________________ मरण 115 - अभिधानराजेन्द्रः - भाग 6 मरण व्वीण दोच्छेए / 550 // ' कथं चान्यथैवविधविशिष्टधृति-संहननाभावे - "पुच्चभवियवरेण, देवो साहरइ कोऽवि पायाले। मा सो चरिमसरीरे वेयणं किं पि पावेज्जा / / 1 / / " तथा"देवो नेहे" नयइ, देवारणं व इंद्रभवणं वा। जहिय इट्ठा कंता, सव्वसुहा हुंति अणुभावा।।२।। उप्पण्णे उत्सग्गे, दिव्वे माणुस्सए तिरिक्खे य। सव्ये पराजिणिता, माओवगया परिहरंति // 3 // पुवावरउत्तरेहिं, दाहिणवाएहिँ आवडतेहिं। जह न वि कंपइ मेरू, तह झाणातो न वि चलति।।४।। इति मरणविभक्तिकदुक्तं महासामर्थ्य सम्भवि, किशतीर्थकरसेवितत्वाच पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चाविशिष्टसाधुसेविततवादन्यथात्वं, तथा चाऽवादि "सव्वे सव्वऽद्धाए, सव्वण्णू सव्वकम्मभूमीसु। सव्वगुरू सव्वहिया, सब्वे मेरूसु अहिसित्ता।।१।। सव्याहिं लद्धीहिं, सव्वेऽपि परीसहे पराजित्ता। सव्वेऽविय तित्थयरा, पातोवगया उ सिद्धिगया // 2 // अवसेसा अणगारा, तीयपडुप्पण्णऽणागया सव्वे। केतीपातोवगया, पञ्चक्खाणिगिणि केती॥३॥" इति कृतं प्रसङ्गे नेति गाथाऽर्थः / / 225 / / इत्थ प्रतिद्वारगाथाद्वयवर्णनात मूलद्वारगाथायां मरणवि भक्तिप्ररूपणाद्वारमनुवर्णितम्, अधुनाऽनुभावप्रदेशानद्वारद्वयमाहसोथक्कमो अनिरुवक्कमो अदुविहोऽणुभावमरणम्मि। आउगकम्मपएसग्गणंतणंता पएसेहिं / / 22 / / सहोपक्रमेण-अपवर्तनकरणाऽऽख्येन वर्तत इति सोपक्रमश्च, निर्गत उपक्रमान्निरुपक्रमश्च द्विविधा, द्वैविध्यं चोक्तभेदेनैव, कोऽऽसौ ? अनुभागः, क्व ? 'मरणे' इत्यर्थात मरणाविषयाऽऽयुषि, तत्र हि सप्तभिरहाभिर्वाऽऽकर्गवानिव मरुषु जलगण्डूषग्रहणरूपैर्यत्पुद्रलोपादानं तदनुभागोऽतिदृढ इत्यपवर्तयितुमशक्यतया निरुपक्रममुच्यते, यत्तु षभिः पञ्चभिश्चतुर्भिर्वा आगृहीतं-दलिकं तदपवर्तनाकरणेनोपक्रम्यते इति सोपक्रम न चैतदुभयमष्यायु,क्षयाऽऽत्मनि मरणे सम्भवति, तथा एति याति च इत्यायुस्तन्निबन्धनं कर्म आयुःकर्म तस्य विभक्तुमशक्यतया प्रकृष्टा देशाः प्रदेशास्तेषामग्रंपरिमाणमायुःकर्मप्रदेशाग्रम, अनन्तानन्ता:-अनन्तानन्तसङ्ख्यापरिमिता मरणप्रक्रमेऽप्यर्थादायुः पुद्गलास्तद्विषयत्वाच मरणस्यैवमुपन्यासः किमेतावन्तः कृत्स्नेऽप्यात्मनि ? इत आह-'परसेहिं ति' प्रक्रमात सुब्व्यत्ययाचाऽऽत्मप्रदेशेषु, आत्मप्रदेशो ह्येकैकस्तत्प्रदेशैरनन्तानन्तैरावेष्टितः संवेष्टितः, तथा च वृद्धव्याख्या-'इदाणि पदेसऽग्ग-अणंताणता आउगकम्मपोग्गला जेहिं एगमेगो जीवपएसो आवेढिय परिवेढितो।'' इति गाथाऽर्थः / / 226 / / (8) सम्प्रति कति मियन्ते एकसमयेनेति द्वारमाहदुन्नि व तिन्नि व चत्तारि पंच मरणाइ अवीइमरणम्मि। कइ मरइ एगसमयंसि विभासावित्थरं जाणे / / 227 // सव्वे भवत्थजीवा, मरंति आवीइअंसया मरणं। ओहिं च आइअंतिय, दुन्नि वि एयाइ, भयणाए॥