________________ विहार 1326 - अभिधानराजेन्द्रः - भाग 6 विहार जना--सट्टना-कर्तव्या। प्रतिहारिच द्वारमूले स्वपिति, मध्ये सर्वमध्यवर्तिनी प्रवर्तिनी भवति। निक्खमणपिडियाणं, अग्गद्दारे य होइ पडिहारी। दारे पवित्तिणी सा-रणा य फिडिताण जयणाए।१०८०।। रात्री विचारभूमौ निष्क्रमणं पिण्डिताना-समुदिताना, त्रिचतुःषष्ठ प्रभृतीनामित्यर्थः, प्रतिहारी द्वारं समुद्घाट्य प्रथमत एवागद्वारे तिष्ठति / प्रवर्तिनी पुनद्वरि स्थिता संयती यदा प्रविशति तां शिरसि कपोलयोर्वक्षसि च स्पृष्ट्वा प्रवेशयति / याश्च तत्र स्फिटिता द्वारविप्रनष्टा इतस्ततः परिभ्रमन्ति तासां यतनया यथा अप्रीतिक न भवति तथा स्मारणा कर्तव्या / आर्ये ! इहाऽऽगच्छ, इतो न भवति द्वारम् / अथ द्वितीयपदमाहबिइयपदें गिलाणाए, तु कारणा अहव होज एगागी। आगाढ़े कारणम्मि, गिहिणीसाए वसंतीणं / / 1081 / / द्वितीयपदे ग्लानायाः संयत्याः कारणादेकाकिन्यपि विचारभूमौ गच्छेत्, कथमिति चेदुच्यते-इह प्रवर्तिनी यदा आत्मतृतीया भवति. तत्राऽप्येका ग्लानायाः पार्श्वे तिष्ठति, द्वितीया तु निवेद्य निर्गच्छति / अथवा-सा अशिवादिभिः कारणैरेकाकिनी भवेत, तत्र चागाढे-आत्यन्तिके कारणे गृहनिश्रया वसन्तीनामे-काकिनीनां विधिरभिधीयते। एगा उ कारणठिया, अविकारकुलेसु इत्थिबहुलेसु / तुज्झ वसाऽहं णीसा, अज्जा सेज्जातरं भणति // 1052 / / एका आर्थिका कारणेन पुष्टालम्बनेनाऽविकारकुलेषुहास्यादिविकारविरहितेषु स्वीबहुलेषु स्थिता सती शय्यातरमित्थं भणति-अहं युष्मन्निश्रया वसामि, ये च मम किञ्चित् क्षणमायान्ति तत्राऽहं भवद्भिः स्मारणीया। इदमेव स्फुटतरमाहअपुव्यपुंसे अवि देहमाणी, वारेसि धूताऽऽदि जहेव भज्ज / तहाऽवरहेसु ममं पिपेक्ख, जीवो पमादी किमु जो ऽवलाणं // 1083 // भो श्रावक ! यथा त्वमपूर्वपुंसोऽदृष्टपूर्वपुरुषान् पश्यन्तीमपि आस्ता तैः सह संभाषणादि कुर्वाणामित्यपिशब्दार्थः, दुहितरम्, आदिशब्दाद्भगिनीप्रभृतिका भार्या वा यथा वारयसि तथा-ऽपराधेषु स्खलितेषुअनुचितसन्दर्शनादिषु मामपि प्रेक्षस्व अहमपि तथैव वारणीया। यतो जीवः सर्वोऽपि प्रायः प्रमादी-अनादिभवाभ्यस्तप्रमादबहुलः किं पुनर्योऽबलानां-स्त्रीणां सम्बन्धी, स चपलस्वभावतया सुतरां प्रमादीति भावः। पायं सकजग्गहणा ऽलसेयं, बुद्धी परत्थेसु अजागरूका। तमाउरो पस्सति णेहकत्ता, दोसं उदासीणजणो तहं