________________ वीर 1356 - अमिधानराजेन्द्रः - भाग 6 वीर रन्यतरेण मार्गेण युक्तानि, आश्रमास्तीर्थस्थानानि तापसस्थानानि वा, संबाहाः समभूमौ कृषि कृत्वा कृषीवला यत्रधान्यं रक्षार्थ स्थापयन्ति, सन्निवेशा सार्थकटकादीनामुत्तरणस्थानानि, एतेषा द्वन्द्वः, तेषां तथा 'सिंघाडएसु वा' शृङ्गाटकेषु शृद्धाटकफलाकाररथानेषु वा 'तिएसु वा' त्रिकेषु, मार्गत्रयमिलनस्थानेषु वा 'चचरेसुवा' चत्वरेषु, बहुमार्गमिलनस्थानेषु वा 'चउम्मुहेसुवा' चतुर्मुखेषु देवकुलच्छत्रिकादिषु वा महापहेसु वा' महापथेषु राजमार्गेषु वा, तथा 'गामट्ठाणेसुवा' ग्रामस्थानानि उद्वसग्रामस्थानानि तेषु वा 'नगरट्ठाणेसु वा' उद्वसनगरस्थानानि तेषु या 'गामनिद्धमणेसु वा ग्रामसम्बधीनि निर्धमनानि जलनिर्गमाः 'खाल' इति प्रसिद्धास्तेषु 'नगर-निद्धमणेसुवा' एवं नगर निर्धमनेषुधा आवणेसु वात्र आपणा हट्टास्तेषु देवकुलेसु वा' देवकुलानि यक्षाद्यायतनानि तेषु 'सभासु वा' सभासु जनोपवेशनस्थानेषु 'पवासुवा' प्रपासु पानीयशालासु आरामेसु' आरामेषु कदल्याधाच्छादितेषु स्त्रीपुरसयोः क्रीडास्थानेषु 'उज्जाणेसु वा' उद्यानेषु पुष्पफलोपेतवृक्षशोभितेषु बहुजनभोग्येषु उद्यानिकास्थानेषु इत्यर्थः 'वणेसु वा' वनेषु एकजातीयवृक्षसमुदायेषु 'वणसंडेसु वा वनखण्डेषु अनेकजातीयोत्तभवृक्षसमुदायेषु 'सुसाणसुन्नागारगिरिकंदर 'स्मशानं' शून्यागार शून्यगृह, गिरिकन्दरा प्रतीता पर्वतगुहेत्यर्थः 'संतिसेलोवट्टाणभवणगिहेसु वा' तत्र गृहशब्दः प्रत्यक योज्यः, शान्तिगृहाः शान्तिकर्मस्थानानि, शैलगृहाः पर्वतगृहाः; पर्वतमुत्कीर्य कृतगृहा इत्यर्थः / उपस्थानगृहाः आस्थानसभाः, भवनगृहाः कुटुम्बिवसन-स्थानानि, ततः श्मशानादीनां द्वन्द्वः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषुच यानि महानिधानानि संनिक्खित्ताइ चिट्ठति' पूर्व कृपणपूरुषैः संनिक्षिप्तानि तिष्ठन्ति, 'ताई सिद्धत्थरायभवणंसि साहरंति' तानि तिर्यक्जृम्भका देवाः सिद्धार्थराजभवने सहरन्तिमुशन्तीति योजना।।८८|| जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए, तं रयणिं च णं ते नायकुलं हिरण्णेणं वड्डित्था सुवण्णेणं वड्डित्था धणेणं धनेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं ववित्था विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं सेतसारसावइजेणं पीइसक्कारसमुदएणं अईव अईव अभिववित्था / तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणे अयमेयारूवे अन्भत्थिए० जाव से कप्पे समुप्पज्जित्था ||86 / / जप्पभिई च णं अम्हे एस दारए कुञ्छिसि गठभत्ताए वक्रते तप्पमिदं च णं अम्हें हिरण्णेणं वड्डामो, सुवनेणं, धणेणं धन्नेणं० जाव सेतसारसावइज्जेणं पीइसक्कारेणं अईव अईव वडामो जया णं अम्हे एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारयस्स एयाणुरूवे गुण्णे गुणनिप्फन्नं नामधिज्जं करिस्सामो "वद्धमाणु"त्ति|EO|| 'जं रयणि चणं