________________ वीर वीर 1361 - अभिधानराजेन्द्रः - भाग 6 जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइंच पेहि // 3 // उड्ड अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा। से णिच्चणिचेहि समिक्ख पन्ने, दीवे व धम्म समियं उदाहु ||4|| सः-- भगवान चतुखिशदतिशयसमेतः खेदं संसारान्तर्वर्तिनां प्राणिनां कर्मविपाकजंदुःखं जानानीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात, यदि वा-क्षेत्रज्ञो-यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति / अथवा-क्षेत्रम्- आकाशं तज्जानातीति क्षेत्रज्ञोलोकालोकस्वरूपपरिझातेत्यर्थः, तथा भावकुशान्- अष्टविधकर्मरूपान् लुनातिछिनत्तीति कुशलः- प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थः, आशुशीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छदास्थ इव विचिन्त्य जानातीतिभावः, महर्षिरिति कृचित्पाठः, महांश्वासावृषिश्व महर्षिःअत्यन्तोग्रतपश्वरणानुष्टायित्वादतुलपरीषहोपसर्गसहनाचेति, तथा अनन्तम्अविनाश्यनन्तपदार्थपरिच्छेदक वा ज्ञान-विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वेनान्तदर्शी, तदेवम्भूतस्य भगवतो यशो-नृसुरासुराति-शाय्यतुलं विद्यते यस्य स यशस्वी तस्य लोकस्य चक्षुःपथेलोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा जानीहिअवगच्छधर्म-संसारोद्धरणस्वाभावं, तत्प्रणीतं वा श्रुतचारित्राख्य, तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्रा-चलनस्वभावां धृति--संयमे रति तत्प्रणीता वा प्रेक्षस्वसम्यकुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदि वा-तैरेव श्रमणादिभिः सुधर्मस्वाम्यप्यभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्म धृतिं च जानीषे ततोऽस्माक 'पहि' ति कथयेति // 3 // साम्प्रतं सुधर्मस्वामी तद्गुणान् कथयितुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरञ्चात्मके लोके ये केचन वस्यन्तीति त्रसास्ते-जोवायुरूपविकलेन्द्रियपश्चेन्द्रियभेदात् त्रिधा, तथा येच 'स्थावराः पृथिव्यम्बुवनस्पति भेदात् त्रिविधा, एत उच्छ्यासादयः प्राणाविद्यन्ते येषां ते प्राणिन इति, अनेन च शाक्यादिमतनिरासेन प्रथिव्यायेकेन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षण केवलज्ञानित्वात् जानातीति प्रज्ञः, स एव प्राज्ञो, नित्यानित्याभ्यां द्रय्यार्थपर्यायार्थाश्रयणात्-समीक्ष्यकेवलज्ञानेनार्थान परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेणं सम्बन्धः, तथा स प्राणिना पदार्थाविर्भावनेन दीपवत् दीपः, यदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत् आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ धर्मश्रुतचारित्राख्यं सम्यक् इतं-गतं सदनुष्ठानतया रागद्वेषरहितत्वेन समतयावा। तथा चोक्तम्-"जहा पुण्णरस कत्थइ तहा तुच्छस्स कत्थई'' इत्यादि, समं वा-धर्मम् उत्-प्रावल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति // 4 // किश्चान्यत्से सव्वदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितऽप्पा। अणुत्तरे सव्वजगंति विजं, ___ गंथा अतीते अभए अणाऊ ||5|| से भूइपण्णे अणिए अचारी, ओहंतरे धीरे अणंतचक्खू / अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे / / 6 / / 'स-भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्ट्र शीलमस्य स सर्वदर्शी, तथा अभिभूय-पराजित्य मत्यादीनि चत्वार्यपि ज्ञानानि यद्वर्तते ज्ञान केवलाख्य तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृत्वा तस्य भगवतो ज्ञान प्रदर्श्य क्रियां दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोट्याख्यः तथा गन्धो-विशेधिकोटिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्ना चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा-स्थितो व्यवस्थिोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच ज्ञानक्रियायोः फलद्वारेण विशेषणम्। तथा नास्योत्तर-प्रधानं सर्वस्मिनपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानाः करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराच कर्मरूपाद्, अतीतः-अतिक्रान्तो ग्रन्थातीतो-निन्थ इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः, समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुर्यस्य स भवत्यनायुः, दग्धकर्मबीजत्वेन पुनरुत्पत्तेरसंभवादिति॥५॥ अपि च-भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र भूतिप्रज्ञः- प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, तथाभूतिप्रज्ञोजगद्रक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञ इति, तथा अनियतम्अप्रतिबद्ध परिग्रहायोगाचरितुं शीलमस्यासावनियतचारी तथौघंसंसारसमुद्र तरितुं शीलमस्य स तथा, तथा धी:-बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा अनन्तं-ज्ञेयाऽनन्ततया नित्यतया वा चक्षुरिव चक्षुः-- केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः अनुत्तरंसर्वाधिक तपतिनतस्मादधिकस्तापेद कश्चिदस्ति, एवमसावपि भगवान ज्ञानेन सर्वोत्तम इति, तथा वैरोचन:-अग्निः स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति // 6 // किञ्चअणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने /