________________ वीर 1338 - अभिधानराजेन्द्रः - भाग 6 वीर रितया शूरः, यदि वा-यत्किचित् वीर्यवद्रव्यं तद्व्यवीरेऽन्तर्भवति। तद्यथा-तीर्थकृदनन्तबलवीर्यो लोकमलोक कन्दुकवत् प्रक्षेप्तुमलम् / तथा मन्दरं दण्डं कृत्वा रत्नप्रभा पृथिवीं छत्रवद्विभृयात्। तथा चक्रवर्तिनोऽपि बलम् - "दो सोला बत्तीसा" इत्यादि तथा विषादीनां मोहनादिसामर्थ्यमिति। क्षेत्रवीरस्तु यो यस्मिन् क्षेत्रेऽद्भुतकर्मकारी वीरो वा यत्र व्यावय॑त, एवं कालेऽप्यायोज्यम्, भाववीरो यस्य क्रोधमानमायालोभैः परीषहादिभिश्चात्मनो जेता (सूत्र०) "एको परिभमउजए, वियड जिणकेसरी सलीलाए। कंदप्पदुद्द्दाढो, मयणो विड्डारिओ जेण // 3 / / ' तदेवं वर्धमानस्वाम्येव परीषहोपसर्गरनुकूलप्रतिकूलैरपराजितोद्भुतकर्मकारित्वेन गुणनिष्पन्नत्वात् भावतो महावीर इति भण्यते। यदिवा-द्रव्यवीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र-तिष्ठत्य सौ व्यय॑ते वा, कालतोऽप्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन् स च वीरवर्धमानस्वाभ्येवेति। सूत्र० 1 श्रु०६ अ०। 'चञ्चचन्द्रमरीचिचारुरुचिरा विश्वम्भरा राजते, कीर्तिर्विष्टपचन्द्रशेखरशशी शीतांशुशीतत्विषम्। यः शुद्धाशयशुद्धबुद्धिविभवो धीरोधिनोत्युभव, य वीरं नौमि नमत्सुरासुरशिरो घृष्टान्हिविश्वाग्रणीः / / 1 / / " दर्श०१ तत्त्व। "मुक्ताफलमिव करतल-कलितं विश्वं समस्तमपि सततम्। यो वेत्ति विगतकर्मा, स जयति नाथो जिनो वीरः॥१॥" चं० प्र०१ पाहु०। ''जयति णवणलिणकुवलय-वियसियसयपत्तपत्तलदलच्छो। वीरो गइंदमयगल-सुललियगयविक्कमो भयवं / / 1 / / " सूत्र० 1 श्रु०१६ अ०। "नमः शमितनिःशेष कर्मणे वरशर्मणे। श्रीवीराय भवाम्भोधि-लब्धतीराय तायिने 'संथा० षो०। "जयति परिस्फुटविमल-ज्ञानविभावितसमस्तवस्तुगणः। प्रतिहतपरतीर्थिमनाः, श्रीवीरजिनेश्वरो भगवान् / / 1 / / " जी०२ प्रति०। "वन्दे वीरं तपोवीरं, तपसा दुस्तरेण यः। शुद्धं स्वं विदधे स्वर्ण, स्वर्णकार इवाग्निना॥१॥" जीत०। "विष्णोरिव यस्य विभो, पदत्रयी व्यानशे जगन्निखिलम्। शतमखशतकप्रणतः, स श्रीवीरो जिनो जयतु॥१॥" कर्म०५ कर्म०। "जयति विजितान्यतेजाः, सुरासुराधीशसेवितः श्रीमान् / विमलस्त्रासविरहित-स्त्रिलोकचिन्तामणिर्वीरः / / 1 / / " दश०१०॥ ''स्पष्ट चराचरं विश्वं, जानीते यः प्रतिक्षणम्। तस्मै नमो जिनेशाय, श्रीवीराय हितैषिणे।" ज्यो०१ पाहु०। "यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैनित्यं यस्य वचो न दुर्नयकृतैः कोलाहलै प्यते। रागद्वेषमुखद्विषां च परिषत् क्षिप्ता क्षणाद्येन सा' स श्रीवीरविभुर्विधूतकलुषां बुद्धिं विधत्तां मम / / 1 / / " स्या०। (2) श्री वीरजिकथाश्री वीरचरितं वर्णयन्तः श्रीभद्रबाहुस्वामिनो जघन्यमध्यमवाचनात्मक प्रथम सूत्रं रचयन्ति तेणं काले णं ते णं समए णं समणे भगवं महावीरे पंचहत्थुत्तरे होत्था। __ 'तेणं काले णं' तस्मिन् काले- अवसर्पिणी-चतुर्थारकपर्यन्तलक्षणे, णंकारः सर्वत्र वाक्यालंकारार्थः, 'ते णं समए णं निर्विभाज्यः कालविभागः समयस्तस्मिन् समये 'समणे भगवं महावीरे' त्ति श्रमणस्तपोनिरतः, 'भगवं' ति भगवान् अर्कयोनिवर्जितद्वादशभगशब्दार्थवान्, यदाहुः - "भगोऽर्क (1) ज्ञान (2) माहात्म्य (3) यशो (4) वैराग्य (5) मुक्तिषु (6) / रूप (7) वीर्य (8) प्रयत्ने (६)च्छा (10) श्री (11) धर्मे (12) श्वर्य (13) योनिषु (14) // 1 // " अत्र आद्यान्त्यौ अथौ वर्जनीयौ। ननु अन्त्योऽर्थस्तु वर्ण्य एव, परमर्कः कथं वयः? सत्यम्, उपमानतया अर्को भवति, परं वत्प्रत्ययान्तत्वेन अर्कवान इत्यर्थो न लगतीति वर्जितः, 'महावीरे' त्ति कर्मवैरिपराभवसमर्थः, श्रीवर्धमानस्वामीत्यर्थः / ('पंचहत्थुत्तरे होत्था' एतद्व्याख्या 'कल्लाणग' शब्दे तृतीयभागे 384 पृष्ठे गता।) (कल्प०)। कल्याणकानि पञ्चैवतं जहा- हत्थुत्तराहिं चुए चइत्ता गब्भं वकंते, हत्थुत्तराहिं गब्भाओ गब्भं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भवत्तिा अगाराओ अणगारियं पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्डे केवलवरनाणदंसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं / (सू०१४) "तं जह' ति तद्यथा-पञ्चहस्तोत्तरत्वं भगवतो मध्यमवाचनया दर्शयति- 'हत्थुत्तराहिं चुए' ति उत्तराफाल्गुनीषु च्युतो देवलोकात् 'चइता गब्भं वक्कते' ति च्युत्वा गर्भे उत्पन्नः / 'हत्थुत्तराहिं गडभाओ गब्भं साहरिए'त्ति उत्तराफाल्गुनीषुगर्भात् गर्भ संहृतः, देवानन्दागर्भात्रिशलागर्भ मुक्त इत्यर्थः / 'हत्थुत्तराहिं जाए' त्ति उत्तराफाल्गुनीषु जातः 'हत्थुत्तराहि मुंडे भवित्ता अगाराओ अणगारिअंपव्यइए' ति उत्तराफाल्गुनीषु मुण्डो भूत्वा तत्र द्रव्यतो मुण्डः केशलु चनेन, भावतो मुण्डः रागद्वेषाऽभावेन, अगारात्-गृहात् निष्क्रम्येति शेषः, अनगारितांसाधुता 'पव्वइए' त्ति प्रतिपन्नः, तथा - 'हत्थुत्तराहिं' ति उत्तराफाल्गुनीषु 'अणन्ते' ति अनन्तम्-अनन्तवस्तुविषयम् 'अणुत्तरे' त्ति नियाघात - भित्तिकटादिभिरस्खलितं 'निरावरणे' ति समस्ताऽऽवरणरहित 'कसि णे' त्ति कृत्स्नं सर्वपर्यायोपेतवस्तुज्ञापकं पडिपुण्णे' त्ति परिपूर्ण सर्वावयवसंपन्नम्, एवंविधं यत् वर-प्रधानं 'केवल वरनाणदंसणसमुत्पन्ने' त्ति केवलज्ञानं केवलदर्शन च / तत उत्तराफाल्गुनीषु प्राप्तः, 'साइण्णा परिनिव्वुए भयवं' ति स्वातिनक्षत्रे मोक्षं गतो भगवान्।