________________ वीर 1394 - अभिधानराजेन्द्रः - भाग 6 वीर हत्थीसु एरावणमाहुणाए, सीहो मिगाणं सलिलाण गंगा। पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह णायपुत्ते / / 21 / / जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहू। खत्तीण सेट्टे जह दंतवक्के, इसीण सेट्टै तह वद्धमाणे // 22 // हस्तिषु-करिवरेषु मध्ये यथा ऐरावण-शक्रवाहनं ज्ञातंप्रसिद्ध दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, मृगाणां--श्वापदाना मध्ये यथा सिंहः- केसरी प्रधानः तथा भरतक्षेत्रापेक्षया सलिलाना-मध्ये यथा गङ्गासलिल प्रधानभावमनुभवति, पक्षिषु-मध्ये यथा गरुत्मानः वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणसिद्धिक्षेत्राख्य कर्मच्युतिलक्षण वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वा वदितु शील येषां ते तथा तेषां मध्ये ज्ञाताः- क्षत्रियास्तेषां पुत्रा:- अपत्य ज्ञातपुत्रःश्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः / / 21 / / अपि च योधेषु मध्ये ज्ञातो-विदितो दृष्टान्तभूतो वा विश्वाहस्त्यश्वस्थपदातिचतुरङ्गबलसमता सेना यस्य स विश्वसेनः-- चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः सदान्तवाक्यः- चक्रवर्ती यथा असौ श्रेष्ठः तदेवं बहून दृष्टान्तान प्रशस्तान प्रदश्योधुना भगवन्तदाष्टान्तिक स्वनामग्राहमाहतथा ऋषीणां मध्ये श्रीमान वर्धमानस्वामी श्रेष्ठ इति / / 22 / / दाणाण सेढे अभयप्पयाणं, सच्चेसु वा अणवजं वयंति। तवेसु वा उत्तमबंभचेरं, लोगुत्तमे समणे नायपुत्ते / / 33 / / ठिईण सेट्ठा लवसत्तमा वा, सभा सुहम्मा वसभाण सेट्ठा। निव्वाण सेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमत्थि नाणी // 24 // ('दाणाण सेट्ठ अभयप्पयाणं' अस्य पादस्थ व्याख्या 'अभयप्पदाण' शब्दे प्रथमभागे 708 पृष्ठे गता।) तथा सत्येषु च वाक्येषु यद् अनवद्यम्अपापं परपीडानुत्पादकं तत् श्रेष्ठ वदन्ति, न पुनः परपीडोत्पादकं सत्य, सद्भ्यो हितं सत्यमिति कृत्वा, तथा चोक्तम्- "लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः 1 पतितो वधयुक्तेन, नरके तीव्रवेदने / / 1 / / " अन्यत्र- 'तहेव काणं काण त्ति पंडग पंडग ति वा / बाहियं वा वि रोगि त्ति, तेणं चोरो त्ति नो वदे॥१॥' तपस्सु मध्ये यथैवोत्तम नवविधब्रह्मगुप्त्युपेतं ब्रह्मचर्यं प्रधान भवति तथा सर्वलोकोत्तम रूपसंपदा- | सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च ज्ञातपुत्रो भगवान् श्रमणः प्रधान इति // 23 / / किशस्थितिमतां यथा-लवसत्तमाःपश्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसप्तमास्तेऽभिधीयन्ते, सभानां च पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतत्वात्तथा यथा सर्वेऽपि धर्मा निर्वाणश्रेष्ठाः-मोक्षप्रधाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव स्न्यदर्शन ब्रुवते, यतः; एवं ज्ञातपुत्रात्-वीरवर्धमानस्वामिनः सर्वज्ञात् सकाशात परं-प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवान अपरज्ञानिभ्योऽधिकज्ञानो भवतीति भावः // 24 // किश्चान्यत्पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुव्वति, आसुपन्ने / तरिउं समुदं व महाभवोघं, अभयंकरे वीर अणंतचक्खू / / 25 / / स हि भगवान् यथा पृथिवी सकलाऽधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वाऽसावाधार इति, यदि वा-यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान सम्यक् सहते इति, तथा धुनाति अपनयत्यष्टप्रकार कर्मणि शेषः, तथा विगता--प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु गृद्धिः गाद्यमभिलाभो यस्य सः विगतगृद्धिः (सूत्र०) (सन्निधिपदव्याख्या 'सपिणहि' शब्दे करिष्यते।) तथा आशुप्रज्ञः सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते स एवम्भूतः तरित्वा समुद्रमिवापारं महाभवौघं चतुर्गतिकं संसारसागर बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्।पुनरपि तमेव विशिनष्टिअभयं प्राणिनां प्राणरक्षारूपं स्वतः घरतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म विशेषेणेरयति प्रेरयतीति वीरः, तथा अनन्तम्-अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वा अनन्तं चक्षुरिव चक्षुः केवलज्ञानं यस्य स तथेति। (सूत्र०1) (अध्यात्मदोषान् न कुर्वन्ति न कारयन्ति केवलिन इति अज्झत्तदोस' शब्दे प्रथमभाग 227 पृष्ठे गतम्।) किश्चान्यत्किरियाकिरियं वेणइयाणुवाय, अण्णाणियाणं पडियच ठाणं / से सव्ववायं इति वेयइत्ता, उवट्ठिए संजमदीहरायं / / 27 / / अपिचसे वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए। लोगं विदित्ता आरं परं च, सव्वं पभू वारिय सव्ववारं / / 28 / / तथा स भगवान् किवावादिनामक्रि यावादिना वैनयिका