________________ वीयराग 1333 - अभिधानराजेन्द्रः - भाग 6 वीयराग संविग्रः सन् यथाशक्ति किम् ? इत्याह-सेवे सुकृतम् एतदेवाह - अनुमादेऽहमिति प्रक्रमः / सवेषामर्हताम् अनुष्ठानं धर्मकथादि। एवं सर्वेषां सिद्धानां सिद्धभावम्-अव्याबाधादिरूपम् / एवं सर्वेषामाचार्याणाम् आधार ज्ञानाचारादिलक्षणम / एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवत / एवं सर्वेषां साधूना साधुक्रिया सत्स्वाध्यायादिरूपाम्। एवं सर्वेषा श्रावकाणां मोक्षसाधनयोगान् वैयावृत्त्यादीन् / एवं सर्वेषां देवानाम् - इन्द्रादीनाम्; सर्वेषां जीवानाम्, सामान्येनैव भवितुकामा-नामासन्नभव्यानां, कल्याणाऽऽशयाना-शुद्धाशयानाम् एतेषाम्। किं ? इत्याहमार्गसाधनयोगान सामान्येन कुशलव्यापाराननुमोदे, इति क्रियानुवृत्तिः / भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाभ्युपगमात्। अनभिग्रहे सति प्रणिधिशुद्धिमाह - होउ मे एसा अणुमोअणा। सम्मं विहिपुविआ, सम्मंसुद्धाऽऽसया, सम्म पडिवत्तिरूवा, सम्म निरइआरा / परमगुणजुत्तअरहंताइसामत्थओ अचिंतसत्तिजुत्ता हि ते भगवंतो वीअरागा सव्वणू परमकल्लाणा पमकल्लाणहेऊ सत्ताणं मूढे अम्हि पावे अणाइमोहवासिए अणभिन्ने भावओ हिआऽहिआणं अभिन्ने सिआ अहिअनिवित्ते सिआ हिअपवित्ते सिआ आराहगे सिआ उचिअपडिवत्तीए सव्वसत्ताणं सहि-अंति / इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्क(क)डं / भवतु ममेषाऽनुमोदना अनन्तरोक्ता / सम्यवग्विधिपूर्विका, सूत्रानुसारेण / सम्यक् शुद्धाशया, कर्मविगमेन / सम्यक् प्रतिपत्तिरूपा, क्रियारूपेण / सम्यग्निरतिचारा, सन्निर्वहणेनाको भवतु ? इत्याह-परमगुणयुक्तार्हदादिसामर्थ्यतः / आदिशब्दात्सिद्धादिपरिग्रहः / प्रार्थनायाः सविषयतामाह-अचिन्त्यशक्तियुक्ता हिते भगवन्तोऽर्हदादयः, वीतरागाः सर्वज्ञाः प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानं तद्विशेषापेक्ष त्वाह-परमकल्याणा आचार्यादयोऽपि परमकल्याणहेतवः सत्यानां तैस्तैरुपायैः सर्वएवैते मूढश्चास्मिघाप एतेषां विशिष्टानांप्रतिपत्तिं प्रति / अनादिमोहवासितः संसारानादित्वेन / अनभिज्ञो भावतः परमार्थतः। हिता-हितयोरभिज्ञः स्यामहमेतत्सामर्थ्येन। तथा अहितनिवृत्तः स्या, तथा हितप्रवत्तः स्याम्। एवमाराधकः स्यामुचितप्रतिपत्या, सर्वसत्त्वानां सम्बन्धिन्या / किम् ? इत्याह - स्वहितमिति / इच्छामि सुकृतम् एवं वारत्रयं पाठः / उत्तममेतत्सुकृताऽऽसेवनम्, विशेषतः पृथग्गतानां वनच्छेत्तृबलदेवमृगोदाहरणात् परिभावनीयम्। सूत्रपाठे फलमाहएवमेअं सम्म पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवंति परिहायंति खिजंति असुहकम्माणु बंधा / निरणुबंदे वा असुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्धेऽवि अविसे अप्पफले सिआ सुहावणिजे सिआ अपुणभावे सिआ। एवमेत्सूत्रं सम्यक् पठतः संवेगसारं, तथा शृण्वतःआकर्णयतः अन्यसमीपात्, तथाऽनुपेक्षमाणस्य अर्थानुस्मरणद्वारेण / किम् ? इत्याह - श्लथीभवन्ति, मन्दविपासतया / तथा परिहीयन्ते, पुद्गलापसरणेन। तथा क्षीयन्ते निर्मूलत एवाशयविशेषाभ्यासद्वारेण / के ? इत्याह.. अशुभकर्मानुबन्धाभाव-रूपाः। कर्मविशेषरूपावा। ततः किम् ? इत्याहनिरनुबन्धं वाऽशुभकर्म यच्छेषमास्ते। भनसामर्थ्य विपकप्रवाहमङ्गीकृत्य शुभपरिणामेनानन्तरोदित सूत्रप्रभवेन किमिव ? इत्याह - कटकबद्धमिव विष मन्त्रसामर्थ्येनाल्पफलं स्यात; अल्पविपाकमित्यर्थः / तथा सुखापनेयं स्यात्, सम्पूर्णस्वरूपेणैवा तथा अपुनर्भावस्यात्कर्म, पुनस्तथाऽबन्धकत्वेन एवमपायपरिहारः फलत्वेनोक्तः / इदानी रादुपायसिद्धिलक्षणमेतदभिधातुमाहतहा आसगलिजंति परिपोसिज्जंति निम्मविज्जं ति सुहकम्माणुबंधा / साणुबंधं च सुहकम्मं पगिहँ पगिट्ठभावज्जिअं नियमफलयं सुप्पउत्ते (व्व) विअमहाऽगए सुहफले सिआ सुहपवत्तगे सिआ परमसुहसाहगे सिआ अपडिबंधमेअं असुहभावनिरोहेणं सुहभावबीअंति सुप्पणिहाणं सम्मं पढिअव्वं सम्म सोअव्वं अणुप्पेहिअव्वं ति। तथा आ सकलीक्रियन्ते; आक्षिप्यन्ते इत्यर्थः / तथा परिपोष्यन्ते, भावोपचयेन / तथा निर्माप्यन्ते परिसमाप्ति नीयन्ते / के ? इत्याह - कुशलकर्मानुबन्धा इति भावः / ततः किम् ? इत्याह - सानुबन्धं च शुभकर्म, आत्यन्तिकानुबन्धापेक्षम् / कि विशिष्टम् किम् ? इत्याह -- प्रकृष्ट-प्रधान प्रकृष्टभावार्जितं-शुभभावार्जितमित्यर्थः / नियमफलद, प्रकृष्टत्वेनैव / तदेवंभूतं किम् ? इत्याह-सुप्रयुक्त इव महाऽगदाः एकान्तकल्याणः शुभफलं स्यादनन्तरोदितं कर्म / तथा शुभप्रवर्तक स्यादनुबन्धेन / एवं परमसुखसाधकं स्यात् पारम्पर्येण, निर्वाणावहमित्यर्थः / यत एवम्, अतोऽस्मात्कारणात् अप्रतिबन्धम् एतत् प्रतिबन्धरहितम्, अनिदानमित्यर्थः / अशुभभावनिरोधेन - अशुभानुबन्धनिरोधनेत्यर्थः / शुभभावनाबीजमिति कृत्वैतत्सूत्रं सुप्रणिधानं शोभनेन प्रणिधानेन सम्यक् प्रशान्तात्मना पठितव्यम् अध्येतव्यम् / श्रोतव्यमन्वाख्यानविधिना। अनुप्रेक्षितव्यं-परिभावनीयमिति ।नच,"होउमे एसा अणुमोदना सम्म विहिपुब्विगा'" इत्यादिना निदानपदमेतदिति मन्तव्यम्। क्लिष्टकर्मबन्धहेतोर्भवानुबन्धिनः संवेगशून्यस्य महर्द्धिभोगगृद्धायध्यवसानस्य निदानत्वात्। अस्य च तल्लक्षणायोगात्। अनीदृशस्य चानिदानत्वात्। आरोग्यप्रार्थनादेरपि निदानत्वप्रसङ्गात् / तथा चागमविरोधः -"आरुग्गबोधिलाभ, समाधिवरमुत्तमं देंतु / इत्यादिवचनश्रवणादित्यलं प्रसङ्गेन। सूत्रपरिसमाप्ताववसानमङ्गलमाहनमो नमिअनमिआणं परमगुरुवीअरागाणं / नमो सेसनमुकारारिहाणं / जयउ सवण्णुसासणं / परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा इति /