ , किद्ध-लोकं विदित्वा आरम्-- इहलोकाख्यम्, परंपरलोकाख्य, यदिवा- 'आरंमनुष्यलोक, परमितिनारकादिक, स्वरूपतस्तस्प्राप्तिहतुतश्च विदित्वा सर्वमेतत् प्रभु:- भगवान् सर्ववारंबहुशो निवारितवान् एतदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्च स्थापितवान् / न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्- "ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन्, परान्नालं कश्चिद्दमयितुमदान्तः स्वयमिति / भवान् निश्चित्यैव मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः।।१।।" इति, तथा"तित्थयरो चउनाणी, सुरमहिओ सिज्झिय व्व धूयम्मि। अणिमूहियवलविरिओ, सव्वत्थामेसु उज्जमई / / 1 / / " इत्यादि / सोचा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्ध, तं सद्दहाणा य जणा अणाउ, इंदा व देवाहिव आगमिस्सं,॥२६॥ त्ति वेमि इति श्रीवीरथुतीनाम छट्ठमज्झयणं / (26) गाथाव्याख्या 'धम्म' शब्दे चतुर्थभागे 2708 पृष्ठे गता।) इतिशब्दः परिसमाप्तौ ब्रवीमिति पूर्ववत् / इति वीरस्तवाख्य षष्ठमध्ययनं परिसमाप्तमिति / सूत्र० 1 श्रु०६ अ०। ('णिण्हग' शब्दे चतुर्थभागे 2025 पृष्ठे वीरतीर्थनिलवा दर्शिताः।) (30) प्रकीर्णकवार्ताःकल्पकिरणावल्याम्-मरुदेव्यध्ययनं विभावयन वीरः सिद्धिं गतः, तत्र मरादेव्यध्ययनं कया रीत्या विभावितम्, तत्सम्यक् प्रसाद्यमिति ? प्रश्नः, अत्रोत्तरम्-कल्पसूत्रावचूर्णो मरुदेव्यध्ययनं विभावयन्-प्ररूपयन्नित्येव व्याख्यातमस्ति, न तु विभावनरीतिरिति / / 20 / / सेन० 1 उल्ला० / सिन्धुदेशे श्रीवीरस्वामिगमने प्रसाद्यानीति? प्रश्नः, अत्रोत्तरम् -- तदक्षराणि निशीथचूर्णी सन्ति, तथा श्रूयते च अप्कायमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्ग भीरुतया, तथा श्रीवर्द्धमानस्वामिना विमलसलिलशैवलपटलत्रसादिरहितो महाद्रहो व्यपगताशेषजलजन्तुकोऽ-चित्तवारिपरिपूर्णः स्वशिष्याणां तृइबाधितानामपि पानायः नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं च इत्याचाराङ्ग प्रथमाध्ययन-तृतीयोद्देशकवृत्ताविति / / 70 / / सेन०३ उल्ला०। कृत्रिमजिनप्रतिमानामुत्कर्षतो जघन्यतश्च किं मान, यदि पञ्चधनुःशतान्युत्कृष्ट जघन्यमङ्गुष्ठप्रमाण तदा श्रीभरतेनाष्टापदे स्वस्वशरीरप्रमाणोपेतेषु श्रीऋषभादिचतुर्विंशतिजिनबिम्बेषु कारितेषु, उत्सेधाड्गुलेन सप्तहस्तमाना श्रीवीरस्वामिनो मूर्तिर्भरतस्याङ्गुष्ठप्रमाणाऽपि कथं भवति? भरतस्यैकस्मिन्नात्माङ्गुले उत्सेधाड्गुलसत्कानि षोडशा-गुलाधिकानि चत्वारि धषि भवन्तीति ? प्रश्नः, अत्रोत्तरम्-- भरते न श्रीमहावीरशरीरप्रमाणेन तस्याः कारितत्वात् / यद्यपि सा भरतस्यात्माडगुलप्रमाणा न भवति तथाऽपि न किमप्यनुपपन्नं, भरतागुलप्रमाणस्यात्रानधिकृतत्वात्, तस्य च प्रायिकत्वादिति / / 2 / / सेन०१ उल्ला० श्रीवीरजन्मपत्री छूटकपत्रे चैत्रसुदित्रयोदशीभौमे उत्तराफाल्गुनीनक्षत्रे सिद्धियोगे रात्रिघटी 15 मकरलग्ने सिद्धार्थराजगृहे, पुत्रो जातः, स्कन्धपुराणादुद्धता इत्येवं लिखितादृश्यते, परं वीरजन्मपत्रीयमेवान्यथा वेति ? प्रश्नः, अत्रोत्तरम्-वीरजन्मपत्री तु स्कन्दपुराणनाम्नि छूटकपत्रे लिखिता दृश्यते न तु ग्रन्थे दृष्टाऽस्तीति / / 15 / / सेन० 3 उल्ला० / तथा-श्रीवीरजिनजन्मोत्सवावसरे मेराविन्द्रस्य सन्देहो यः समुत्पन्नः स सौधर्मेन्द्रस्य ततः कथं प्रथममच्युतेन्द्रः स्नपयतीति युक्तिमदिति ? प्रश्नः, अत्रोत्तरम-श्रीवीरजन्माभिषेकावसरे सौधर्मेन्द्रस्य संशयस्समुत्पन्नः तदनुसन्देहापनोदात् सौधर्मेन्द्राज्ञया अच्युतेन्द्रः प्रथमं स्नफ्यतीति नायुक्तिमत्, श्रीवीरचरित्रादौ तथैव दर्शनादिति / / 162 / / सेन०३ उल्ला० / तथा-वीरशासने आचार्याभूयापि किंसंख्याका नरकगामिनः सूरय उक्ताः सन्ति? तदक्षराणि च कुत्र ग्रन्थ इति सव्यासं प्रसाद्यमिति? प्रश्नः, अत्रोत्तरम- श्रीवीरशासने एतावत्संख्याका आचार्या नरकगामिनः इति ग्रन्धे दृष्ट न स्मरति, किञ्च- "तीआणागयकाले, केइ होंहिति गोअमा : सूरी। जेसिं नामग्गहणे, नियमेणं होइ पच्छित्तं / / 1 / / " इति श्रीगच्छाचारप्रकीर्णके प्रोक्तमस्तीति॥३५५|| सेन०३ उल्ला० /