SearchBrowseAboutContactDonate
Page Preview
Page 1358
Loading...
Download File
Download File
Page Text
________________ वीयराग 1334 - अमिधानराजेन्द्रः - भाग 6 वीयराग नमो नतनतेभ्यः: देवर्षिवन्दितेभ्य इत्यर्थः / केम्यः ? इत्याहपमगुरुवीतरागेभ्य इति यावत् / नमः शेषनमस्काराहे भ्य आचार्यादिभ्यो गुणाधिकेभ्य इति भावः / जयतु सर्वज्ञशासनं, कुतीर्थापोहेन / परमसम्बोधिना वरबोधिलाभरूपेण सुखिनो भवन्तु, मिथ्यात्वदोषनिवृत्त्या जीवाः- प्राणिन इति अस्य वारत्रयं पाटः। पं० सू०१ सूत्र। प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न, वदनकमलमङ्कः कामिनीसङ्गशून्यः / करयुगमपि यत्ते शस्त्रसंबन्धवन्द्यं, तदसि जगति देवो वीतरागस्त्वमेव 1411' प्राले०। (वीतरागत्व सिद्धिः 'जिण' शब्दे चतुर्थभागे 1460 पृष्ठ चिरतरतो दर्शिता) अवशिष्टा 'आता' शब्दे द्वितीयभागे 211 पृष्ठे दशिता गतोऽवशिष्टा पुनस्त्र दर्श्यते-स्यादेतत् न कश्चिदन्यः क्षणेभ्यः सन्तानः, किन्तु य एव कार्यकारणभावप्र बन्धेन क्षणानां भावः स एव सन्तानः, ततो न कश्चिद्दोषः, तदप्ययुक्तम्, भवन्मते कार्यकारणभावस्याप्यय मानत्वात्, तथाहि-प्रतीत्य समुत्पादमात्र कार्यकारणभावः तता यथा विवक्षितघटत-क्षणानन्तरं घटक्षणः तथा पटादिक्षणोऽपि, यथा च घलक्षणात प्रागनन्तरो विवक्षितो घटक्षणः तथा पटादिक्षणा अपि, ततः कथं प्रतिनियतकार्यकारणभावावगमः?, किच-कारणादुपजायभानं कार्य सतो वा जायेत असतो वा ? यदि सतः तर्हि कार्योत्पत्तिकालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रसङ्गः न च समकालयोः कार्यकारणभाव इष्यते, मात्रपत्याद्यविशेषाद्, घटपटादीनामपि परस्पर कार्यकारणभावप्रसङ्गः, अथाऽसत इति पक्षः, तदप्ययुक्तम्, असतः कार्यो त्पादायोगत्, अन्यथा खरविषाणादपि तदुत्पत्तिप्रसक्तेः, न चात्यऽन्ता भावप्रध्वंसाभावयोः कोऽपि विशेषः, उभयत्रापि वस्तुसत्त्वाभावात, प्रध्वंसाभावे वस्त्वासीत् तेन हेतुरिति चेत् यदाऽसीत् तदा न हेतुः अन्यदा च हेतुरिति साध्वी तत्त्वव्यवस्थितिः। अन्यच्च तद्भावे भाव इत्यवगमे कार्यकारणभावावगमः स च तद्भावे भावः कि प्रत्यक्षेण प्रतीयते उतानुमानेन ?न तावत्प्रत्यक्षेण पूर्ववस्तुगतेन हि प्रत्यक्षेण पूर्व वस्तु परिच्छि नमुत्तरवस्तुगतेन तूत्तरं, न चैते परस्परस्वरूपमवगच्छतो, नाप्यन्योऽनुसन्धाता, कश्चिदेकोऽभ्युपगम्यते, तत एतदनन्तरमेतस्य भाव इति कथमवगमः ? नाप्यनुमानेन, तस्य प्रत्यक्षपूर्वकत्वात्, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवर्तते, लिङ्ग लिङ्गिसम्बन्धश्च प्रत्यक्षेण ग्राह्यो नानुमानेन अनुमानेन ग्रहणेऽनवस्थाप्रसक्तेः, न च कार्यकारणभावविषये प्रत्यक्ष प्रावर्तिष्ट ततः कथं तत्रानुमानवत्तिः ? एवं ज्ञानक्षणयोरपि परस्परं कार्यकारणभावावगमः प्रत्यस्तो वेदितव्यः, तत्रापि स्वेन स्वेन संवेदनेन स्वस्य स्वस्य रूपस्य ग्रहणे परस्परस्वरूपानवधारणादेतदनन्तरमहमुत्पन्नमेतस्य चाहं जनकमित्यनवगतेः, तन्न भवन्मतेन कार्यकारणभावो, नापि तदवगमः, ततो याचित-कमण्डनमेतिप - एकसन्ततिपत्वादेकाधिकरणं वन्धमोक्षादिकमिति / एतेन पदच्यते-उपादेयोपादानक्षणानां परस्परं वास्यवासकभावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम्, उपादानोपादेयभावस्थैवोतनीस्याऽनुपपद्यमानत्वात्, योऽपि च वास्य वासकभाव उक्तः, सोऽपि