________________ वीर 1357- अमिधानराजेन्द्रः - भाग 6 वीर मणसंकप्पा चिंतासोगसागरं पविट्ठा, करयलपल्हत्थमुही, अट्टज्झाणोवगया भूमीगयदिट्ठिया झियाअइ // तं पि य सिद्धत्थरायवरभवणं उवरयमुइंगतंतीतलतालनाड इज्जजणमणुण्णं दीणविमणं विहरइ ||2|| तए णं से समणे भगवं महावीरे माऊ अ अयमेयारूवे अब्भत्थि मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ // तए णं सा तिसला खत्तिआणी हट्ठ-तुट्ठ० जाव हियया एवं वयासी||३|| नो खलु मे गब्भे हडे० जाव नो गलिए एस मे गब्भे पुटिव नो एयइइयाणिं एयइत्ति कटु हट्ठ-तुट्ठ० जाव हियया एवं विहरइ ||4|| 'तए णं समणे भगवं महावीरे' ततः श्रमणो भगवान् महावीरः 'माउअणुकंपणट्टाए' मयि परिस्पन्दमाने मातुः कष्ट माभूदिति मातुः अनुकम्पनार्थ-मातुर्भक्त्यर्थम् अन्येनापि मातभक्तिरेवं कर्तव्या इति दर्शनार्थ च, 'निचले' निश्चलः 'निप्फंदे 'निष्पन्दः किंचिदपि चलनाडभावात् 'अत एव' निरयणे' निरेजनो निष्कम्पः 'अल्लीण' आईपल्लीनः अङ्गगोपनात 'पल्लीण' लीनः 'उपाङ्गगोपनात्' अत एव 'गुत्ते याऽवि होत्था' गुप्तः ततः पदत्रयस्य कर्मधारयः, 'वाऽपि त्ति विशेषणसमुचये अभवत्, अत्र कविः- "एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वन्निव, ध्यानं किंश्चिदगोचरं विरचयत्येकः परब्रह्मणे।। किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननीकुक्षावसौ वः श्रिये // 1 // " ||1|| 'लए णं से तिसलाएखत्तियाणीए' ततो भगवतो निश्चलावस्थानन्तरं तस्या-खिशलाक्षत्रियाण्याः 'अयमेयारवे०जाव संकप्पे समुप्पजित्था' अयमेतद्रूपः यावत् अध्यवसायः समुत्पन्नः, कोऽसौ इत्याह- 'हडे मे से गब्भे' हतः मेसगर्भः 'मडे मे से गठभे' अथवा-स मे गर्भः मृतः 'चुए मे से गब्भे' अथवा स मे गर्भः किं च्युतो, गर्भस्वभावात परिभ्रष्टः 'गलिए मे से गड्भे' अथवा स में गर्भः किं गलितः-- द्रवीभूय क्षरितः, यस्मात्कारणात् 'एस में गब्भे पुट्विं एयइ एष मे गर्भः पूर्वमेजते, पूर्व कम्पमानोऽभूत् 'इयाणिं नो एयइत्ति कटु इदानीं नैजतेन कम्पते, इति कृत्वा झाते हेतोः 'ओहयमणसंकप्पा' उपहतः कलुषीभूतो मनःसंकल्पो यस्याः सा तथा 'चिंतासोगसागरं पविट्ठा' चिन्ता गर्भहरणादिवि-कल्पसम्भवा अर्तिस्तया यः शोकः स एव सागरः समुद्रस्तत्र प्रविष्टा बुडिता, अत एव करयलपल्हत्थमुही' करतले पर्यस्तं स्थापितं मुखं यया सा तथा 'अट्टज्झाणोवगया' आर्तध्यानोपगता 'भूमीगयदिट्ठिया झियाअइ' भूमिगतदृष्टि-काध्यायति. अथ सा त्रिशला तदानीं यद् ध्यायति, तल्लिख्यते "सल्यमिदं यदि भविता, मदीयगर्भस्य कथमपीहा तदा। निष्पुण्यकजीवाना-मवधिरिति ख्यातिमत्यभवम् // 1 // यद्वा चिन्तारनं, न हि नन्दति भाग्यहीनजनसदने। नापि च रत्ननिधानं, दरिद्रगृहसगतीभवति / / 2 / / कल्पतरुर्मरुभूमौ, न पादुर्भवति भूम्यभाग्यवशात्। न हि निष्पुण्यपिपासित-नृणां पीयूषसामग्री / / 3 / / हा धिर धिग् देवं प्रति, किं चक्रे तेन सततवक्रेण। यन्मम मनोरथतरु-र्मूलादुन्मूलितोऽनेन / / 4 / / आत्तं दत्त्वापि च मे, लोचनयुगलं कलङ्कविकलमलम्। दत्त्वा पुनरुद्दालित-मधर्मनानेन निधिरत्नम् // 5 // आरोप्य मेरुशिखरं, प्रपातिता पापिनाऽमुनाऽहमियम्। परिवेष्याप्याकृष्टं, भोजनभाजनमलज्जेन / / 6 / / यद्वा मयाऽपराद्ध, भवान्तरेऽस्मिन् भवेऽपि किं धातः। यस्मादेवं कुर्व-त्रुचिताऽनुचितं न चिन्तयसि / / 7 / / अथ किं कुर्वे क्व च वा, गच्छामि वदामि कस्य वा पुरतः। दुर्दैवतेन दग्धा, जग्धा मुग्धाधमेन पुनः // 8 // कि राज्येनाप्यमुना, किं वा कृत्रिमसुखैर्विषयजन्यैः। किं वा दुकूलशय्या-शयनोद्भवशर्महर्येण / / 6 / / गजवृषभादिस्वप्नैः, सूचितमुचितं शुचिं त्रिजगदय॑म्। त्रिभुवनजनासपत्न, विना जनानन्दि सुतरत्नम् / / 10 / / युग्मम्धिक् संसारमसारं, धिक् दुःखव्याप्तविषयसुखलेशान्। मधुलिप्तखड्गधारा-लेहनतुलितानहो लुलितान् // 11 // यद्वा मयका किंचित्, तथाविधं दुष्कृतं कर्म। पूर्वभवे यदृषिभिः, प्रोक्तमिदं धर्मशास्त्रेषु ।।१२।(कल्प०) (यैः कर्मभिर्गर्भनाशो जायते तद 'गब्भ' शब्दे तृतीयभागे 838 पृष्ठे गतम्।) यतःकुरडरंडत्तणदुब्भगाई, वंझत्तनिंदुविसकन्नगाई। लहति जम्मतरभग्गसीला, नाऊण कुजा दढसीलभावं // 20 // एवं चिन्ताक्रान्ता, ध्यायन्ती म्लानकमलसमवदना। दृष्टा शिष्टन सखी-जनेन तत्कारणं पृष्टा / / 21 / / प्रोवाच साश्रुलोचन-रचनानिःश्वासकलितवचनेन। किं मन्दभागधेया, वदामि यजीवितं मेऽगात् / / 22 / / सख्यो जगुरथ रे सखि ! शान्तममङ्गलमशेषमन्यदिह। गर्भस्य तेऽस्ति कुशलं, न वेति वद कोविदे सत्यम्॥२३।। सा प्रोचे गर्भस्य च, कुशले किमकुशलमस्ति मे सख्यः। इत्याद्युक्त्वा मूर्छा-मापन्ना पतति भूपीठ।।२४।। शीतलवातप्रभृतिभि-रुपचारैर्बहुतरैः सखीभिः सा। संप्रापितचैतन्यो-तिष्ठति विलपति च पुनरेवम्।।२५।। गरुए अणोरपारे, रयणनिहाणे असायरे पत्तो। छिद्दघडो न भरिजइ, ता किं दोसो जलनिहिस्स // 26|| पत्ते वसन्तमासे, रिद्धिं पावन्ति सयलवणराई। जंन करीरे पत्त, ता किं दोसो वसंतस्स / / 27 / / उत्तुंगो सरलतरू, बहुफलभारेण नमिअसव्वंगो। कुजो फलं न पावइ, ता किं दोसो तरुवरस्स // 28 // समीहितं यन्न लभामहे वयं, प्रभो! न दोषस्तव कर्मणो मम। दिवाप्युलूको यदि नावलोकते, तदा स दोषः कथमंशुमालिनः // 26 / / अथ मे मरणं शरणं, किं करणं विफलजीवितव्येन। तत् श्रुत्वेति व्यलपत्, सख्यादिः सकलपरिवारः // 30 // हा किमुपस्थितमेतत्, ! निष्कारणवैरिविधिनियोगेन। हा कुलदेव्यः क्व गताः, यदुदासीनाः स्थिता यूयम्॥३१॥ अथ तत्र प्रत्यूहे, विचक्षणाः कारयन्ति कुलवृद्धाः।