तु / / 1054|| येयं प्रतिप्राणिस्वसंवेदनप्रत्यक्षा बुद्धिः सा प्रायः स्व-स्वकीय यत्कार्य हिताऽहितप्रवृत्तिरूप निवृत्तिरूपं वा तद्ग्रहणे तत्परिच्छदे अलसा-जडा, परार्थेषु तु-परप्रयोजनेषु जागरूका-जाग-रणशीलाः अत एव तद्दोषमिह-जीवलोके कर्ता-आत्मीय-कार्यसाधको जनः आतुर-उत्सुकः सन्न पश्यति, यकं दोषमुदासीनजनो-मध्यस्थलोकः तटस्थः पश्यति, अतोऽहं भवतां पाादात्मानमहितेषु वर्तमान निवारवामीति प्रक्रमः / तेणिच्छिए तस्स जहिं अगम्मा, वसंति णारीउ तहिं वसेज्जा। ता बेति रत्तिं सह तुज्झ णीहिं, अणिच्छमाणीसु बिभेमि बेति // 1085 / / एवमुक्ते सति यद्यसौ श्रावक इति तदुक्तं प्रतिपद्यते तदा तस्य-शय्यातरस्य यत्रागम्या-माताभगिनीप्रभृतयो नार्यो वसन्ति तत्र सा एकाकिनी संयती वसेत् / ताश्च स्त्रियो ब्रूते, रात्रौ युष्माभिः सह कायिकाद्यर्थ निर्गमिष्यामि, अतो यदा भवत्य उत्तिष्ठन्ते तदा मामप्युत्थापयत / यदि ता नेच्छन्ति ततोऽहं रात्रावेकाकिनी निर्गच्छन्ती बिभेमि एत्येव ब्रवीति / एवमप्युक्ता यदि ता द्वितीया नाऽऽगच्छन्ति। तदा किं कर्त्तव्यमित्याहमत्तासईए अपवत्तणे वा, सागारिए वा निसि णिक्खमंती। तासिं णिवेदेतु ससइदंडा, अतीति वा णीति व साधुधम्मा ! // 1086 // मात्रके कायिकी व्युत्सर्जनीया। अथ मात्रकं नास्ति, यदा-तस्या मात्रके कायिक्याः प्रवर्तमाने गमनं न भवति, सागारिकबहुलं वा तद्गृहम्। एतैः कारणैः निशि-रात्रावेकाकिनी निष्क्रामन्ती तासां शय्यातराणां निवेद्य शब्दकाशितादिशब्दं कुर्वती दण्डकं हस्ते कृत्वा साधुधर्माशोभनसमाचारा अतियाति वा निर्गच्छति वा / एवं तावद्विचारभूमिविषयो विधिरुक्तः। (37) अथ विहारभूमिविषयमाहएगहि अणेगाहि व, दिया व रातो व गन्तु पडिसिद्धं / चउगुरु आयरियादी, दोसा ते चेव जे भणिया // 1086 / / एकाकिनीनाम्, अनेकाकिनीनां वा बहीनामपि गाथायां च षष्ठ्यर्थे तृतीया, दिवा वा रात्रौ वा विहारभूमौ संतीनां गन्तुं प्रसिषिद्ध न कल्पते। अत एव योनमर्थमाचार्याः प्रवर्त्तिन्यां न कथयन्ति तदा चतुर्गुरवः, प्रवर्तिनी भिक्षुणीनां न कथयति चतुर्गुरवः, भिक्षुण्यो न प्रतिशृण्वन्ति लधुमासः, दोषाश्च त एव द्रष्टव्याः ये पूर्व विचारभूमौ भणिताः द्वितीयपदे गन्तव्यमपीति दर्शयतिगुत्ते गुत्तदुवारे, दुञ्जणवज्जे णिवेसणस्संतो! वाडग संबंधिणियस-णि बितिय आगाढसंविग्गा 1087 //