________________ विहार 1327 - अभिधानराजेन्द्रः - भाग 6 विहार गुप्ते गुप्तद्वारे दुर्जनवर्जे, दुःशीलजनरहिते गृहे स्वाध्यायकरणार्थ गन्तव्यं, तच्च गृहं यदि निवेशनस्य पाटकास्याभ्यन्तरवर्ति भवति / अथ निवेशनान्तर्न प्राप्यते ततोऽन्यस्मिन्नपि पाटके यः संयतीनां पितृभ्रात्रादिशकनीयः सम्बन्धी, यो वा शय्यातरस्य निजसुहृदादि, यो वा संज्ञी श्रावको मातापितृसमानस्तस्य गृहे गन्तव्यम्। एतच्च द्वितीय पदमागाढे संविनाया आर्यिकाया मन्तव्यम्, किमुक्तं भवति व्याख्याप्रज्ञप्ति प्रभृतिश्रुतसम्बन्धे तमागाढयोगं काचिदार्यिका प्रतिपन्ना, सा च यदि संविग्ना हास्यादिवर्जिता ततस्तस्या आत्मतृतीयया आत्मचतुर्थया आत्मपञ्चमया वा पूर्वोक्तगुणोपेतं गृहं गत्वा स्वाध्यायः कर्तुं कल्पते। पडिवत्तिकुसलअजा, सज्झायज्झाणकरण उझुता। मोत्तूण अब्भरहितं, अजाण ण कप्पती गंतुं॥१०८७।। प्रतिपत्तिः-उत्तरप्रदानं तत्र कुशला-निपुणा या काचिदार्या सा तस्याः समर्पणीया, तथा या आगाढे योग प्रतिपन्ना सा स्वाध्यायस्य यद् ध्यानमेकाग्रतया करणं तत्रेदृशे उद्युक्ता भवेत्, 'मोत्तूण अब्भरहियं' ति येषु कुलेषु यथाभद्रकादिषु संयतीनामागमनमभ्यर्हितं गौरवाऽहं तानि मुक्त्वा अन्यत्र कुले आर्यकाणां न कल्पते गन्तुम्। एवंविधकुले गत्वा स्वाध्यायं कुर्वतीनां यद्यसौ गृहपतिः 'प्रश्नयेत्-किमर्थं भवत्य इहाऽऽगताः?, ततः प्रतिपत्तिकुशलया वक्तव्यम्सज्झाइयं नऽस्थि उवस्सएऽम्हं, आगाढयोगं च इमा पवना। तरेण सो भवमिदं च तुज्झं, संभावणिज्जा उण अण्णहा ते // 106011 हे श्रावक ! योऽयमस्माकमुपाश्रयः तत्र स्वाध्यादिकं नाऽस्ति, इयं संयती आगाढयोगं प्रवृत्तावर्त्तते, 'तरेण' त्ति शय्यातरेण सह युष्माकमिदमीदृशं सकलजनप्रतीतं सौहार्द तन्मत्वा वयमत्र समागताः अतो नान्यथा त्वया वयं सम्भावनीयाः। अपिचखुद्दो जणो णऽत्थि ण याऽवि दूरे, पच्छणा भूमी य इहं पकामा। तुज्झेहि लोएण य विण्णमेत्तं, सज्झायसीलेसु जहोज्जमाणे॥१०६१|| क्षुद्रो जनो-वुर्जनलोक इह नास्ति, नचेदंयुष्मद्गृहं दूरे अस्मत्प्रतिश्रयाद् दूरवर्त्ति प्रच्छन्नभूमिश्वेह युष्मद्ग्रहे प्रकामाविस्तृता, अस्माकं स्वाध्यायो नियाघातं निर्वहति। किंचयुष्माकं लोकस्य च वृत्तं प्रतीतमेतत् यथा-'णे' अस्माकं स्वाध्यायशीलानां गाढतर उद्यमः-प्रयत्नो भवति / बृ०१उ०३ प्रक०। इदानी मार्गद्वारं प्रतिपादयन्नाह नियुक्तिकारःपंथं तु वचमाणं, जुगंतरं चक्खुणा व पडिलेहा। अइदूरचक्खुपाए, सुहुमतिरिच्छग्गएँ न पेहे // 325 / / पथि व्रजन् युगान्तरं-चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षेत, किं कारणम् ? यतोऽतिदूरचक्षुःपाते सति सूक्ष्मास्तिर्यग्गतान् प्राणिनः 'न पेहे'-नपश्यति, दूरे दूरतरे प्रहितत्वाचक्षुषः ! अबासन्ननिरोहे, दुक्खं दंव पि पायसंहरणं। छक्कायविओरमणं सरीर तह भत्तपाणे य॥३२६|| अत्यासन्ने निरोधं करोति चक्षुषस्ततो दृष्ट्वाऽपि प्राणिनां दुःखेन पादसंहरणं पादं प्राणिनि निपतन्तं धारयतीत्यर्थः अतिसन्निकृष्ट-- त्वाचक्षुषः। 'छक्कायविओरमण' तिषटकायानां विराधनं भवति, शरीरविराधनां तथा भक्तपानविराधनां करोतीति। इदानीमस्या एव गाथायाः पश्चार्द्ध व्याख्यानयन्नाह __ भाष्यकार:उजमहो कहरत्तो, अवयक्खंतो वियक्खमाणो य। बायरकाए बहए, तसेतरे संजमे दोसा // 158|| ऊध्र्वमुखो व्रजन् कथासु च रक्तः-सक्तः 'अवयक्खंतो' ति पृष्ठतोऽभिमुखं निरूपयन् 'वियक्खमाणो' त्ति विविधं सर्वासु दिक्षु पश्यन्, स एवंविधो बादरकायानपि व्यापादयेत् त्रसेतरांश्वपृथिव्यादीन् स्थावरकायान् ततश्च संयमे-संयमविषया एते दोषा भवन्तीति। इदानीं शरीरविराधनां प्रतिपादयन्नाहनिरवेक्खो वचंतो, आवडिओ खाणुकंटविसमेसु।' पंचण्ह इंदियाणं, अन्नतरं सो विराहेजा // 16 // निरपेक्षो व्रजन् आपतितः सन् स्थाणुकण्टकविषमेषु विषमम्-उन्नतं, तेष्वापतितः पञ्चानामिन्द्रियाणां चक्षुरादीनामन्यतरत् स विराधयेत्। इदानीं 'भत्तपाणे यत्ति अवयवं व्याख्यानयन्नाहभत्ते वा पाणे वा, ऑवडियपडियस्स भिन्नपाए वा। छकायविओरमणं, उड्डाहो अप्पणो हाणी॥१६॥ आपतितश्चासौ पतितश्च आपतितपतितः तस्य साधोः भिन्ने-भग्ने वा पात्रके सति भक्ते वा प्रोज्झितेपानकेवा,ततः षट्कायव्युपरमणं भवति, उड्डाहश्च भवति, आत्मनश्च हानिःक्षुधाबाधनं भवति, ततःपुनः षट्कायव्युपरमणमुड्डाहश्च। दहि घय तकं पयम-बिलं व सत्थं तसेतराण भवे / खद्धम्मि य जणवाओ, बहुफोडे जं च परिहाणी।।१९१|| तानि गृहीतानि कदाचिदधिघृततक्रपयः काञ्जिकानि भवन्ति, ततश्च तानि शस्त्रम्, केषां ?-त्रसानामितरेषां च-पृथिव्यादीनां भवेत्, 'खद्धम्मि' त्ति प्रचुरे च तत्र भक्ते लोकेन दृष्ट सति जनापवादो भवति, उड्डाहः-यदुत 'बहुफोडे तित बहुभक्षका एत इति, या चाऽऽत्मपरि. तापनिकादिका परिहाणिसा च भवति / तथा पात्रविराधनायां याचनादोषान् प्रदर्शयन्नाह __ नियुक्तिकारःपत्तं च मग्गमाणे, हवेज पंथे विराहणा दुविहा। दुविहाय भवे तेणा, परिकम्मे सुत्तपरिहाणी॥३२७।।