________________ विहार 1318 - अमिधानराजेन्द्रः - भाग 6 विहार कतो एयं रयहरणं, किंमम भाया मारिओ? त्ति। तीए राया भणितो अहो विणट्ठोऽसि। ताहे सो अगिंकुमारेसुपज्जत्तो जातो। ताहे नगरस्स सव्वतो जोयणपरिमंडले जं किंचितणं वा कटुं वा तंसाहरिउंदईसजणवयं नयरं / सोजणवओ'अणेण सपुत्तदारओ सह सुयणेणं कुम्भीए पक्को, पुरंदरजसा य मुणिसुव्वयतित्थयरपायमूले साहारिया सपरिसा' / अथ गाथाक्षरयोजनाश्रावस्त्यां पालको दौत्येनागतः, सच वादे स्कन्दकेन पराजितः। ततोऽसौ तस्योपरि कुपितः। इतश्च स्कन्दकस्य सुव्रतस्वामिपावें दीक्षा अधीतसूत्रार्थस्य तस्यान्यदा भगवतांसमीपे पृच्छा, व्रजाम्यहं कुम्भाकारकृतं नगरम्, भगवता तु सोपसर्गमिति भणित्या निवारणा कृता। तथा त्वदर्जाः सर्वेऽप्याराधका इति च भणन्ति / ततस्तं कुम्भकारकृतपुरमागच्छन्तं श्रुत्वा पालकेन यत्रोद्यानेऽसौ स्थितः तत्राऽऽयुधानां ''मण' त्ति प्रच्छन्नं स्थापना कृता। ततो नृपस्य कथना यथैष परीषहपराजितस्त्वां मारयित्वा त्वदीयं राज्यमधिष्ठास्यतीत्यादि, ततो राज्ञः कोपोऽभवत्, भणितं च / यत्ते रोचते तदमीषां कुरुष्वेति / ततस्तेन पुरुषयन्त्रं कृत्वा पीडयितुमारब्धाः साधवः, स्कन्दकेनोक्तं पूर्व मां यन्त्रमध्ये प्रक्षिप / ततस्तेन पापाऽऽत्मना स्कन्दकस्य स्तम्भे गाढतरं बन्धनं कृतं, ततो निपीड्यमानसाधुसम्बन्धिनीभिः शोणितविरक्ताभिः सिक्तेन स्कन्दकेन निदानं कृतम् / भगिन्या च तस्य कम्बलरत्नदानं कृतमासीत्, तेन च रजोहरणं कृतम्। स्कन्दकस्य च विपद्याग्निकुमारेधूपपातः, ततो रजोहरणं शोणितलिप्तं चिह्नमवलोक्य देव्याश्चिन्ता नूनमपद्राविताः साधवः पापात्मनेति / ततः प्रभूतं राज्ञः पुरतः खेदनं ततः सपरिषदः सपरिवारायास्तस्या दीक्षादापनार्थ जिनसमीपे संहरणं-- नयनं संवर्तकवातं दीक्षादापनार्थं विकुळ सकलस्याऽपि पुरस्य दाहोदहनम्।यत एवमादयो दोषाः अतोनाऽनार्थक्षेत्रे विहर्त्तव्यम्। बृ०१ उ० 3 प्रक०। (यत्र ज्ञानदर्शनचारित्राण्युत्सर्पन्ति तत्र विहर्त्तव्यमिति यदुक्तं तद्विषयकाभिधानं 'संपइ' शब्दे वक्ष्यते।) (30) निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ विकाले वा विहारनिषेधः-- नो कप्पइ निग्गंथाण वा निग्गंथीण वा राओ वा वियाले वा अद्धाणगमणं पत्तए॥४७|| अथास्य सूत्रस्य कः सम्बन्ध इत्याहहरियाहडिअट्ठाए, होज विहे माइयं न वारेमो। जं पुण रत्तिं गमणं, तदट्ठ अन्नऽट्ठ वा सुत्तं ||VEVII विहे--अवनि गच्छतां हताहतिकार्थमेवमादिकं पल्लीगमनप्रभृ तिकं भवेत्, नवयं तद्वारयामः, यत्पुना रात्रावध्वनिगमनंतदर्थ-हताहतिकानिमित्तम्, अन्यार्थमन्येषां ज्ञानादिकारणानामर्थाय तत्र सूत्रमवतरति, तन्न कल्पते इति भावः। अहवा तत्थ अवाया, वचंते होज रत्तिचारिस्स। जइ वा विहं वि रत्ति, वारितिऽविहं किमंग ! पुणो|६६ अथवा तत्राऽध्वनि व्रजतां यो रोत्रिचारी-रात्रौ गमनशीलस्तस्य संयमात्मप्रवचनविषया बहवः प्रत्यपाया भवेयुरिति रात्रौ गमनंचवार्यते / यदि च-विहमप्यध्वानमपि रात्रौ गन्तुं वारयति ततः कि-मङ्ग ! पुनरविहमनध्वानम्, जनपदे सुतरां रात्रौ गन्तुं न भवतीति भावः / अनने सम्बन्धेनायातस्यास्य (सू०४७) व्याख्या नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ विकाले वा अध्वगमनम् एतुमिति सूत्रार्थः / अथ भाष्यविस्तरःइहरत वि तान कप्पइ, अद्धाणे किं तु रायविसयम्मि। अत्थाऽऽवत्ती संसइ, कप्पइ कज्जे दिया नूणं / / 866|| इतरथाऽपि तावन्न कल्पते अध्वानं गन्तुं, किंतु-किं पुनः रात्रिविषये तत्रसुतरां न कल्पते। यतश्व सूत्रं रात्रिविषयं प्रतिषेधं विधत्ते, अतोऽर्थापत्तिः सामर्थ्यगम्या, सा वैशंसति कथयति, नूनं ज्ञायते दिवा कार्ये ज्ञानादौ समुत्पन्ने अध्वानमपिगन्तुं कल्पते। अध्वानमेव भेदतः प्ररूपयन्नाहअद्धाणं पिय दुविहं, पंथो मग्गो य होइ नायव्यो। पंथम्मि नत्थि किंचि वि, मग्गो सग्गामें गुरुआणा ||867|| अध्वा द्विविधस्तद्यथा-पन्थाः, मार्गश्च! पन्थाः नाम-यत्र ग्रामनगरपल्लीव्रजिकानां किञ्चिदेकतरमपि नाऽस्ति, यत्र पुनामानुग्रामपरंपरया, वासो भवति स ग्रामो मार्ग इति उच्यते / द्वयोरपि रात्रौ गच्छतश्चत्वारो गुरुकाः, दिवा तुपथि चतुर्गुरवः, मार्गे चतुर्लघवः, आज्ञादयश्च दोषाः। तं पुण गामिना दिवा, रतिं वा पंथगमणमग्गो वा। रतिं आएसदुर्ग, दोसु वि गुरुगाय आणादी||८६७|| सपुनरध्या दिवा गम्यते, रात्रौ वा / तचोभयमपि गमनं पथि वामार्गेवा स्यात्। तत्र रात्रिशब्दे आदेशद्वयम्। केचिदाचार्या ब्रुवते ससन्ध्या यतो राजते--शोभने तेन निरुक्तिरीत्या रात्रिरुच्यते, यस्तु संध्याया अपगमः स विकालः 1 अन्ये तुब्रुवते यतः सन्ध्याया अपगमे चोरपारदारिकादयो रमन्ते ततोऽसौ रात्रिरिति परिभाष्यते, सन्ध्यायां तु यत एते विरमन्ति ततः स विकालः; पन्थानं वा यदिरात्रौ विकाले वा गच्छति तदा द्वयोरपि चत्वारो गुरवः, आज्ञादयश्च दोषाः। इयमन्याचार्यपरिपाट्या गाथा ततो न पौनरुक्त्यम्। तत्र मार्गे तावदोषानुपदिशयिषुराहमिच्छत्ते उड्डाहो, विराहणा होइ संजमाताए। रीयाइसंजमम्मि, छकाय अचक्खुविसयम्मि||१|| रात्रौ मार्गे गच्छतः साधून दृष्ट्वा कश्चिदभिनवधा मिथ्यात्वं गच्छेत्, उड्डाहो वा भवेत्, विराधना संयमाऽऽत्मविषया भवेत्। तत्र संयमविराधनागीतार्थाः समितिप्रभृतिकाः ईर्यासमितीन शोधयन्ति, रात्रौ वा चक्षुरविषये षट्काया विराध्यते एष द्वारगाथासंक्षेपार्थः। साम्प्रतमेनामेव सविस्तारं विवृणोतिकिं मण्णे निसि गमणं, जतीण सोहिंति वा कथं इरियं / जइवेसेण व तेणा, वडंति गमणाइउड्डाहो // 100| अमीषा--परलोककार्योधतानां यतीनां किमर्थ निशि-रात्रौ गमनम् / किं मध्ये दुष्टचित्ता अमी, कथं वा रात्रावटन्तोऽमी