________________ विहार 1323 - अभिधानराजेन्द्रः - भाग 6 विहार द्वावप्यनुज्ञापयितव्यौ, यदि प्रीतिकं ततो गमनं कर्त्तव्यम्। अथैकस्याऽप्रीतिकं भवति ततो यस्तयोः प्रेरकः प्रमाणभूतस्तस्य प्रीतिके गन्तव्यम्, सार्थं च प्राप्तानां निमित्तं शकुनग्रहणं भवति / सार्थं प्राप्ताः पुनः सार्थस्यैव शकुनेन गच्छन्ति, सार्थप्राप्ताश्च तिस्रः परिषदः कुर्वन्ति। तद्यथा--पुरतो मृगपरिषदं, मध्ये सिंहपरिषदं, पृष्ठतो वृषभपरिषदम्। __ अथ 'दोण्ह वि' त्ति पदं विवृणोतिदोन्नि वि समागयास-त्थिगो य जस्सय वसेण वचंति। अणणुण्णविते गुरुगा, एमेव य एगतरपंते // 43|| सार्थवाह आदियात्रिकश्च द्वावपि समागतौ मिलितौ समकमनुज्ञापयन्ति। अथवा-सार्थिकः सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थवाह एकः पश्चादनुज्ञाप्यते, यस्य वावशेसार्थोव्रजति सोऽनुज्ञाप्यः। अथाऽननुज्ञापिते सार्थवाहादौ व्रजन्ति तदा चत्वारो गुरुकाः। अथ द्वौ सार्थावकत्र मिलितौ स्यातां, तत्र चद्वौ सार्थाधिपती, द्वावप्यनुज्ञापयितव्यौ। अथैकमनुज्ञापयन्ति तत्रैवमेव चतुर्गुरुकाः / अथैकतरः प्रान्तः ततश्चिन्तनीयं स प्रेरको वा। यदि प्रेरकस्ततो न गन्तव्यमित्याहजो होई पेलंतो, भणंति तुह बाहुछायसंगहिया। वचामऽणुग्गहो त्तिय, गमणं इहरा उगुरु आणा ||4|| यस्तत्र प्रेरकः प्रमाणभूतो भवतितं धर्म लाभयित्वा भणन्ति-यद्यनुजानीतं ततोवयं युष्माभिः सह युष्मदाहुच्छायासंगृहीता व्रजामः, एवमुक्ते यद्यसौ ब्रूयात्-भगवन्ननुग्रहोऽयं मे अहं सर्वमपि भगवतामुदन्तमुद्रहामीति, एवमनुज्ञाते गमनं विधेयम्। इतरथा यद्यसौ तूष्णीकस्तिष्ठतिब्रवीति वामा समागच्छत, यदि गच्छन्ति ततश्चत्वारो गुरवः आज्ञादयश्च दोषाः / ततो यदि सार्थवाहस्य अपरस्य वा प्रेरकस्याऽप्री तिके गम्यते तत एते दोषाःपडिसेहणणिच्छुभणं, उवकरणं बालमादिवाहारे। ऑतिजत्तगुम्मिएहिं, च उद्धमंते ण वारेति // 45 // स सार्थवाहादिः प्रान्तः महाऽटवीमध्यप्राप्तानां साधूनां भक्तपानं प्रति सार्थनिष्काशनं विदध्यात्, उपकरणं वा बालादीन् वा अन्येन स्तेनादिना हारयेत् अपहरणं कारयेदित्यर्थः। आदियात्रिकैर्वा स्थानरक्षापालैरुह्यमानान्-मुष्यमाणान् साधून्न वारयति-उदासीन आस्ते इत्यर्थः। यत एवं ततः किं कर्त्तव्यमित्याहभगवयणे गमणं, भिक्खे भत्तट्ठणाएँ वसधीए। थंडिल्ल असतिमत्तग-वसभा य पदेसवोसिरणं ||646|| सार्थवाहादिर्भद्रको ब्रूयात्-यद्यूयमादिशत तदहं सर्वमपि सम्पादयिष्यामि, सिद्धार्थकवत्त्वम्, एकपुष्पबद्धा शिरसि स्थितोऽपि भारं न कुरुषे, एवं वचने भणिते सति गमनं कर्त्तव्यं गच्छद्भिश्वाऽध्वनि भैक्षविषया सार्थनासमुद्देशनं तद्विषया वसतिविषया च यतना कर्तव्या। संज्ञाकायिकी वा स्थण्डिलस्थाऽसति