SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ मरण ११४-अभिधानराजेन्द्रः - भाग 6 मरण तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाहसपरकममाएसो,जह मरणं होई अजवइराणं / पायवगमणं च तहा, एयं सपरकम मरणं // 265 / / सह पराक्रमेण वर्तत इति सपराक्रम, किं तत् ? मरणम्, आदिश्यतेइत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो यमैतिह्यमाचक्षते, स आदेशः 'यथा' इत्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यम्, 'आर्यवरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राऽप्यायोज्यमिति गाथाऽर्थः // 265|| भावार्थस्तु कथानकादवसेयः, तच प्रतिद्धमेव, यथाऽऽर्यवैरैर्विस्मृतकर्णाहितश्रृङ्गवेरैः प्रमादादवगताऽसन्नमृत्युभिः सपराक्रमैरेव रथाऽऽवर्तशिखरिणि पादपोपगमनमकारीलि। साम्प्रतमपराकमंदर्शयितुमाहअपरकममाएसो, जह मरणं होइ उदहिनामाणं / पाओवगमेऽवि तहा, एवं अपरकम मरणं / / 266 / / न विद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत् ? मरणं, तच यथा जङ्काबलपरिक्षीणानामुदधिनाम्नाम्आर्यसमुद्राणां मरणमभूद, अयमादेशो-दृष्टानतो वृद्धवादाऽयात इति, पादपापगमनेऽपि तथैवाऽऽदेशं जानीयाद्यथापादपोपगमनेन तेषां मरणमभूदितित, एतद्-अपराक्रम मरणं यदार्थसमुद्राणं सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः। भावार्थस्तु कथानकादवसेयः, तच्चेदम्- आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवाऽऽसन, पश्चाच्च तैर्जङ्घाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनमकारि // 266|| साम्प्रतं व्याघातिममाहवाघाइयमाएसो, अवरद्धो हुज्ज अन्नतरएणं। तोसलि महिसीइहओ, एवं वाघाइयं मरणं // 267 / / विशेषेणाऽऽघातो व्याघातः-सिंहाऽऽदिकृतः शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याधातिम, कश्चित्सिहाऽऽद्यन्यतरेणापराद्धो भवेद्- तेन 'यन्मरणं तद्माघातिमं, तत्र वृद्धवादाऽऽयात आदेशो दृष्टानतः, यथातोसलिनामाऽऽचार्यो महिष्याऽऽरब्धश्चतुर्विधाऽऽहारपरित्यागेन मरणमभ्युपगतवान् एतद् व्याघातिमं मरणमिति गाथाऽक्षरार्थः / भावार्थस्तु कथानकादवसेयः, तच्चेदम्- तोसलिनामाऽऽचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बहृयो महिष्यः सम्भवन्ति, ताभि, श्च कदाचिदेकः साधुरटव्यन्तर्वारब्धः, सच ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाऽऽहारं प्रत्याख्यातवानि ति। आचा०१ श्रु०८ अ०१ उ०। साम्प्रतमन्त्यमरणत्रयमाहभत्तपरिण्णा इंगिणि, पाओवगमंच तिण्णि मरणाई। कन्नसमज्झिमजेहा, घिइसंघयणेण उ विसिट्ठा।।