________________ 1346 - अभिधानराजेन्द्रः - भाग 6 वीर स्मीति जानाति, ननु संहियमाणे न जानातीति कथंयुक्तं, संहरणस्य असङ्ख्यसामायिकत्वात्, भगवतश्च विशिष्टज्ञानवत्त्वात्, उच्यते- इदं वाक्य सहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं यथा भगवता ज्ञातमपि अज्ञातमिवाभूत, पीडाऽभावात्, यथा कश्चिद्वदति त्वया मम पादात्तथा कण्टको उद्धृतो यथा मया ज्ञातएव नेति, सौख्यातिशये च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि-'तहिं देवा वंतरिआ वरतरुणीगीअवाइअरवेणं निच्च सुहिअपमुइआ गयं पि कालं न याणति' इत्यादि, तथा च 'साहरिजमाणे वि जाणइ' इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात्, इति मन्तव्यम्। जं रयणिं च णं समणे भगवं महावीरे-देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुञ्छिसि गब्भत्ताए साहरिए, तं रयणिं च णं सादेवाणंदा माहणी सयणिज्जंसि सुत्त जागरा ओहीरमाणी ओहीरमाणी इमेयारूवे उराले० जाव चउद्दसमहासुमिणे तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा, तं जहा, 'गय-'० गाहा // 31 // ज रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिहसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणिं च णं सा तिसला खत्तिआणी तंसि तारिसंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमिअ-घट्ठमटेविचित्तउल्लोअचिल्लियतले मणिरयणपणासि अंधयारे बहुसमसुविभत्तभूमिभागे पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कडझंत धूवमघमघंतगंधुद्धयामिरामे सुगंधवरगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिजंसि सालिंगण वट्टिए उभओ बिध्योअणं उभओ उन्नए मज्झेण य गंभीरे गंगापुलिणवालुआउद्दालसालिसएउअवीअखोमिअदुगुल्लपट्टपमिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुडे सुरम्मे आईणगरूयवूरनवणीअतूलतुल्लफासे सुगंधवरकु सुमचुनसयणो वयारक लिए, पुटवरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी, इमे इयारूवे उराले० जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहा"गय-वसह-सीह अभिसेय-दाम-ससि–दिणयर-झयं-कुंभ। पउमसर सागर-विमा-ण भवण-रयणुचय सिहं च / / 1 / / " 'जरयणिं च णं' यस्यां च रात्रौ 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'देवाणंदाए माहणीए' देवानन्दाया ब्राह्मण्याः 'जालंधरसगुत्ताए' जालन्धरसगोत्रायाः 'कुच्छीओ' कुक्षितः 'तिसलाए खत्तिआणीए' त्रिशलायाः क्षत्रियाण्याः 'वासिट्ठसगुत्ताए' वाशिष्ठगोत्रायाः 'कुञ्छिसि गब्भत्ताए साहरिए' कुक्षिविषये गर्भतया मुक्तः 'तरयणि च ण' तस्यामेव रात्रौ 'सा देवाणंदा माहणी' सा देवानन्दा ब्राह्मणी 'सयणिज्जसि' शय्यायां सुत्तजागरा' सुप्तजागरा 'ओहीरमाणी ओहीरमाणी' अल्पानिद्रां कुर्वती 'इमे एयारूवे उराले' एमान् एतद्रूपान् प्रशस्तान् 'जाव चउद्दस महासुमिणे' यावत् चतुर्दश महास्वप्रान् 'तिसलाए खत्तिआणीए हडे पासित्ताण पडिबुद्धा' त्रिशलाया क्षत्रियाण्या हुता इति दृष्ट्वा जागरिता 'तं जहा' तद्यथा- ‘गयवसह० गाहा' 'गयवसह' इति गाथाऽत्र वाच्या // 31 // ज रयणि च णं' यस्यां च रात्रौ 'समणे भगवं महावीरे' श्रमणो भगवान महावीरः 'देवाणंदाए माहणीए' देवानन्दायाः ब्राहाण्याः 'जालंधरसगुत्ताए' जालन्धरसगोत्रायाः 'कुच्छीओ' कुक्षितः 'तिसलाए' खत्तिआणीए' त्रिशलायाः क्षत्रियाण्याः वासिट्ठसगुत्तए' वासिष्ठसगोत्रायाः 'कुच्छिरिस गडभत्ताए साहरिए' कुक्षौ गर्भतया मुक्तः 'तं रयणिं च णं' तस्यां रजन्यां 'सा तिसला खत्तिआणी सा त्रिसला क्षत्रियाणी 'तसि' तस्मिन् 'तारिसगसि' तादृशे वक्तुमशक्यस्यरूपे महाभाग्यवतां योग्ये 'वासघरंसि' वासगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्ट वासगृहे-- 'अभितरओ सचित्तकम्मे' मध्ये चित्रकर्मरमणीये, पुनः किविशिष्टे'बाहिरओ' बाह्यभागे 'दूमिअ' सुधादिना धवलिते घट्टे' कोमलपाषाणादिना घृष्ट, अत एव 'मढ़े' सुकोमले, पुनः किविशिष्ट-'विचित्तउल्लाअतले' विचित्रो विविधचित्रकलित उल्लोक उपरिभागो यत्र तत्तथा 'विल्लिअतले' देदीप्यमानतलः अधोभागो यत्र तत्तथा कर्मधारये विचित्रोल्लोकचिल्लिततले, पुनः किविशिष्टे- 'मणिरयअपणासिअंधयारे' मणिरत्न-प्रणाशितान्धकारे, पुनः किंविशिष्ट- 'बहुसम' अत्यन्तं समोऽविषमः पञ्चवर्णमणिनिबद्धत्वात् 'सुविभत्त' सुविभक्तः विविधस्वस्तिकादिरचनामनोहरः, एवंविधो 'भूमिभागे 'भूमिभागो 'भूमिगागो यत्र तस्मिन् पुनः किंविशिष्ट-- 'पंचवन्न-सरससुरहिमुफपुप्फपुजोवयारकलिए' पञ्चवर्णेन सरसेन सुरभिणा 'मुक्क' त्ति इतस्ततो विक्षिप्तेन ईदृशेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, पुनः किंविशिष्ट 'कालागुरु' कृष्णागुरु प्रसिद्ध 'पवरकुन्दुरुक्क' विशिष्ट चीडाभिधानं गन्धद्रव्यविशेषः 'तुरुक्क' तुरुष्कं सिलकाभिधानं सुगन्धद्रव्यं 'डज्मंतधूव' दह्यमानो धूपो दशाङ्गादिरनेकसुगन्धद्रव्यसंयोगसमुद्धृतः, एतेषां वस्तुना सम्बन्धियः 'मघमघंत' मघमघायमानोऽतिशयेनगन्धवान् 'गंधुद्धआभिरामे' उद्धतः-प्रकटीभूतः, एवंविधो गन्धस्तेनाभिरामे, पुनः किविशिष्ट... 'सुगंधवरगन्धिए' सुगन्धाः सुरभयो ये वरगन्धाः प्रधानचूर्णानि तेषां गन्धो यत्र तथा तस्मिन्, पुनः किंविशिष्ट– 'गंधवट्टिभूए' गन्धवर्तिर्गन्धद्रव्यगुटिका तत्सदृशेऽतिसुगन्धे इत्यर्थः, एतादृशे वासभवने, अथ'तसि' तस्मिन् 'तारिसगंसि' तादृशे वक्तुम् अशक्यस्वरूपे महाभाग्यवता योग्ये 'सयणिज्जंसि' शयनीये, पल्यड़े इत्यर्थः, इह विशेष्यम्, किंविशिष्टे-'सालिंगणवट्टिए' सालिङ्गनवर्त्तिके आलिङ्गनवर्तिका नाम--शरीर-प्रमाण दीर्घगण्डोपधानं तथा सहिते, पुनः किंविशिष्ट-'उभओ