२२८|| ओहिं च आइअंतिअ, बालं तह पंडिअंच मीसं च / छउमं केवलिमरणं, अन्नुननेणं विरुज्झंति / / 226 / / द्वे वा त्रीणि वा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमादेकस्मिन् समये सम्भवन्ति, आवीचिमरणे सतीतिशेषः, अनेन चास्य सततावस्थितत्वमेतदविवक्षया चतद्व्यादिभेदपरिकल्पनेत्याह-कति नियनत एकसमये ? इति चतुर्थद्वारस्य विशेषेण भाषणं विभाषणं विभाषाव्याख्या विविधैर्वा प्रकारैर्भाषणां विभाषाभेदाभिधानं तया विस्तरःप्रपञ्चस्तं विस्तर जानीहि जानीयाद्वा, निगमनमेतत्, प्रस्तुतमेवार्थ प्रकटयितुमाह-'सर्वे' निरवशेषाः, तत् किं मुक्तिभाजोऽपीत्याह-'भवस्थजीवाः' भवन्त्यस्मिन् कर्मयशवर्तिनो जन्तव इति भवः, तत्र तिष्ठन्ति भवस्थाः, तेच ते जीवाश्चेति विशेषणसमासः, मियन्ते आवीचिकमवीचिकं वा मरणमाश्रित्येति शेषः, यताविभक्तिव्यत्ययादावीचिकेन मरणेन नियन्ते। 'सदा' सर्वकालं, 'ओहिं चति' अवधिमरण, चशब्दो भिन्नक्रमः, ततश्च आइयंतिय त्ति' आत्यन्तिकमरणं च, द्वे अप्येते 'भजनया' विकल्पनया, किमुक्तं भवति ? यद्यप्यावीविमरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु सम्भवतः तथाऽप्यायुःखयसमय एव तयोः सम्भवान्न सदाभावः, अत आवीचिकमरणमेव सदेत्युक्तम्, अनेनावीचिमरणस्य सदाभावेन लोके मरणत्वेनाप्रसिद्धिः अविवक्षायां हेतुरुक्त इति भावनीयम्। सम्प्रति 'दोन्नि वि' इत्यादि व्यक्तीकरोति-'ओहिंच आइयंतिय त्ति, चशब्दो भिन्नक्रमः, ततोऽवधिमरणमात्यन्तिकमरणं च, 'बालं' बालमरणं च, तथेत्युत्तरभेदापेक्षया समुच्चये, 'पण्डितंच' पण्डितमरणं, मिश्रच बालपण्डितमरण च, चशब्दाद्वैहायसगृध्रपृष्ठमरणे, भक्तपरिक्षेङ्गिनी पादपोपगमनानि च, अन्योन्येन परस्परेण विरुध्यन्ते, युगपदसम्भवात, तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अन्यतरदालमरणं चेतिदे, तद्भवमरणेन सह त्रीणि, वशार्तेन चत्वारि, कथाञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण पञ्च / आहबलन्मरणान्तःशल्यमरणे अपि बालमरणभेदावेव, यत आगम:"बालमरणे दुवालसविहे पन्नत्ते / तं जहा-वलायमरणे, वसट्टमरणे, अंतोसल्लमरणे, तब्भवमरणेगिरिपडणे, तरुपडणे, जलप्पवेसे, जलणप्पवेसे, जलणप्पवैसे, विसभक्खणे, सत्थोवहणणे, वेहाणसे, गिद्धपट्टेत्ति / " एतेषु च यद्यपि गिरिपतनाऽऽदिषट्कस्य वैहायस एवान्तर्भावः तथापि बलन्मरणान्तः शल्यमरणयोः प्रक्षेपे कथं नोक्तसङ्ख्याविरोधः ! उच्यते, इहाविरतस्यैव बालमरणं विवक्षितम्। उक्तं हि - 'अविरयमरणं बालमरण' अनयोस्त्वेकत्र संयमसीनेभ्यो निवर्तनम्, अन्यत्र मालिन्यमानं विवक्षित, नतुसर्वथा विरतेरभावएवेतिकथंबालमरणेसम्भवः ? तथाछदास्थमरणमपि विरतानामेव रूढमिति नोक्तसङ्ग्याविरोधः, एवं देशविरतस्याऽपि द्वयादिभङ्गभावना कार्या, नवरं बालमरणस्थाने बालपण्डितमरणं वाच्यं, विरतस्य त्ववध्यात्यन्तिकमरणयोरन्यतरत् पण्डितमरणं चेति द्वे, छद्मस्थकेवलिमरणयोश्चान्यतरदिति त्रीणि, भक्तपरिझेङ्गिनीपाद