________________ वीर १३९२-अभिधानराजेन्द्रः - भाग 6 वीर इंदेव देवाण महाणुभावे, सहस्सणेत्ता दिविणं विसिट्टे॥७॥ से पन्नया अक्खयसागरे वा, महोदही वाऽवि अणंतपारे। अणाइले वा अकसाइमुक्के, सक्केव देवाहिवई जुईमं ||8|| नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्मं जिनानाम्-ऋषभादितीर्थकृता सम्बन्धिनमयं-मुनिः-- श्रीमान्वर्द्धमानाख्यः काश्यपः गोत्रेण, आशुप्रज्ञः केवलज्ञानी--उत्पन्नदिव्यज्ञानो नेता-प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे- 'न लोकाव्ययनिष्ठे' (पा०२-३-६६)त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्रकर्मणि द्वितीयैव, यथा चेन्द्रो दिविस्वर्गे देवसहस्राणां महानुभावो-महाप्रभाववान् ‘णम्' इति वाक्यालङ्कारे, तथा नेताप्रणायको विशिष्टो-रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति / / 7 / / अपि च-असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया अक्षयः-नतस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावात्, एकदेशेन त्वाहयथा-'सागर' इति--अस्य चाविशिष्टत्वात् विशेषणमाह-महोदधिरिवस्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च, यथा च असौ सागरः अनाविलः- अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति, तथाकषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञाधवरणीयादिकर्मबन्धनाद्वियुक्तो- मुक्तः, भिक्षुरिति वचित्पाठः, तस्यायमर्थःसत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यत्वे च तथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः द्युतिमान्-दीप्तिमानिति / / 8 / / किञ्चसे वीरिए णं पडिपुन्नवीरिए, सुदंसणे वा णगसव्वसेतु। सुरालए वासिमुदागरे से, विरायएउणेगगुणोववेए | सयं सहस्साण उजोयणाणं, तिकंडगे पंडगवेजयंते। से जोयणे णवणवते सहस्से, उद्धस्सितो हेहसहस्समेगं // 10 // स-भगवान् वीर्येण औरसेन बलेनधृतिसंहननादिभिश्च वीर्यान्तरायस्य निश्शेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा सुदर्शनो-मेरुजम्बूदीपनाभिभूतः स यथा नगाना-पर्वतानां सर्वेषां श्रेष्ठः- प्रधानः तथा भगवानपि वीर्येणान्यैश्वगुणैः सर्वश्रेष्ठइति, तथा यथा-सुरालयः-स्वर्गस्तन्निवासिनां मुदाकरो-हर्षजनकः प्रशस्तवर्णसरगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो विराजते-शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति। यदिवायथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति / / 6 / / पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स-मेरुयोजनसहस्राणां शतमुचैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथाभौम, जाम्बूनदं, वैडूर्यमिति। पुनरप्यसावेव विशेष्यते– 'पण्डकवैजयन्त' इति पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्पं-पताकाभूतं यस्यस तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ इति // 10 // तथापुढेण भे चिट्ठइ भूमिवहिए, जंसूरिया अणुपरिवट्टयंति। से हेमवन्ने बहुनंदणे य जंसीरत्तिं वेदयतीमहिंदा॥१०॥ से पटवइ सहमहप्पगासे, विरायती कंचणमट्ठवन्ने। अणुत्तरे गिरिसुय पव्वदुग्गे, गिरीवरे से जलिए व भोमे / / 12 / / नभसि स्पृष्टो-लग्रो नभो व्याप्य तिष्ठति, तथा भूमिं चावगाह्य स्थित इति ऊर्ध्वाधस्तिग्लोकसंस्पर्शी, यथायं-मेरुं सूर्या--आदित्या ज्योतिष्का अनुपरिवर्तयन्तियस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ हेमवर्णोनिष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि-भूमौ भद्रशालवनं ततः पञ्चयोजनशतान्यरुह्य मेखलायांनन्दनं, ताते द्विषष्टियोजनसहस्राणि पञ्चशताधिकान्यतिक्रम्य सौमनसं, ततः षट्त्रंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति / तदेवमसौ चतुर्नन्दनवनाद्युपेतोविचित्रकीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन रतिम्-रमणक्रीडां वेदयन्ति-अनुभवन्तीति|११|| अपिच-सः मेख्यिोऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरित्येवमादिभिः शब्दर्भहान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो विराजते-शोभते, काञ्चनस्येव मृष्टः-श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा, एवं न विद्यते उत्तरः- प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः-- मेखलादिभिर्दष्ट्रापर्वतैर्वा दुर्गो-विषमः सामान्यजन्तूनांदुरारोहो गिरिवरः-पर्वतप्रधानः तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया भौम इव-भूदेश इव ज्वलित इति // 12 // (त्रयोदशमी 13 गाथा 'जम्बूदीव' शब्दे चतुर्थभागे 1378 पृष्ठे गता।) ' साम्प्रतं भेरुदृष्टान्तोपक्षेपेण दान्तिकं दर्शयतिसुदंसणस्सेव जसो गिरिस्स, पवुचई महतो पव्वयस्स। एतोवमे समणे नायपुत्ते, जातीजसोदसणनाणसीले // 1 //