________________ वीर 1363 - अभिधानराजेन्द्रः - भाग 6 वीर एतदनन्तरोक्तं यशः-कीर्तन सुदर्शनस्य मेरुगिरः महापर्वतस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते-एषा अनन्तरोक्तोपमा यस्य स एतदुपमः, कोऽसौ ? - श्राम्यतीति श्रमणस्तपोनिष्टतदेहो ज्ञाता:क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, सचजात्या सर्वजातिमभ्यो यशसा अशेषयशस्विभ्यो दर्शनज्ञानाभ्यां सकलर्दशनज्ञानिभ्यः शीलेन समस्तशीलवयः श्रेष्ठः- प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्यय-विधानेन विधेयेति / / 14 / / पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह-- गिरीवरे वा निसहाऽऽययाणं, रुयए व सेट्टे वलयायताणं। तओदमे से जगभूइपन्ने, मुणीण मज्झे तमुदाहु पन्ने / / 15 / / अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई। सुसुक्कसुक्कं अपगंडसुकं, संखिंदुएगंतवदातसुक्कं / / 16|| यथा निषधो-गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैोण श्रेष्ठः प्रधान तथा वलयायतानां मध्येरुचकः पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः सहि रुचकद्वीपान्तर्वी मानुषोत्तरपर्वत इव वृत्तायतः संख्येययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृसताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञःप्रभूतज्ञानः, प्रजया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षण जानातीति प्रज्ञः एवं तत्स्वरूपविदः उदाहुः- उदाहृतवन्तः, उक्तवन्त इत्यर्थः / / 15 / / किञ्चान्यत्- नास्योत्तरः- प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मम्, उत् प्राबल्येन ईरयित्वा-कथयित्वा प्रकाश्य अनुत्तरं प्रधानध्यानवरध्यानश्रेष्ठ ध्यायति। तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रि यमप्रतिपाताख्यं तथा निरुद्धयो गश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियम्-अनिवृताख्यं ध्यायति, एतदेवदर्शयतिसुष्ठु-शुक्लवत् शुक्तं ध्यानम्, तथा अपगतं गण्डम्- अपद्रव्यं यस्य तदपगण्डं निर्दोषार्जुनसुवर्णवत् शुक्लं, यदिवा-अपगण्डम्-उदकफेनं तत्तुल्यमिति भावः। तथा शंखेन्दुवदेकान्तावदात-शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्यायतीति / / 16 / / अपि चअणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता। सिद्धिं गते साइमणंतपत्ते, णाणेण सीलेण य दंसणेण ||17|| रुक्खेसु णाते जह सामली वा, जस्सि रतिं वेययती सुवन्ना। वणेसु वा णंदणमाहु सेटुं. नाणेण सीलेण य भूतिपन्ने // 18 // तथा असौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साद्यपर्यवसानां सिद्धिगति पञ्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टिअनुत्तरा चासौ सर्वोत्तमत्वादग्या च लोकाग्रव्यवस्थि-तत्वादनुत्तराग्या तां परमांप्रधानां महर्षिः-असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहत्याद् अशेषं कर्मज्ञानावरणादिकं विशोध्य-अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगति प्राप्त इति मीलनीयम् / / 17 / / पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा ज्ञातः-प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, सच भवनपतिक्रीडास्थानम् यत्र-व्यवस्थिता अन्यतश्चागल्य सुपर्णाभवनपतिविशेषाः रतिरमणक्रीडां वेदयन्ति अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां कीडास्थानं प्रधानम्, एवं भगवानपिज्ञानेन-केवलाख्येन समस्तपदार्थाविर्भावकेन शीलेन चचारित्रेण यथाख्यातेन श्रेष्ठः-प्रधानः भूतिप्रज्ञः-प्रवृद्धज्ञानो भगवानिति॥१८।। अपि चथणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे / गंधेसु वा चंदणमाहु सेहूं, एवं मुणीणं अपडिनमाहु // 16 // जहा सयंभू उदहीण सेठे, नागेसु वा धरणिंदमाहु सेहे। खोओदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते // 20 // यथा शब्दाना मध्ये स्तनितं-मेघगर्जितं तद् अनुत्तरं--प्रधानं, तुशब्दो विशेषणार्थः समुच्चयार्थो वा, तारकाणां च-नक्षत्राणां मध्ये यथा चन्द्रो महानुभावः सकलजननिर्वृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः, गन्धेषु इति गुणगुणिनोरभेदान्मतुबलोपाद्वा गन्धवत्सु मध्ये यथा चन्दनंगोशीर्षकाख्यं मलयज वा तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां महर्षीणां मध्ये भगवन्तनास्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति / / 16 / / अपि च–स्वयं भवन्तीति स्वयम्भूवोदेवाः ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् उदधीनां-समुद्राणां मध्ये यथा स्वयम्भूरमणः समुद्रः समस्तद्वीपसागरपर्यन्तवर्ती श्रेष्ठ:-- प्रधानः नागेषु च भवनपतिविशेषेषु मध्ये धरणेन्द्रं धरणं यथा श्रेष्ठमाहुः, तथा 'खोओदए' इति इक्षुरन इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य वैजयन्तः- प्रधानः स्वगुणैरपरसमुद्राणां पताकेवोपरि व्यवस्थितः एवं तपउपधानेन-विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति मुनिः- भगवान् वैजयन्तः-प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति // 20 //