________________ विहार 1317 - अभिधानराजेन्द्रः - भाग 6 विहार अस्मात्-साकेतात् पूर्वस्यां दिशि कौशाम्बीविषयम्, अपरस्यां दिशि स्थूणाविषयम्, उत्तरस्यां दिशि कुणालाविषयं, यावद् ये देशाः एतावदार्यक्षेत्रं मन्तव्यम् / अत एव साधूनामेषा विहारी भूमिः / इतः परं निर्गन्थनिर्ग्रन्थीनां विहर्तुं न कल्पते। बृ०१ उ०३ प्रक०।। (26) अथाऽऽर्यक्षेत्रविहारकारणमाह-- जम्मणनिक्खमणेसु य, तित्थकराणं करेंति महिमाओ। भवणवइवाणमंतर-जोइसवेमाणिया देवा।।१११५॥ इहाऽऽर्थक्षत्रे भगवतां तीर्थकृतां जन्मनिष्क्रमणयोश्चशब्दात् ज्ञानोत्पत्तौ च भवनपतिवाणमन्तरज्योतिष्कवैमानिका देवा महिमाः- सातिशयपूजाः कुर्वन्ति, ताश्च दृष्ट्वा बहवो बुद्धा विबुध्यन्ते-प्रव्रज्यां प्रतिपद्यन्ते, अचिर प्रव्रजिताः अपि स्थिरतरा भवन्ति। उप्पण्णे णाणवरे, तम्मि अणते पहीणकम्माणो। तो उवदिसंति धम्म, जगजीवहिया य तित्थकरा।।१११६|| तस्मिन् देशे-अनन्ते-अपर्यवसिते ज्ञानवरे-मतिश्रुता-दिशेषज्ञानप्रधाने केवलाऽख्ये उत्पन्ने-तदाचारककर्मक्षयादाविर्भूते सति प्रहीणकर्माणः-प्रक्षोणघातिकाशास्तीर्थ-करास्ततो-ज्ञानोत्पत्त्यनन्तरं धर्म-श्रुतचारित्ररूपं जगज्जीव-हितायोपदिशन्ति। लोगच्छेरयभूतं, ओवयणं निवयणं च देवाणं। संसय वागरणाणिय य, पुच्छंति तहिं जिणवरिंदो॥१११७।। लोकस्य-मनुष्यलोकस्याऽऽश्चर्यभूतं विस्मयकारि देवाना मुत्पतनं निपतनं च दृष्ट्वा बहवो जीवाः प्रतिबुद्ध्यन्ते तथा देवमनुष्यतिर्यग्पाः असङ्ख्ययाः संज्ञिनः स्वस्वसंशयानां व्याकरणानि निर्वचनानि जिनवरेन्द्रान् तत्रार्यजनपदे पृच्छन्ति, भगवन्तोऽपि च सातिशयत्वात्तषामसंख्येयानामपि युगपदेव संशयानुन्मूलयन्ति। अपिचसमणगुणविदुत्थ जणो, सुलभो उवधी सततमविरुद्धो। आरियविसयम्मि गुणा, णाणचरणगच्छवुड्डी य॥१११८|| श्रमणगुणा-मूलोत्तरगुणरूपाः तत्र पञ्च महाव्रतानि मूलगुणाः उद्गमोत्पादनैषणादोषाः विशुद्धिरष्टादशशीलाङ्गसहस्राणि चोत्तरगुणान्ताः, वेत्ति-जानातीति श्रमणगुणवित् ईदृशोऽत्रार्यजनपदे जनोलोकः अत्र चोपधिरोधिक उपग्रहिकश्च स्वतन्त्रेणस्वसिद्धान्तोक्तेन प्रकारेण विसुद्धोऽदूषितः सुलभः-सुखेनैव लभ्यते, एते आर्यविषये विहरतां गुणा भवन्ति / लथा ज्ञानस्य चरणस्योपलक्षणत्वाद्दर्शनस्य चात्र वृद्धिर्भवति व्याघाताभावो ज्ञानदर्शनचारित्राणि स्फीतिमुपगच्छन्तीति भावः / गच्छस्य चात्र वृद्धिर्भवति बहूनां भव्यजन्तूनां प्रव्रज्याप्रतिपत्तिः। एत्थ किर सण्णि सावग, जाणंति अभिग्गहे सुविहियाणं। एतेहि कारणेहिं, विहिगमणे होतऽणुग्घाया / / 1116 // अत्र किलार्यक्षेत्रे संज्ञा--गुरुदेवधर्मपरिज्ञानंसा विद्यते येषां ते संज्ञिन:--- अविरतसम्यग्दृष्टयः