________________ विहार 1321 - अभिधानराजेन्द्रः - भाग 6 विहार कर्थपुनरित्यत्रोच्यतेरागदोसविमुक्को, सत्थं पडिलेहि सो उपंचविहो। भंडी वहिलग भर वह, ओदरिया कप्पडिय सत्थो // 22 // रागद्वेषविमुक्तो नाम यस्य गन्तव्ये न रागो, यदि वा-न द्वेषः स सार्थः प्रत्युपेक्ष्यते। बृ० 1 उ०३ प्रक०। (स सार्थः पञ्चविधः, इति 'सत्थ' शब्दे वक्ष्यते।) अथैनामेव गाथां विवृणोतिगंतव्वदेसरागी, असत्थसत्थं पिजणति जे दोसा। इअरो सत्थमसत्थं, करेइ अच्छन्ति जे दोसा ||23|| यो गन्तव्ये देशे रागीस सार्थप्रत्युपेक्षकः कृतोऽसार्थमपि सार्थं करोति, ततः कुसार्थेन गच्छतां ये दोषास्ते समापद्यन्ते। इतरो नामगन्तव्यदेशे दोषवान्ससार्थमप्यसार्थं करोति, ततस्तत्राशिवादिषु सन्तिष्ठमानानां ये दोषास्ते प्राप्नुवन्ति। उप्परिवाडी गुरुगा, तिसु कंजियमादि संभवो होला। परिवहणं दोसु भवे, बालादी सल्लगेलने ||24|| उत्परिपाट्या यथोक्तक्रममुल्लमय यदि सार्थेन सह गच्छन्ति तदा चतुर्गुरुकाः। किमुक्तं भवति-भण्डीसार्थे विद्यमाने यदि वहिलिकसार्थेन गच्छन्ति तदा चतुर्गुरुकाः। अथ भण्डीसार्थो न प्राप्यते ततो वहिलिकसार्थनाऽपि गन्तव्यं, तत्र विद्यमाने यदि भारवाहसार्थेन गच्छन्ति तदाऽपि चतुर्गुरवः / एवं भारवाहादिसार्थेष्वपि भावनीयम्। तत्र चाद्येषु भण्डीवहिलकभारवाहकसार्थेषु काञ्जिकादिपानकानां सम्भवो भवेत्, द्वयोस्तु भण्डीवहिलकसार्थयोर्बालानामादिशब्दाद्-वृद्धानां ग्लानानां च परिवहनं भवेत्। (32) किं पुनः सार्थे प्रत्युपेक्षणीयमित्याहसत्थं च सत्थवाहं, सत्थविहाणं च आदियत्तं च। दव्वं खेत्तं कालं, भावो मासं च पडिलेहे ||25|| सार्थ सार्थवाहं सार्थविधानम् आदियात्रिकां द्रव्यं क्षेत्रं कालं भावम् / अवमानंच प्रत्युपेक्षेत इति द्वारगाथासंक्षेपार्थः / सांप्रतमेनामेव विवृणोतिसत्थि त्ति पंचभेया, सत्थाहा अट्ट आइयत्तीय। सत्थस्स विहाणं पुण, गणिमाइ चउचिहं होइ॥२६॥ सार्थ इति पदेन भण्डीसार्थाऽऽदयः पूर्वोक्ताः पञ्च भेदाः गृहीताः, सार्थवाहाः पुनरष्टौ, आदियात्रिका अप्यष्टौ, उभयेऽप्युत्तरत्र वक्ष्यन्ते। सार्थविधानं पुनर्गणिमादि भेदाचतुर्विधं भवति / तत्र गणिमं-- यदेकव्यादिसंख्यया गणयित्वा दीयते, यथा हरीतकीपूगफलादि / धरिमंयत्तुलायां धृत्वा दीयते, यथा-खण्डशर्करादि, मेयं यत्पलादिना सेतिकादिना वा मीयते यथा-घृतादिकं वा। परिच्छेद्यं नामयचक्षुषा परीक्ष्यते, यथा-वस्त्र-रत्नमौक्तिकादि, एतच्चतुर्विधमपि द्रव्यं भण्डीसार्थादिषु प्रत्युपेक्षणीयम्, तथा द्रव्यक्षेत्रकालभावैरपि सार्थः प्रत्युपेक्षणीयः ! तत्र