युगपद्धाविनामेवोपलभ्यते, यथा तिलकुसुमानाम्, उक्त चान्यैरपि - "अवस्थिता हि वास्यन्ते, भावा भावैरवास्यतैः " तत्कथमुपादेयोपादानक्षणयोर्यास्यवासकभावः ? परस्परमसाहित्यात्, उक्तं च - ''वास्यवासकयोश्चैव-मसाहित्यान्न वासना। पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरःक्षणः / / 1 / / उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना / / " अपि च-वासना वासकाद्भिन्ना वा स्यादभिन्ना वा ? यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति, वस्त्वन्तरवद्, अथाऽभिन्ना तहि न वास्ये वासनायाः संक्रान्तिः तदभिन्नत्वात्, तत्स्वरूपवत्, संक्रान्तिश्चेत्तर्हि अन्वयप्रसङ्ग इति यत्किञ्चिदेतत् / यदप्ययुक्तसकलमपि जगद्रागद्वेषादिदुःखसंकुलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखदुद्धर्तव्यमित्यादि, तदपि पूर्वापरासंबद्धबन्धकीभाषितमिय केवलधाष्टर्यसूचकं, यतो भवन्मतेन क्षणा एव पूर्वापरक्षणत्रुटितानुगमाः परमार्थसन्तः, क्षणानां चावस्थानकालमानभेकपरमाणुव्यत्रिमात्रम्, अत एवोत्पत्तिव्यतिरेकेण नान्या तेषां क्रिया सङ्गतिमुपपद्यत, 'भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते' इति वचनात्, ततो ज्ञानक्षणानामुत्पत्त्यनन्तरं न मनागप्यवस्थानं नापि पूर्वापरक्षणाभ्यामनुगमः, तस्मान्न तेषां परस्परस्वरूपावद्यारण, नाप्युत्पत्त्यनन्तरं कोऽपि व्यापारः, ततः कथमर्थोऽयं मे पुरः साक्षात्प्रतिभासते इत्येवमर्थनिश्चयमात्रमप्यनेकक्षणसम्भवि अनुस्यूतमुपपद्यते ? तदभावाच्च कुतः सकलजगतो रागद्वेषादिदुःखसकुलतया परिभावनम् ? कुतो वा दीर्घतरकालानुसन्धानेन शास्त्रार्थचिन्तनम् ? यत्प्रभावतः सम्यगुपायमभिज्ञाय कृपाविशेषात् मोक्षाय घटनं भवेदिति। ननु सर्वोऽय व्यवहारो ज्ञानक्षणसन्तत्यपेक्षया, नैकक्षणमधिकृत्य, तत्केयमनुपपत्तिरुद्भाव्यते ? उच्यते - सुकुमारप्रज्ञो देवानाप्रियः, सदैव सप्तघटिकामध्यमिष्टान्नभोजनमनोज्ञशयनीयशयनाभ्यासेन सुखैधितो न वस्तुयाथात्म्यावगमे चित्तपरिक्लेशमधिसहते, तेनास्माभिरुक्तमपि न सम्यगवधारयसि, ननुज्ञानक्षणसन्ततावपि तदवस्थैवानुपपत्तिः, तथाहि-वैकल्पिका अवैकल्पिका था ज्ञानक्षणाः परस्परमनुगमाभावादविदितपरस्परस्वरूपाः,नच क्षणादूद्ज़मवतिष्ठन्ते, ततः कथमेष पूर्वापरानुसंधानरूपो दीर्धकालिकः सकलजगदुःखितापरिभावनशास्त्रविमर्शादिरूपो व्यवहार उपपद्यते ? अक्षिणी निमील्य परिभाव्यतामेतत्, यदप्युच्यते स्वग्रन्थेषुनिर्विकल्पकमकारमुत्पन्नं पूर्वदर्शनाहितवासनाप्रबोधात्तं विकल्पं जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थनिश्चयादिव्यवहारः प्रवर्त्तते, तदप्येतेनापाकृतमवसेयं, यतो विकल्पोऽप्यनेकक्षणात्मकः, ततो विकल्पेऽपि यत्पूर्वक्षणे वृत्तं तदपरक्षणो न वेत्ति, यच्चापरक्षणे वृत्तं न तत्पूर्वक्षणः, ततः कथमेष दीर्घकालिकोऽनुस्यूतकरूपतया प्रतीयमानोऽर्थनिश्चयादिव्यवहारो घटते ? अपि च - भवन्मतेन ज्ञानस्यार्थपरिच्छेदव्यवस्थाऽपि नोपपद्यते, अर्थभावे ज्ञानस्योत्पादाद्, अर्थकार्यतया तस्याभ्युपगमात्, 'नाकारण विषयं' इति वचनात्, न च वाच्यं तत उत्पन्नमिति तस्य परिच्छेदकम्, इन्द्रियस्याप्यर्थवत्परिच्छेदप्रसक्तेः ततोऽप्युत्पादात्, तदभावेऽभावात्। नाऽपि सारूप्यात्, सर्वस्यापि सर्वदेशविकल्पाभ्यामयोगात्
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy