________________ मरण ११६-अभिधानराजेन्द्रः - भाग 6 मरण पोपगमनानामन्यतरेण सह चत्वारि, कारणिकस्य तु वैहायसगृध्रपृष्ठयोश्चान्यतरेण सह पञ्च, दृढसंयम प्रत्येवमुक्तम्, शिलिसंयमस्य त्ववध्यात्यन्तिकमरणयोरन्यतरत्, कुतश्चित्कारणाद्वैहायसगृध्रपृष्ठयोश्चान्यतरदितिद्वेकथञ्चिच्छल्यसम्भवे चान्तः शल्यमरणेन सह त्रीणि, बलन्मरणेन सह चत्वारि, छद्मस्थमरणेन तु पञ्च, पण्डितमरणस्य यथोक्तभक्तमरिज्ञानाऽऽदीनां वा विशुद्धसंयमत्वादस्याऽभाव एवेति। आह-विरतस्यावस्थाद्वयेऽपि तद्भवमरणप्रक्षेपे कथनषष्ठमरणसम्भवः ? उच्यते-विरतस्य देवेष्वेवोत्पाद इति तत्रैवोत्पत्त्यभावान्न तद्भवमरणसम्भव इति गाथात्रयाऽर्थः / / 227228 / 226 / / गतं कति म्रियन्त एकसमय इति द्वारम्। इदानी कतिकृत्वो म्रियतेएकैकस्मिन् ? इतिद्वारमाहसंखमसंखमणंता, कमो उ इकिकगम्मि अपत्थे। सत्तट्ठग अणुबंधो, पसत्थए केवलिम्मि सई॥२३०।। 'संखमसंख ति' आर्षत्वात् सङ्ख्याः -सङ्ख्याताः असङ्ख्या-अविद्यमानसङ्ख्या अनन्ता-अपर्यवसिताः, वारा इति प्रक्रमः। 'कमो उत्ति' / क्रमः-परिपाटी, तुशब्दश्च कायस्थितेरल्पबहुत्वाऽपेक्षयाऽयं ज्ञेय इति विशेषद्योतकः। 'इलेकगम्मि त्ति' एकैकस्मिन् 'अप्रशस्ते' बालमरणाऽऽदौ निरूप्यमाणे, तत्र सामान्येन पञ्चेन्द्रियाविरतदेशविरतौ च सङ्ख्याताः, शेषाः पृथिव्युदकाग्निवायुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः असजयाताः, वनस्पतयोऽनन्ताः, एते हि कायस्थित्यपेक्षया यथाकमं बहुबहुतरबहुतमस्थितिभाज इति कृत्वा / प्रशस्ते कति वारा म्रियते? इत्याह-'सत्तऽहग त्ति' सप्त बाऽष्ट वा सप्ताष्टास्ते परिमाणमस्येति सप्ताष्टकः, कोऽसौ ? 'अनुबन्धः' सातत्येन भवनं तन्मरणानामिति, ततोऽयमर्थः सप्त वा अष्ट वा वारा, म्रियते, क्व? 'प्रशस्तके' सर्वविरतिसम्बन्धिनि पण्डितमरणे, इह च चारित्रस्य निरन्तरमवाप्तयसम्भवात् तद्वत एव च प्रशस्तमरणभावादाद् व्यवधानमपि देवभवैराश्रीयते, 'केवलिनि' यथाख्यातचारित्रवति समुत्पन्नकेवले, 'सई ति' सकृद् एकमेव मरणमिति गाथाऽर्थः // 230 / / उक्तं कतिकृत्वो मियत एकैकस्मिन्निति द्वारम्। (E) सम्प्रति कतिभाग एकैकस्मिन्मरणे म्रियत इति द्वारमाहमरणे अणंतभागो, इकिक मरइ आइमं मोत्तुं / अणुसमयाऽऽई नेयं, पढमचरिमंतरं नस्थि // 231 / / 'मरणे' प्रागुक्तरूपे अनन्तभाग एकैकस्मिन् म्रियते, किं सर्वस्मिन्नपि ? नेत्याह-'आदिमम्' आवीचिमरणं, तस्यैवाऽऽद्यत्वात्, 'मुक्त्वा ' अपहाय, इयमत्र भावनाशेषमरणस्वामिनो हि सर्वजीवापेक्षया अनन्तभाग एवेति तेष्वनन्तो भागो मियत इत्युच्यते, आवीचिमरणस्वामिनस्तु सिद्धविरहिताः सर्व एव जीवाः, ते चानन्ता इति कृत्वाऽनन्तभागहीनाः सर्वे जीवा नियन्ते इत्युच्यते / उक्तं कतिभागो मियते एकैकस्मिन्निति द्वारम् / / अधुनाऽनुसमयद्वारमाह 'अणुसमय त्ति' समय समयमनु अनुसमयं वीप्सायामव्ययीभावः, ततश्चानुसमयं-सततम्, 