________________ मरण 113 - अभिधानराजेन्द्रः - भाग 6 मरण अनादा केषाशिदपर्यवसिते चेति तत् सर्वथा परिहर्त्तव्यमेवेति भावः। इति गाथाऽर्थः / / 220 // तद्भवमरणमाहमोत्तुं अकम्मभूमगनरतिरिए सुरगणे अनेरइए। सेसाणं जीवाणं, तब्भवमरणं तु कसिं चि // 221 / / 'मुक्त्वा ' अपहाय, कान् ? 'अकम्मभमगनरतिरिए त्ति' सूत्रत्वात् अकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादिषूत्पन्नतया नरतियशश्च अकर्मभमिजनरतिर्यञ्चस्तान्, तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः तथा 'सुरगणांश्च सुरनिकायान्, किमुक्तं भवति ? चतुर्निकायर्तिनोऽपि देवान, निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि चशब्दानुवृत्तेस्तांश्च मुक्तति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवपोत्पत्तेः, 'शेषाणाम' एतदुरिताना कर्मभूमिजनरतिरश्चां 'जीवानां प्राणिनां तद्भचमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् नवे वर्त्तत जन्तुस्तद्भवयोग्यमेवाऽऽयुर्बवा पुनस्तत्क्षयेण नियमाणस्य भवति, तुशब्दस्तेषामपि सङ्खयेयवर्षाऽऽयुषामेवेति विशेषख्यापकः, असङ्ग येयवर्षाऽऽयुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषां, किन्तु केषाश्चित् तद्भवोत्पादानुरूपमेवाऽऽयुःकर्मोपचिन्वतामिति गाथाऽर्थः // 221 / / अत्रान्तरे प्रत्यन्तरेषु 'मोचूणओहिमरणं' इत्यादिगाथा दृश्यते, न चारया भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसो व्याख्यातेति उपेक्ष्यते। सम्प्रति बालपण्डितमिरमरणस्वरूषमाहअविरयमरणं बालं, मरणं विरयाण पंडियं विति। जाणाहि बालपंडियमरणं पुण देसविरयाणं // 222 / / विरमणं विरतं-हिंसाऽनृताऽऽदेरुपरमणं न विद्यते तद् येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिथ्यादृशा सम्यगदृशां वा मरणमविरतमरणंबालमरणमिति बुवत इति सम्बन्धः / तथा 'विरताना' सर्वसावधनिवृत्तिमभ्युपगतानां मरण 'पण्डित' मिति प्रक्रमात्पण्डितमरणम्. "बिति त्ति' बुवते तीर्थकरगणधराऽऽदयः, जानीहि 'बालपण्डितमरणमिति मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशयं द्योतयति, देशात् सर्वविषयाऽपेक्षया स्थूलप्राणिव्यपरोपणाऽऽ-- देविरता देशविरतारतेषामिति गाथाऽर्थः / / 222 // एवं चरणद्वारेण बालाऽऽदिमरणत्रयमभिधाय ज्ञानदारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयिदुनाहमणपज्जवोहिनाणी, सुअमइनाणी मरंति जे समणा। छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो // 223 / गनःपर्यवज्ञानिनोऽवधिज्ञानिनश्च, ज्ञानिशब्दस्य प्रत्येकमभिसम्बन्धात्, श्रुतज्ञानिनो मतिज्ञानिनश्च 'मियन्ते' प्राणांस्त्यजन्ति ये 'श्रमणाः' तपस्विनः छादयन्तीति छद्मानिज्ञानाऽऽवरणाऽदीनि तेषु तिष्ठन्तीति छद्मस्थाः तेषां मरण छद्मस्थमरणमेतत्, इह च प्रथमतो मनः पर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण एव तदुपजायत इति स्वामिकृतप्रधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं स्वधियेव हेतुरभिधेयः केवलिमरणं तु ये केवलिनः-उत्पन्नकेवलाः सकलकर्मपुदलपरिशाटतो म्रियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशः प्राग्व दिति गाथाऽर्थः // 223 // साम्प्रतं वैहायसगृध्रपृष्ठ (स्पृष्ट) मरणे अभिधातुमाहगिद्धाइभक्खणं गिद्धपिट्ठ उब्बंधणाइ वेहासं। एए दुन्निवि मरणा, कारणजाए अणुण्णाया।।