________________ वीयराग 1335 - अभिधानराजेन्द्रः - भाग 6 वीयराग तथाहि-न सवात्मना अर्थेन सह सारूप्यं सर्यात्मनार्थेन सह सारूप्ये ज्ञानस्य जडरूपताप्रसक्तेः, अन्यथा सर्वात्मना सारूप्ययोगात्, नाप्येकदेशेन, सर्वस्य सर्वार्थपरिच्छेदकत्वप्रसङ्गात, सर्वस्यापेि ज्ञानस्य रावैरपि वस्तुभिः सह केनचिदंशेनानन्तः प्रमेयत्वादिना सारूप्यसम्भवात्, आह च भवदाचार्योऽपि धर्मकीर्तिनिनयप्रस्थाने - "सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां व्रजेत्। साम्ये केनचिदशेन, सर्व सर्वस्य वेदनम्।।१।।" न च सारूप्यादर्थपरिच्छेदव्यवस्थिता-दर्थसाक्षात्कारो भवति, परमार्थतोऽर्थस्य परोक्षत्वात्, ततो योऽयं प्रतिप्राणिप्रसिद्धः सकलैरपीन्द्रियैर्यथायोगमर्थसाक्षात्कारो यच गुरूपदेशश्रवणं शास्वनिरीक्षण वा यद्वशात्तत्वं ज्ञात्वा मोक्षाय प्रवृत्तिः तत्सर्वमेकान्तिकक्षणिकपक्षाभ्युपगमे विरुध्यते स्यादतत्-परमार्थत एतदेव, तथाहिन ज्ञानं कस्यचित् पच्छेिदकम् , उक्तनीत्या ग्राहकत्वायोगात्, नाऽपि तत् कस्यचित्परिच्छेद्यं, तत्रापि ग्राह्यग्राहकत्वायोगात्, ततो ग्राह्यग्राहकाकारातिरिक्त ज्ञानमेव केवलं स्वसविदितरूपत्वातस्वयं प्रकाशते, तेन्गद्वैतमव तत्त्वम्, यस्तु तर्थाथनिश्चयादिको व्यवहारः सोऽनादिकालसंलीनवासनापरिपाकसम्पादितो द्रष्टव्यः, तदप्ययुक्तम् , वासनाया अपि विचार्यमाणाया अघटमानत्वात्, तथाहि-सा वासना असती, सती वा ? न तावदसती, असतः खरविषाणस्येव सकलोपाख्याविकलतया तथा तथाऽर्थ-प्रतिभासहेतुत्वायोगाद्, अथ सती तर्हि सा ज्ञाना व्यत्यरेक्षीत् नवा?, व्यत्यरेक्षीदद्वैतहानिः, द्वयस्याभ्युपमाद, अपि च सा ज्ञानाद् व्यतिरिक्ता सती एकरूपा वा स्यादनेकरूपा वा ? न तावदेकरूपा एकरूपत्वे तस्या नीलपीताद्यनेकप्रतिभासहेतुत्वायोगात, स्वभावभेदेन विना भिन्नभिन्नार्थक्रियाकरणविरोधात्, अथानेका तर्हि नामान्तरेणार्थ एव प्रतिपन्नः, तथाहि-सा वासना ज्ञानाद्व्यतिरिक्ता, अनेकरूपाच, अर्थोऽप्यवरूप एवेति, अथाव्यतिरिक्ता सापि च पूर्वविज्ञानजनिता विशिष्ट ज्ञानान्तरोत्पादनसमर्था शक्तिः, आह च प्रज्ञाकरगुप्तः - "वासनेति हि पूर्वविज्ञातजनितांशक्तिमामनन्ति वासनास्वरूपविदः" एवं तर्हि पूर्वपूर्वविज्ञानजनिताः कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानोत्पादनसमर्थाः शक्तयोऽनेकाः प्रबन्धेनानुवर्तमानाः तिष्ठन्ति, तत एकस्मिन्नपि ज्ञानक्षणेऽने का वासनाः सन्ति, शक्तीनामेव वासनात्वेनाभ्युपगमात्, तासा च ज्ञानक्षणादव्यतिरेकादेकरयाः प्रबोधे सर्वासामपि प्रबोधः प्रात्नोति, अन्यथा व्यतिरेकायोगात्, ततो युगपदनन्तविज्ञानानामुदयप्रसङ्गः स चायुक्तः, प्रत्यक्षबाधितत्वात् / अन्यच -ज्ञाने विनश्यति तदन्यतिरेकात्ता अपि निरन्वयमेव विनष्टाः, ततः कथं तत्सामर्थ्यात्कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानान्तरप्रसूतिः / , स्यादेतत्-पूर्वभव विज्ञानं पाटवाधिष्ठितं, वासनातजनिता शक्तिः, उत्कदोषप्रशङ्गात् तच पूर्व विज्ञानं किञ्चिदनन्तरंतथा तथा विशिष्ट ज्ञानं जनयति, किश्चित् कालान्तरे, यथा जाग्रद्दशाभाविज्ञान स्थप्नज्ञानं, न च व्यवहितादुत्पत्तिरसम्भाव्या, दृष्टत्वात्, लथाहि- अनुभवाचिरकालातीतादपि स्मृतिरुदयमा-सादयन्ती दृश्यते, तदप्युक्तम् , तत्राप्युक्तदोषानतिक्रमात, यदि