मात्रके व्युत्सृज्य तावद्वहन्ति यावत् | स्थण्डिलं प्राप्नुवन्ति, एवं वृषभा यतन्ते / यद्वा वृषभाः पुरतो गत्वायत्र | स्थण्डिलं तत्र प्रथमत एव तिष्ठन्ति। अथ सर्वथैव स्थण्डिलं न प्राप्यते धमाधमाकाशास्तिकायप्रदेशेष्वपि व्युत्सृजन्ति। अमुमेवार्थमतिदेशद्वारेणाहपुटवं भणिया जयणा, मिक्खे भत्तद्ववसहिथंडिल्ले। सो चेव य होति इहं, णाणत्तं णवरि कप्पम्मि||९४७|| भिक्षा भक्तार्थवसतिस्थण्डिलविषया यतना पूर्वमधस्तनसूत्रेषु, ओघनियुक्तौ वा भणिता। सैवेहाध्वनि वर्तमानानां मन्तव्या, स्थानाशून्यार्थ तु किञ्चिदत्रापि वक्ष्यते तत्र भैक्षद्वारे नवरं केवलमिह कल्पे अध्वकल्पविषयम्। बृ०१ उ०३ प्रक०। (अत्रार्थ 'राइभोयण' शब्देऽस्मिन्नेव भागे 517 पृष्ठे बहु वक्तव्यं गतम्।) (32) निर्ग्रन्थस्य रात्रौ विकाले वा एकाकिनो गन्तुंन कल्पतेनो कप्पइ निग्गंथस्स एगाणियस्सराओ वा वियाले वा बहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा। कप्पति से अप्पबिइयस्स वा अप्पतइयस्स वाराओवा वियाले वा बहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा // 4 // अथाऽस्य सूत्रस्य सम्बन्धमाहआहारो नीहारो, अवस्समेसो तु सुत्तसंबंधो। तं पुण ण प्पडिसिद्ध, वारे एगस्स निक्खमणं // 1056!! पूर्वसूत्रे संखडिप्ररूपणाद्वारेणाहार उक्तः, तस्मादाहारादवश्यं भवेन्नीहार इत्येतद्विषयो विधिरनेन सूत्रेणोपवर्ण्यते। कथमित्याह-तत्पुनर्नीहारकरणमाहारानन्तरमवश्यंभावित्वान्न प्रतिषिद्धं, किंतु तदर्थं यदेकस्यएकाकिनो निष्क्रमणं तदेव निवारयतीत्येष सूत्रसम्बन्धः / अनेन सम्बन्धेनायातस्याऽस्य (सू०४६) व्याख्या-नो कल्पते निर्ग्रन्थस्य साधोरेकाकिनो रात्रौ वा विकाले वा बहिर्विचारभूमि वा विहारभूमि वा उद्दिश्य प्रतिश्रयान्निष्क्रमितुं वा प्रवेष्टुं वा / कल्पते 'से' तस्य निर्ग्रन्थस्याऽऽत्मद्वितीयस्य वा आत्मतृतीयस्य वा रात्रौ वा विकाले वा बहिविचारभूमि वा विहारभूमिं वा निष्क्रमितुंवा प्रवेष्टुं वा इति सूत्रसमासार्थः / अथ नियुक्तिविस्तरःरत्तिं वियारभूमि, णिग्गंथेगाणियस्स पडिकुट्ठा। लहुगोय होति मासो, तत्थ वि आणाइणो दोस // 1060 // रात्रौ विचारभूमिर्निग्रन्थस्यैकाकिनो गन्तव्ये प्रतिक्रुष्टा। सा च द्विविधा-- कायिकीभूमिः, उच्चारभूमिश्च / कायिकीभूमिं यदि रात्रावेकाकी गच्छति ततो लघुमासः प्रायश्चित्तम्; तत्राप्याज्ञादयो दोषाः / तथातेणाऽऽरक्खियसावय-पडिणीए थीणपुंसतेरिच्छे। ओहाणपेहिवेहा-यसे य वाले य मुच्छा य॥१०६१।। स्तेनैरुपधिः संहियेत, आरक्षिका एकाकिनं दृष्ट्वा चौर इति बुद्ध्या ग्रहणाऽऽकर्षणादिकं कुर्युः श्वापदा वा सिंहव्याघ्रादयो भक्षेयुः, प्रत्यनीको वा तमेकाकिन मत्वा प्रतापनादिकं कु