'आदि' प्रथममावीचिमरणं' ज्ञेयम्' अवबोद्धयम, यावदायुस्तस्य प्रतिपादनात्, शेषाणां तवायुषोऽन्त्यसमय एवैकत्र भावादनुसमयतानिभिधानं, बहुसमयविषयत्वादनुसमयतायाः। तथा च वृद्धव्याख्या-"पढमे जाव आउं धरइ सेसाणं एगसमयं जहिं मरई'' 'न च मासं पायोवगया' इत्यागमेन विरोधः, तत्र पादपोपगमनशब्देन निश्चेष्टताया एवाभिधानात, मरणस्य तु तत्राप्यायुस्त्रुटिसमय एव सद्भावात्, तुः पूरणे। गतमनुसमयद्वारम्॥ इदानीं सान्तरद्वारमाह-तत्र प्रथमचरमयोरन्तरंव्यवधानं नास्ति' न विद्यते, प्रथमस्यावीचिमरणस्य सदा सम्भवात्, चरमस्य भवापेक्षया केवलिमरणस्य पुनर्मरणाभावादिति भाव इति गाथार्थः // 231 / / शेषाणामपि किमेवमित्याह - सेसाणं मरणाणं, नेओ संतरनिरंतरो उ गमो। साई सपज्जवसिया, सेसा पढमिल्लुगमणाई॥२३॥ शेषाणां मरणानाम्- अवधिमरणाऽऽदीनां पञ्चदशानां ज्ञेयः, सहान्तरेणव्यवधानेन वर्तत इति सान्तरः, निष्क्रान्तोऽन्तरान्निरन्तरश्च, तुशब्दस्य समुचयार्थत्वात् / उक्तं हि-"तुशब्दो विशेषणपादपूरणावधारणसमुच्चयेषु," कोऽसौ ? गम्यते अनेन वस्तुस्वरूपमिति गमःप्ररूपणा, इदमुक्तं भवति-यदाऽन्यतरद्वालमरणाऽऽदिकं प्राप्य म्रियते मृत्वा च भवान्तरे मरणान्तरमनुभूय पुनस्तदेवाऽऽप्नोति तदसान्तरनमिति प्ररूपणा, यदा तुवालमरणाऽऽदिकमवाप्य पुनस्तदेवाव्यवहितमाप्नोति तदा निरन्तरं भवति, तत्प्ररूपकत्वाचेह गमोऽपि सान्तरो निरन्तरश्चेत्युक्तः / / सम्प्रति गाथापश्चार्धेन कालद्वारमाह सादीनि च सपर्यवसितानि च सादिसपर्यवसितानि 'शेषाणि' षोडश वक्ष्यमाणापेक्षया अवधिमरणाऽऽदीनि, एकसामयिकतायास्तेषामभिहितत्वात् , प्रवाहापेक्षया तु शेषभोपलक्षणमेतत, प्रवाहतोऽपि भङ्गत्रयपतितानि शेषमरणानि सम्भवन्ति / तथा च वृद्धाः-"बालमरणाणि अणाइयाणि वा अपज्जवसियाणि वा, अणादियाणि वा सपज्जवसियाणि वा, पंडियमरणाणि पुण साइयाणि सपज्जवसियाणि / " मुक्त्यवाप्तौ तदुच्छित्तिसम्भवादिति भावः / 'पढमिल्लुगं ति' प्रथमकम्- आवीचिभरणम् 'अनादि' आदिरहितं प्रवाहापेक्षयेति भावः, प्रतिनियताऽऽयुःपुद्गलाऽपेक्षया तु साद्यपि सम्भवति, उपलक्षणत्वाचास्यापर्यवसितं च अभव्यानां, भव्यानां पुनः सपर्यवसितमिति गाथाऽर्थः // 232 / / सम्प्रत्यतिगम्भीरतामागमस्यदर्शयन्नात्मौद्धत्यपरिहारायाऽह भगवान् नियुक्तिकारःसव्वे एएदारा, मरणविभत्तीइ वण्णिआ कमसो। सगलणिउणे पयत्थे, जिणचउदसपुवि भासंति॥२३३|| 'सर्वाणि' अशेषाणि'एतानि' अनन्तरमुपदर्शितानि'द्वाराणि' अर्थप्रतिपादमुखानि 'मरणविभक्तेः' मरणविभक्त्यपरनाम्नोऽस्यैवाध्ययनस्य 'वर्णितानि' प्ररूपितानि, मयेति शेषः / कमसो त्ति' प्राग्वत् क्रमतः, आह-एवं सकलाऽपि मरणवक्तव्यतोक्ता, उत नेत्याह-सक लाश्च समस्ता निपुणाश्च-अशेषविशेषकलिताः सकलनिपुणाः तान् पदार्थान् इह प्रशस्तमरणाऽऽदीन् जिनाश्च केवलिनः चतुदर्शपूर्विणश्चप्रभवाऽऽदयो जिनचर्तुदर्शपूर्विणो 'भाषन्ते'