२२।। भक्तं-भोजनं तस्य परिज्ञाज्ञपरिज्ञयाऽनेकधेदमस्माभिर्भुक्तपूर्वमेत तुकं चाऽवद्यमिति परिज्ञानं, प्रत्याख्यानपरिज्ञया च "सव्वं च असणपाणं, चउव्विहं जा य बाहिरा उवही। अभितरं च उवहिं, जावजीवं च बोसिरे // 1 // " इत्यागमवचनाच्चतुर्विधाऽऽहारस्य वा यावज्जीवमपि परित्यागाऽऽत्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इङ्ग्यतेप्रतिनियतप्रदेश एव चेष्ट्यते अस्यामनशनक्रियायामिति इङ्गिनी, पादैः-अधः प्रसर्पिमूलाऽऽत्मकैः पिवतिपादपो-वृक्षः, उपशब्दश्चोपमेतिवत्सादृश्ययेऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोपगम, किमुक्तं भवति ! यथैव पादपः क्वचित् कथञ्चिन्निपतितः सममसममिति चाविभावयन्निश्चलमेवाऽऽस्ते, तथाऽयमपि भगवान् यद् यथा समविषमदेशेष्वङ्गमुपाङ्ग वा प्रथमतः पतितंन तत्ततश्चलयति। तथा च प्रकीर्णकृत् "णिचल णिप्पडिकम्मो, णिक्खिवएजंजहिं जहा अंगं। एवं पादोवगम, णीहारिं वा अणीहारि।।१।। पाओवगमं भणियं,समें विसमे पायवो जहा पडितो। णवरं परप्पओगा, कंपेज्ज जहा चलतरु व्व।।५४४॥ चः समुचये / इह चैवंविधानशनोपलक्षितानि मरणान्यप्येवमुक्तानि, अत एवाऽह-त्रीणि मरणानि, एतत्स्वरूपंच यथेदं विधेयं यचात्र सपरिकर्म अपरिकर्मच इत्यादिकं सूत्रकार एवोत्तरत्र तपोमार्गनाम्नि त्रिंशत्तमाध्ययनेऽभिधास्यतइति नियुक्तिकृता नोक्तम् / द्वारनिर्देशाचावश्यं किश्चिद्वाच्यमिति मत्वेदमाह-'कण्णस त्ति' सूत्रत्वात् कनिष्ठ-लघु जघन्यमिति यावत्, मध्यम-लघुज्येष्ठयोर्मध्ये भावि, ज्येष्ठम्-अतिशयवृद्धमुत्कृष्टमित्यर्थः, एषां द्वन्द्वः तत एतानि, धृतिः-संयमप्रति चित्तस्वास्थ्यं संहननं-शरीरसामर्थ्यहेतुः वज्रऋषभनाराचाऽऽदिताभ्यां, प्राकृतत्याचैकवचननिर्देशः, समाहाराऽश्रयणाद्वा, तुशब्दात्सपरिकर्माऽपरिकर्मताऽऽदिभिश्च विशेषणैर्विशिष्टानिविशेषवन्ति, इदमुक्तं भवति यद्यपि त्रितयमप्येतत् "धीरेणऽविमरियव्वं, कापुरिसेण वि अवस्स मरियव्वं / तम्हा अवस्समरणे, वरं खुधीरत्तणे मरिउ।।१।। संसाररंगमज्झे, धीबलसंनद्धबद्धकच्छातो। हंतूणमोहमल, हराभि आराहणपडागं॥२॥ जह पच्छिमम्मि काले, पच्छिमतित्थयरदेसियमुयारं। पच्छा निच्छयपत्थं, उवेमि अब्भुजयं भरणं // 3 // " इति शुभाऽऽशयवानेव प्रतिपद्यते, फलमपि च विमानिकतामुक्तिलक्षणं त्रयस्याऽपिसमानं, तथा चोक्तम्-"एयंपच्चक्खाणं, अणुपालेऊणसुविहिओ सम्मं / वेमाणिओ व देवो, हवेज अहवाऽवि सिज्झिज्जा / / 1 / / " तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठत्वाऽऽदिस्तद्विशेष उच्यते, तथाहि-भक्तपरिज्ञामरणमार्यिकाऽऽदीनामप्यस्ति, यत उक्तम्- "सव्वावि य अजओ, सव्वेऽवि य पढमसंघयणवञ्जा / सव्वेऽवि देसविरया, पचक्खाणेण उमरंति॥१॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिजैवोक्ता, तत्र प्राक्पादपोपगमनाऽऽदेरन्यथाऽभिधानात्, इङ्गिनीमरणं तु विशिष्अतरधृतिसंहननवतामेव सम्भवतीत्यार्यिकाऽऽदिनिषेधत एवाऽवसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेवेत्युक्तप्रायं, ततश्च वजऋषभनाराचसंहननिनामेवैतत्, उक्तं हि-"पढमम्मि य संघसणे, वट्टते सेलकुडुसामाणे / तेसिं पि य वोच्छेओ, चोद्दसपु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy