________________ विहार 1324 - अभिधानराजेन्द्रः - भाग 6 विहार यत्,ि स्त्री वा नपुंसको वा तमेकाकिनमुदारशरीरं दृष्ट्वा बलादपि गृह्णीयात्, तिर्यचो वा दुष्टगवादयस्तमभिघातयेयुः, तिर्यग्योनिकां वा स एकाकी प्रतिसेवेत, यो वा अवधावनप्रेक्षी स एकाकी निर्गतः सन् तत एवमपलायेत, स्त्रिया वा षण्डकेन वा प्रतिस्खलितः सन् भग्नव्रतोऽहं जात इति बुद्ध्या वैहायसमुद्न्धनं कुर्यात, व्यालेन वा-सर्पण दश्येत् मूर्छा वा तत्र गतस्य भवेत् तदशेन भूमौ प्रपतेत् / तस्य परितापमहादुःखप्रभृतयो दोषाः। अस्या एव गाथाया लेशतो व्याख्यानमाहथीपंडे तिरिगीसुय, खलितो वेहाणसंच ओधावे। तेणोवधीसरीरे, गहणाऽऽदी मारणं जोये // 1062 / / स्त्रियां पण्डके तिर्यग्योनिकायां वा स्खलितो--मैथुनप्रतिसेवनया अपराधमापन्नः सन्भग्रव्रतस्य किंमे जीवितेनेतिबुद्ध्या वैहायसमभ्युपगच्छेत्।यो वा अवधावनप्रेक्षीस तत एवावधावेत्। शेषाणि सप्त द्वाराणि तेषु यथाक्रममते दोषाः। तद्यथा-स्तेनेषूपधिशरीरग्रहणम्। आरक्षिकेषु ग्रहणाऽऽकर्षणादि देशेषु तु श्वापदादिमारणमुपघातः संयतस्य भवतीति योजयेत्-योजनं कुर्यात्। यतएवमतःदुप्पभिइओ अगम्मा,णय सहसा साहसं समायरति। वारेति च णं बितिओ, पंच य सक्खी उधम्मस्स।।१०६३|| द्विप्रभृतयः साधवो रात्रौ कायिकीभूमौ गच्छन्तः स्तेनारक्षकादीनामगम्या भवन्ति, न च द्वितीये साधौ तटस्थे सति सहसा साहसंमैथुनप्रतिसेवनवैहायसादि समाचरति, समाचरितुकाममपि तमात्मद्वितीयः साधुर्वारयति / यतो धर्मस्यपञ्चमहाव्रतस्य पञ्च साक्षिणो भवन्ति / तद्यथा-अर्हन्तः सिद्धाः साधवः सम्यग्दृष्टयो देवा आत्मा चेति। अतः साधौ तृतीयसाक्षिणि पार्श्ववर्तिनि न सहसा साहसं समाचरति, एवं तावत्कायिकी भूमिमङ्गीकृत्योक्तम् / अथोचारभूमिमधिकृत्याहएए चेव य दोसा, सविसेसुचारमायरंतस्स। सबितिजगणिक्खमणे, परिहरिया ते भवे दोसा।।१०६४॥ एत एव स्तेनारक्षिकादयो दोषाः सप्रायश्चित्ताः सविशेषाः-समधिका रजन्यामेकाकिन उच्चारमाचरतो मन्तव्याः। यदा तु विचारभूमौ गच्छत् / सद्वितीयः प्रतिश्रयान्निष्क्रमणं करोति तदा स्तैन्यादयो दोषाः परिहृता भवेयुः। कथमित्याहजति दोण्णि तिण्णि वेदितु,णेति तेण भए वातिदारेको। सावयभयम्मि एको, णिसिरतितं रक्खती बितिओ।।१०६५।। यदि द्वौ संयतौ कायिकीभूमौ निर्गच्छतः तदा यस्तत्र जागर्ति तस्य निवेद्य द्वावपि निर्गच्छतः। स्तेनभये तुततो द्वयोर्मध्यादेको द्वारे तिष्ठति, द्वितीयः कायिकी व्युत्सृजति / अथ श्वापदादिभये एकः तत्र कायिकी निसृजति, द्वितीयो दण्डकहस्तस्तं कायिकी व्युत्सृजन्तमात्मानंचरक्षति।। (35) अथैकाकिनो यतना प्रतिपाद्यते-- सभया सति मत्तस्स, एको उवओगदंडओ हत्थे। वतिकुडंतेण कडिं, कुणति य दारेऽवि उवओगं / / 1066 / / . यदि सभयं, द्वितीयस्य तत्राऽभावः, ततः मात्रके व्युत्सर्जनीयम् / अथ मात्रकं न विद्यते तत उपयोगं कृत्वा दण्डकं हस्ते गृहीत्वावृतेर्वा कुड्यस्य वा अन्तेन-पार्श्वेन कटिं कृत्वा कायिकी व्युत्सृजति / द्वारेऽपि स्तेनादिप्रवेशविषयमुपयोगं करोति। बितियपदे तु गिलाण-स्स, कारणा अहव होज एगागी। पुवट्ठियनिहोसे, जतणाएँ णिवेदिउचारे॥१०६६॥ द्वितीयपदे तुम्लानस्य कारणादेकोऽपि निर्गच्छेत्। अथवा स साधुरशिवादिभिः कारणैरेकाकी भवेत, यद्वा-तत्र पूर्व निर्दोषं निर्भयमिति मत्वा स्थितः पश्चात्सभयं सञ्जातं तत्राऽपि यतनया निवेद्य तथैवोचारभूमौ वा गच्छन्ति। अथ ग्लानस्य कारणादिति पदं व्याख्यानयतिएगो गिलाणपासे, बितिओ आपुच्छिऊण तं नीति। चिरगतगिलाणमितरो, जग्गंते पुच्छिउंणीति ||1068|| इह तेत्रयोजनाः, तेषां च मध्ये एकोग्लानो विद्यते, एकश्च तस्य ग्लानस्य पार्श्वे तिष्ठति, द्वितीयस्तमापृच्छ्य कायिक्यादिभूमौ निर्गच्छति। स च यदि चिरगतो भवति तत इतरोग्लानस्य पार्श्वे स्थितो ग्लानं जाग्रतमापृच्छ्य निर्गच्छति। जहियं पुण ते दोसा, तेणाऽऽदीया ण होज पुटवुत्ता। एकोऽवि णिवेदेतुं, णितो वितहिं णऽतिकमति // 1066 // यत्र पुनस्ते पूर्वोक्ताः स्तेनादयो दोषा न भवन्ति तत्रैकोऽपि साधूनां जाग्रतां निवेद्य निर्गच्छन् भगवदाज्ञानं नातिक्रामति / एवं विचारभूमिविषयो विधिरुक्तः। अथ विहारभूमिविषयमाहबहिया विहारभूमी, दोसा ते चेव अहियछक्काया। पुष्वदितु य कप्पइ, बितियं आगाढसंविग्गो।।१०७०॥ प्रतिश्रयादहिर्विहारभूमौ स्वाध्याभूमौ रात्रावेकाकिनो गच्छतस्तत एव स्तेनारक्षिकादयो दोषा भवन्ति, अधिकाश्वषट्कायविराधनानिष्पन्नाः। द्वितीयमपवादपदमत्रोच्यते कल्पते रात्रावपि स्वाध्यायभूमौ पूर्वदृष्टायांदिवा प्रत्युपेक्षितायां गन्तुंतत्राप्यागाढकारणे यः संविग्नः स गच्छति। अथाऽऽगाढपदं व्याचष्टेते तिणि दोण्णी अहवेकतूणं णवं च सुत्तप्पसगासमस्स। सज्झातियं णऽस्थि रहस्ससुत्तं, याऽवि पेहाकुसलो स साहू // 1071 / / तेसाधवोरात्रौ विहारभूमौ गच्छन्तउत्सर्गतस्त्रयोजनागच्छन्ति, त्रयाणामभावेद्वौगच्छतः। अथग्लानादिकार्यव्यापृततया द्वितीयोऽपिनप्राप्यतेएवमेकाक्यपिगच्छेत्। किमर्थमित्याह अस्य-विवक्षितसाधोनवम्-अधुनाऽधीतं