द्रव्यतःप्रत्युपेक्षणां तावदाह अणुरंगाऽऽई जाणे, गुच्छाऽऽई वाहणे अणुन्नवणा। धम्मु त्ति वा भईय व, बालादि अणिच्छा पडिकुटा / / 927|| अनुरङ्गाः-घंसिकास्तदादीनि यानानि गवेषणीयानि, आदिशब्दात्शकटादिपरिग्रहः, वाहनानि-गुण्ठादीनि गुण्ठोनाम-घोटको महिषो वा आदिशब्दात्-करभवृषभादिपरिग्रहः / एतेषां यानानां-वाहनानां वा सुज्ञापना कर्तव्या, यथाऽस्माकं कोऽपि बालोवृद्धो दुर्बलोग्लानःशल्यविद्धो वा गन्तुं न शक्नुयात् स युष्माभिरनुरङ्गादौ वा आरोहयितत्व, यद्येवं धर्म इति कृत्वाऽनुजानन्ति ततः सुन्दरम् / अथ नानुजानन्ति ततो भृत्या मूल्येनाऽपि यथाऽरोहयन्ति तथा प्रज्ञापयितव्याः / अथ मूल्येनाऽपिबालादीनामारोहणं नेच्छन्तिततःप्रतिष्टाः-प्रतिषिद्धास्तैः सह नगन्तव्यमित्यर्थः। __अपिचदंतिक गोर-तिल्लग-गुलसप्पियमादिभंडभरिएसुं। अंतरवाघातम्मिव, तं देंति हए उकिं देति / / 128|| मोदिकभण्डिका शकट्यादिकं यद्बहुविधं दन्तखाद्यकं तद्दन्तिकं 'गोर' त्ति-गोधूमाः तैलगुडौ प्रतीतौ सर्पिः-- घृतम् एवमादीनां भक्तभाण्डानां यत्रशकटानिभृतानि प्राप्यन्तेससार्थोद्रव्यतःशुद्धः, यतएवमादिभाण्डभृतेषु शकटादिषु सत्सु यद्यप्यन्तरा-अपान्तराले व्याघाते वर्षानदीपूरादिक मुत्पद्यते तथाऽपि तद्दन्तिकं ते सार्थिकाः स्वयमपि भक्षयन्ति, साधूनामपि च प्रयच्छन्ति / इतरथा तेषामभावे किं ददति ? न किमपीत्यर्थः। व्याघातकारणान्येव दर्शयतिवासेण णदीपूरेण वाऽवि तेणभयहत्थिरोधे य। खोभो व जत्थ गम्मति, असिवं वेमादि वाधाता ||26|| सार्थस्य गच्छतोऽपान्तराले त्वागाढवर्षेण वा नदीपूरेण वा बहुतरदिवसान् व्याघात उपस्थितः अग्रतो वा स्तेनानां भयमुत्पन्नं, दुष्टहस्तिना वा मार्गों निरुद्धः, यत्र वा नगरादौ गम्यते-गन्तुमिष्यते तत्र रोधको राज्यक्षोभो वा अशिवमुत्पन्नम्, एवमादयो गमनस्य व्याधाता भवन्ति। ततश्च प्रस्थितेषु यद्यपान्तराले सार्थः सन्निवेशं कृत्वा तिष्ठति, तथा च सतिक्वापि बहुविधखाद्यद्रव्यभृतासुगन्त्रीसु सुखेनैव साधवः संस्तरन्ति, अतस्तेन सह गन्तव्यम्। नपुनरीदृशेकुंकुमय अगरुएत्तं, चोयं कत्थूरिया य हिंगुं वा। संखग लोणय भरिते,ण तेण सत्थेण गंतव्यं // 30 // कुडकुमम् अगरु-तगरपत्रं 'चोय' ति त्वक् कस्तूरिकाहिगुरेवमादिकमखाद्यद्रव्यं यत्र भवति; यश्च शंखेन लवणेन वा भृतः-- पूर्णः तत्राऽन्तरा व्याघाते समुत्पन्ने तिष्ठन्तः शम्बलसार्थिकाः किं प्रयच्छन्तु? यतएवमतस्तेनतादृशेन सार्थेन सहनगन्तव्यम्।गता द्रव्यतः प्रत्युपेक्षणा। अथ क्षेत्रकालभावैस्तामाहखेत्ते जंबालाऽऽदी, अपरिस्संता वयंति अद्धाणं /