२२४।। 'गृद्धाः' प्रतीतास्ते आदिर्येषां शकुनिकाशिवाऽऽदीना तैर्भक्षणं गम्यमानत्वादात्मनः तदनिवारणाऽऽदिना तद्भक्ष्यकरिकरभाऽऽदिशरीरानुप्रवेशेन च गृध्राऽऽदिभक्षणं, तत् किमुच्यत इत्याह-'गिद्धपिट्ट त्ति' गृधैः स्पृटस्पर्शन यस्मिस्तद्गृध्रस्पृष्टम, यदिवा-गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदराऽऽदि च मर्तुर्यस्मिस्तद् गृध्रपृष्ठम्, सहालक्तकपूणिकापुटप्रदानेनाप्यात्मानं गृध्राऽऽदिभिः पृष्ठाऽऽदौ भक्षयतीति, पश्चान्निर्दिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरा प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाइ वेहासं ति' उत्- ऊर्द्ध वृक्षशाखाऽऽदी बन्धनमुद्वन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपाताऽऽदेरात्मजनितस्य मरणस्य तदुद्वन्धनाऽऽदि 'वेहासं ति' प्राकृतत्वाद्यलोपे वैहायसम्, उद्बद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तम्। आह-एवं गृध्रपृष्ठस्याप्यात्मधातरूपत्वाद्वैहायसिकेऽन्तर्भावः, सत्यमेतत, केवलमल्पसत्त्वैरध्यवसातुमशक्यताख्यापनार्थस्य भेदेनोपन्यासः ननु-"भावियजिणवयणाणं, मयत्तरहियाण णत्थि हु विसेसो। अत्ताणम्मि परम्मि य, तो वजे पीडमुभए वि / / 1 / / '' इत्यागमः, एते चानन्तरोक्ते मरणे आत्मविघातकारिणी, तथा चाऽऽत्मपीडाहेतुरिति कथं नाऽगमविरोधः ? अत एव च भक्तपरिज्ञानाऽऽदिषु पीडापरिहाराय 'चत्तारि विचित्ताई, विगई णिजू० // 982 // इत्यादिसलेखनाविधिः पानकाऽऽदिविधिश्च तत्राऽभिहितः, दर्शनमालिन्यं चोभयत्रेत्याशङ्कयाऽऽह-'एते' अनन्तरोक्ते 'द्वे अपि' गृध्रपृष्ठवैहायसाऽऽख्ये मरणे'कारणजाते कारणप्रकारे दर्शनमालिन्यपरिहाराऽऽदिके उदायिनृपानुमृततथाविधाऽऽचार्यवत् अनुज्ञाते, तीर्थकृद्गणधराऽऽदिभिरिति, अनेन च सम्प्रदायानुसारिता दर्शयन्नन्यथाकथने श्रुताऽऽशातनाया अतिदुरन्त - त्वमाह। इति गाथाऽर्थः / / 224|| उत्त० पाई०५ अ०। (7) साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाहसपरिक्कमे य अपरि-क्कमए य वाघाय आणुपुवीए। सुत्तत्थजाणएणं, समाहिमरणं तु कायव्वं // 264 / / 'पराक्रमः' सामर्थ्य सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मिश्च मरण स्यात, तद्विपर्यये चापराक्रमेजबाबलपरिक्षीणे तद्भक्तपरिज्ञेगितमरणपादपोपगमनभेदात् त्रिविधमपि मरणं सपराक्रमेतरभेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि व्याघातिमेतरभेदात् द्विधा भवेत्, तत्र व्याघातः सिंहव्याघ्राऽऽदिकृतोव्याघातस्तुप्रव्रज्यासूत्रार्थग्रहणाऽऽदिकयाऽनुपूर्व्या विपत्रिममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघात इहाऽनुपूर्वीत्युक्त, तत्र परमार्थोपक्षेपेणोपसंहरति व्याघातेनाऽनुपूर्व्या का सपराक्रमस्याऽपराक्रमस्य वा मरणे समुपस्थिते सति सूत्रार्थज्ञन कालज्ञतया समाधिमरणमेव कर्त्तव्यं, भक्तपरिज्ञेङ्गितमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयं, न वेहानसाऽऽदिक बालमरणं कर्त्तव्यमिति गाथाऽर्थः // 264 //