पूर्वविज्ञानं निरन्वयमेव विनष्टं न तस्य कोऽपि धर्मः क्षणान्तरेऽनुगच्छति, ततः कथं ततोऽनन्तरं कालान्तरे वा विशिष्ट ज्ञानमुदयते? एवं हि तन्निर्हे तुकमेव परमार्थतो भवेत्। अथ पूर्व विज्ञान प्रतीत्य तदुत्पद्यते तत्कथं तन्निर्हेतुकम् ? क्रीडनशीलो देवानां प्रियो यदेवमेवाऽस्मान् पुनः पुनरायासयति, ननु यदा यत्पूर्व विज्ञानं न तदा तद्विशिष्ट ज्ञानमुपजायते यदा च तदुपजायते न तदा पूर्वविज्ञानस्य लेशोऽपि तत्कथं तन्न निर्हेतुकम् ? यदप्युक्तन् - 'किञ्चित्कालान्तरे' इति, तदपि न्यायबाह्य, चिरविनष्टस्य कार्यकरणायोगाद्, अन्यथा चिरविनष्टेऽपि शिखिनि केकायितं भवेत्, ननु चिरविनष्टादप्यनुभवात् स्मृतिरुदयमा-सादयन्ती दृश्यते, नच दृष्टऽनुपपन्नता, तद्वत्ज्ञानान्तरमपि भविष्यति को दोषः ? उच्यते-दृश्यते चिरविनष्टादप्यनुभवात् स्मृतिः, केवलं साऽपि भवन्मतेन नोपपद्यते, तत्राप्युक्तदोषप्रङ्गात्, ततोऽयमपरो भवतो दोषः, न च दृष्टमित्येव यथा कथञ्चित्परिकल्पनामधिसहते, किन्तु-प्रमाणोपपन्नं तत्र यथा भवत्परिकल्पना तथा न किमप्युपपद्यते, ततोऽवश्यमन्वयि ज्ञानमभ्युपगन्तव्यम्, तथा च सति न कश्चिद्दोषः, सर्वस्यापि स्मृत्यादरुपपद्यमानत्वात्, तथाहि- अनुभवेन पटीयसाऽविच्युतिरूपधारणासहितेनात्मनि वासनाऽपरपर्यायः संस्कार आधीयते, स च यावदवतिष्ठते तावत्तादृशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्काराऽभावे तु न, ततोऽन्वयिज्ञानाभ्युपगमे परमार्थतोऽनुसन्धातुरे कस्याभ्युपगमात्कार्यकारणभावावगमो निखिलजगददुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते तन्न नैरात्म्यादिभावना रागादिक्लेशप्रहाणि.. हेतुः, तस्या मिथ्यारूपत्वात्। यदपि च उक्तम्-आत्मनि परमार्थतया विद्यमाने तत्र रनेहः प्रवर्त्तत इति तत्राचीनावस्थायामेतदिष्यत एव. अन्यथा मोक्षायाऽपि प्रवृत्त्यनुपपत्तेः, तथाहि- यत एवात्मनिस्नेहः तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्नः, तत्र संसारे सर्वत्रापि दुःखमेव केवल म्, तथाहि नरकगतौ कुन्ताग्रभेदकरपत्रशिरः पाटनशूलारोपकुम्भिपाकासिपत्रवनकृतकर्णनासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारं दुःखमेव निरन्तरं नाक्षिनिमीलनमात्रमपि तत्र सुखम्, निर्यग्गतावपि अड्कुशकशाभिघातप्राजनकतोदनवधबन्धरोगक्षुत्पिपासादिप्रभनमनेक दु:खम्, मनुष्यगतावपि परप्रेषगुप्तिगृहप्रवेशधनबन्धुवियोगानिष्टसम्प्रयोगरोगादिजनितं विविधमनेक दुःखम्, देवगतावपि च परगतिविशिष्टद्युतिविभवदर्शनात् मात्सर्यमात्मनितद्विहीन विषादःच्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाग नावियोगजमनिष्टजन्मसन्ताप वाऽवेक्षमाणस्य तप्तायोभाजननिक्षिप्तशफरादप्यधिकतरं दुःखम्, यदपि च-मनुष्यगतौ देवगतो वा किमप्यापातरमणीयं कियत्कालभावि विषयोपभोगसुखं तदपि विषसम्मिश्रभोजनसुखमिवपर्यन्तदारुणत्वादतीव विदुषामनुषादेयम्, तन्न संसृतौ क्वापि विदुषामास्थोपनिबन्धो युक्तः। यत्तु निःश्रेयसपदमधि-रूढस्य सुखं तत्परमानन्दरूपमपर्यवसान च, तच्च प्रायो युक्तिलेशेन प्रागेवोपदर्शितम्, आगमतोवाऽनुसतव्यम्, (नं०) (आगमप्रमाणबलाद्धि सकलमपि परलोकाऽऽदिस्वरूपं यथा-वदवगम्यते, इति आगम' शब्दे द्वितीयभागे७८ पृष्ठे उक्तम्।) तत आगमबलादुक्तस्वरूपमोक्षसुखमवेत्य तत्राऽऽगमे सर्वा