श्रावकाः प्रतिपन्नाऽणुव्रताः एते सुविहितानासाधूनामभिग्रहान् जानन्ति / अभिग्रहा यथा इत्थमाहारादिकममीषां कल्पते इत्थं च न कल्पते। अथवा अभिग्रहा द्रव्यक्षेत्रकालभावविशेषाः प्रागुक्तस्वरूपास्तान ज्ञात्वा ते संज्ञिश्रावकास्तथैव प्रतिपूरयन्ति। एतैः कारणैरार्यजनपदे विहारः कर्त्तव्य इति वाक्यशेषः। यद्यार्यक्षेत्रावहिः ततश्चत्वारः अनुदाता मासाः प्रायश्चित्तम्। आणादिणो य दोसा, विराहणा खंदएण दिटुंतो। एतेण कारणेणं, पडुन कालं तु पण्णवणा ||1120|| आज्ञादयश्च दोषा विराधना चात्मसंयमविषया। तत्र च स्कन्दकाचार्येण दृष्टान्तः कर्तव्यः / अत एतेन कारणेन बहिर्न गन्तव्यम्, एतद्भगवद्वर्द्धमानस्वामिकालं प्रतीत्योक्तम्। इदानीं तुसम्प्रति नृपतिकालं प्रतीत्य प्रज्ञापना क्रियते, यत्र यत्र ज्ञानदर्शनचारित्राण्युत्सर्पन्ति तत्र तत्र विहर्तव्यम्। अथ स्कन्दकाचार्यदृष्टान्तमाहदोचेण आगतो खं-दएण वादे पराजितो कुवितो। खंदय दिक्खा पुच्छा, णिवारणाऽऽराहपव्वला // 1121 / / उजाणाऽऽयुधणूमण, णिवकहणं कोव जंतयं पुवं / थंभविरिकों णिदाणं, कंबलदाणे रयोहरणं / / 1122 / / अग्गिकुमारुवातो, चिंता देवीऍचिण्हरयहरणं। खेयण सपरिसदिक्खा, जिणसाहर वातडाहोय॥१२२३।। कथा- "सावत्थी नयरो जियसत्तू राया धारणी देवी तेसिं तु पुत्तो खंदतो कुमारो युवराया, भगिणी से पुरन्दरजसा ! सोय खंदतो सावतो अभिगतो, इओ य उत्तरावहे पच्चयंता कुंभकारकड नगरं, दंडती राया तस्स दोहितो पालतो। सा पुरन्दरजसा दंडतिस्स रन्ना दिन्ना अन्नया पालयदूतो आगतो खंदयकुमारेण रायपरिसाए वाए पराजिओ पदुहो। से वि य सविसयं गतो / खंदतो पंचहिं सएहिं सद्धिं पव्वइओ मुणिसुव्वयसामिणो अंतिए, तस्सेव ते सीसा जाया / अन्नया तित्थयरं आपुच्छतिपंचहि सएहिं सद्धिं कुंभकारकडं वच्चामि, भगवया वारितो सोवसगंति, पुणो पच्छति-आराहया, तुम मोत्तुंसेसा आराहया, एवं सो गतो कुंभकारकडं, तस्स उजाणे ठितो पालगेण य दिट्ठो। ताहे तेणं पुव्यवरेणं दंडती वुग्गाहितो। एस परीसहपराजितो पंवहिं सएहिं सद्धिं तव रज्जं पेच्छेहिति, सो य पत्तियइ / ताहेऽणेण आउहाणि अग्गुजाणे ठवियाणि / दंसेऊण वुग्गाहितो।तओभणति-तुमंचेव सेजंजाणसितं करेहि, तेण पुरि सज्जकंठं कयं, सव्वे आरद्धा पिल्लिङ। खंदएण भणियं मम पढममारेहि। ताहे सोभणति-तुम पिच्छाहितावसीसेवहिजले, एवं तेसव्ये वहिया, सिद्धेय। पच्छा खंदयस्स बद्धस्सरुहिरविरिकाहिय सिच्चमाणस सीसेसु य खंडिजंतेसु असुहो परिणामो जातो, तेण नियाणयं कयं / अग्गिकुमारसु उवउत्तो, भगिणीए से कंबलरयणं दिन्नं / ततोहितो रयहरणं कयं, तरुहिरावलितं, साणेहियमंसं ति काउंगहिय। देवीए अग्गतोपाडियं /