समणे भगवं महावीरे' तत्र णमिति वाक्यालङ्कारे यस्या रात्री श्रमणो भगवान महावीरः 'नायकुलंसि साहरिए' ज्ञातकुले संहृतः 'त रयणिं च णं तं नायकुलं तस्यां रात्री, ततः प्रभृति इत्यर्थः, तत ज्ञातकुलं 'हिरण्णेणं ववित्था' हिरण्येन रूप्येन अघटितसुवर्णेन वा अवर्द्धत, 'सुवण्णेणं ववित्था' सुवर्णेन प्रतीतेन अवर्धत, 'एवं धणेण धनेन (कल्प०) धण्णेण धान्येन (कल्प०) 'रजेणं राज्येन सप्ताङ्गेन 'रटेणं' राष्ट्रेण देशेन 'बलेण' बलं चतुरङ्गसैन्य तेन 'वाहणेण वाहनेन औष्ट्रप्रमुखेन 'कोसेणं' कोशेन भाण्डागारेण 'कोहागारेणं' कोष्ठागारेण धान्यगृहेण 'पुरेणं' नगरेण अंतेउरेणं' अन्तः पुरेण प्रतीतेन 'जणवएणं' जानपदेन देशवासिलोकेन जसवाएणं वड्डित्था' यशोवादेन साधुवादेन च अवर्धत 'विपुलधणकणगरयणमणिमोत्तियसंखसिलप्प-वालरतरयणमाइएणं' विपुलं-विस्तीर्ण धनं गवादिकं. कनकं घटिताघटितप्रकाराभ्यां द्विविधं, रत्नानि कर्केतनादीनि, मणयश्चन्द्रकान्ताद्याः मौक्तिकानि प्रतीतानि शङ्का दक्षिणावर्ता, शिला राजपट्टादिकाः, प्रबालानि विद्रुमाणि, रक्तरत्नानि पद्मरागादीनि, आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहस्तेन तथा 'संतसारसावइजेणं' सत्-विद्यमानं नविन्द्रजालादिवत्स्वरूपतोऽविद्यमानम्, एवविध यत् सारस्वापतेयप्रधानद्रव्यं, तेन यथा 'पीइसक्कारसमुदएणं' प्रीतिर्मानसी तुष्टिः, सत्कारो-वस्त्रादिभिः स्वजनकृता भक्तिस्तत्समुदयेन, तद् ज्ञातकुलम् 'अईव अईव अभिवट्टित्था' अतीव अतीव अभ्यवर्द्धत'तएणं समणस्स भगयओ महावीरस्स' ततः श्रमणस्स भगवतो महावीरस्स 'अम्मापिऊणं' मातापित्रोः 'अयमेथारूवे अब्भत्थिए० जाव संकप्पे समुप्पजित्था' अयमेतद्रूपः आत्मविषयः, यावत् संकल्पः समुदपद्यत, 186 कोऽसौ इत्याह- 'जप्पभिई चण' यतः प्रभृति 'अम्ह एस दारए कुच्छिसि गब्भत्तार वकते' अस्माकम् एष दारकः कुक्षौ गर्भतया उत्त्पन्नाः 'तप्पभिई च णं' ततः प्रभृति 'अम्हे हिरण्णणं वड्डामो' वयं हिरण्येन वर्धामहे 'सुवण्णेणं वड्डामो' सुवर्णन वर्धामहे 'धणेणं धन्नेण० जाव संतसारसावइज्जेणं' धनेन धान्येन यावत् विद्यमानसारस्थापतेयेन 'पीइसक्कारेण अईव अईव अभिवड्डामो' प्रीतिसत्कारेण च अतीव अतीव अभिवर्धामहे, 'जयाणं अम्ह एस दारए जाए भविस्सइ' 'तस्माद्' यदा अस्माकमेष दारकः जातो भविष्यति 'तया णं अम्हे एयस्स दारयस्स' तदा वयमेतस्य दारकस्य, एयाणुरूव' एतदनुरूपंधनादिवृद्धेरनुरूपम् अत एव 'गुण्ण गुणनिप्फन्नं नामधिल करिस्सामो' गुणेभ्य आगतं तत एव गुणनिष्पन्न नामधेय करिष्यामः, किं तदित्याह- 'वद्धमाणु' त्ति, वर्धमान इति // 10 // तए णं समणे भगवं महावीरे माउअणुकंपणट्ठाए निचले निप्फंदे निरयणे, अल्लीणपल्लीणगुते आऽवि होत्था ||11|| तए णं से तिसलाए खत्तिआणीए अयमेयासवे०जावसंकप्पेणं समुप्पञ्जित्था हडे मे से गब्भे, मडे मे से गन्भे, चुए मे से गब्भे, गलिए मे से गब्भे एस मे गन्भे, पुट्विं एयइ, इयाणिं नो एयइ त्ति कटु, ओहय