________________ विहार 1301 - अभिधानराजेन्द्रः - भाग 6 विहार तत्र क्षेत्रस्थापनायोग्य उपाश्रयपालः जनद्वयस्यैवागमनादिति कृत्वा सर्वैरपि भवति गन्तव्यम्। ___अथ ते यथालन्दिकाः कथं क्षेत्रं प्रत्युपेक्षन्ते ? उच्यतेपुच्छित रुइयं खेत्तं, गच्छे पडिबद्ध बाहि पेहिति। जंतेसिं पाउग्गं, खित्तविभागे य पूरिंति // 653 // ये गच्छप्रतिबद्धा यथालन्दिकास्तैर्गच्छवासिनः पृष्टाः आर्या ! अभिरुचितं क्षेत्रं भवति? ततो गच्छवासिनः प्राहुः-अभिरुचितं, ततो यथालन्दिका गच्छवासिनः प्रत्युपेक्षितस्य क्षेत्रस्य 'बाहि' त्ति सक्रोशयोनारहिः क्षेत्रं प्रत्युपेक्षन्ते, कथमित्याह-यत्तेषां यथालन्दिकानां प्रायोग्यं कल्पनीयमलेपकृतं भक्तपानं परिकर्मरहिता च वसतिस्तदेव गृह्णन्ति, क्षेत्रविभागश्च षड्वीथिरूपास्तानपिपूरयन्ति। जंपिनवचंति दिसिं, तत्थ विगच्छिल्लगासि पेति। पग्गहिय एसणाए, विगई लेवाडवाई॥६८४॥ यामपि दिशं यथालन्दिका न व्रजन्ति तत्रापि- तस्यामपि दिशि गच्छवासिनः क्षेत्रप्रत्युपेक्षकाः तेषां यथालन्दिकानां योग्यं स्वप्रत्युपेक्षितक्षेत्रस्य सक्रोशयोजनादहिः क्षेत्रं प्रत्युपेक्षन्ते, कथमित्याहप्रगृहीतया-साभिग्रहया तृतीयपौरुष्या उपरितनैषणया विकृतिलेपकृतवर्जे भक्तपाने गृह्णाति, घृतादिका विकृतिः तक्रतीमनादिकं द्राक्षापानादिकं वा लेपकृतं वर्जयन्तीत्यर्थः। जइ तिनि सव्वगमणं, एहामु त्ति लहुओ य आणाई / परिकम्मकुडुकरणे, नीहरणं कट्ठमाईणं // 68 // यदि ते गच्छवासिनस्त्रयो जनास्ततः सर्वेषामपि गुरुसकाशे गमनं, ते गच्छन्तो यदि सागारिकेण-पृच्छ्यन्ते-किं यूयमागमिष्यथन वा? ततो / यद्येष्याम-आगमिष्याम इति निर्वचनमर्पयन्ति ततो लघुको मासः, आज्ञादयश्च दोषाः। शय्यातरश्चिन्तयति-यद्येते एष्यन्ति प्रतिगतास्तत्र समागमिष्यन्तीति परिभाव्य परिकर्मेऽपि लेपनादिकं वसतेः कुर्यात्, कुड्यस्य वा जीर्णस्योपलक्षणत्वात्कपाटस्य वा करणं संस्थापन विदध्यात्, काष्ठानामादिग्रहणात्-तृणानांधान्यस्य वानीहरणं निष्काशनं कुर्यात्। यदा-तेषामाचार्याणामपरं किमपि क्षेत्रमभिरुचितंततस्तत्र गताः। तत्र च क्षेत्रे अपरे साधवः समायातास्ततः किमित्याहअद्धाणनिग्गयाई,असिवादिगिलाणओय जो जत्थ। हामो त्तिय लहुओ, तत्थ वि आणाइणो दोसा // 686|| अध्वा-विप्रकृष्टो मार्गस्तेन निर्गता-निष्क्रान्ताअशिवादिभिर्वा कारणैः प्रेरिताः परिश्रान्तास्ते साधवस्तत्रायाताः। तत्र चान्या वसतिनास्ति सा च प्राचीनसाधुप्रत्युपेक्षिता वसतिस्तैर्याचिता / सागारिको ब्रूतेमयेयमन्येषां साधूनां दत्ताऽस्ति तेऽप्येष्याम इति भणित्वा गताः सन्ति, अतो नाऽहं दातुमुत्सहे। एवं ते वसतिमलभमानाः श्वापदस्तेनकण्टकै शीतेनवा प्रारभ्यमाणाः प्रतिगमनादीनि कुर्युम्लानो वा यस्तेषां स विहार कार्यमाणो यत्र यत्परितापनादिकं प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् / यतश्चैवमत एण्याम इति न वक्तव्यम्।न एष्याम इत्यपि वदतां मासलघु, तत्राऽप्याज्ञाऽऽदयो दोषाः। अपरो वक्तिविकाइअविकएण वि, फेडणधनाइ छुमणमावासे। नीणिते अहिकरणं, विहारणा हाणि हिंडते // 687|| नागमिष्यन्ति साधव इति कृत्वा विक्रीय विक्रयेणभाटकेन दत्ता सा वसतिः, विक्रयेण वादत्ता; विक्रीतेत्यर्थः,स्फेटनंवा वसतिकृतंधान्यस्य, आदिशब्दात्-भाण्डस्यान्यस्य वोपकरणजातस्य क्षेपणं तस्यां कृतम्। वक्क चारणादयो वा तत्र शय्यातरेण वासिताः। तेषां च-आचार्याणां तदेव क्षेत्रमभिरुचितंततः तत्रैव समागताः। सप्राह-युष्माकंसाधुभिरिति कथितं - वयं नैष्यामः, ततो मयेयमन्येषां दत्ता, धान्यादिना वा भृता। ततो यथा भद्रकोऽसौ सागारिकस्तान वटुकादीनिष्काशयति ततस्तेषु निष्काश्यमानेष्वधिकरणं प्रद्विष्टाः सागारिकस्य साधूनां वा करिष्यन्ति, तन्निष्पन्न प्रायश्चित्तम्। वसतिं विना हिण्डमानानाम्, इतस्ततः पर्यटतां या संयमादिविराधना या च सूत्रार्थयोः परिहाणिस्तन्निष्पन्नमपि प्रायश्चित्तम् / तस्मान्न वक्तव्यं नैष्याम इति। किं पुनस्तर्हि वक्तव्यम् ? उच्यते-- जह अम्हे तह अने, गुरु जेहमहाजणस्स अम्हे मो। पुवमणिया उदोसा, परिहरिया कुडमाईया // 65 // यथा वयमत्रागतास्तथा अन्येऽपि साधवस्तिसृषु दिक्षु गताः सन्ति, ततो न जानीमः कीदृशं क्षेत्रं तैः प्रत्युपेक्षितमस्ति, अस्माकं तावदिदं क्षेत्रमभिरुचितं परं गुरवश्वाचार्याः ज्येष्ठमहाजनाश्वज्येष्ठार्यसाधुसमुदायो गुरुज्येष्ठमहाजनं तस्य वयं 'मो' इति पादपूरणे, परतन्त्रा व महे इति वाक्यशेषः / ततस्तत्र गतानांगुरूणां ज्येष्ठार्याणां वा यद्विचारे समेष्यति तद्विधास्यामः; एवं ब्रुवाणैः पूर्वभणिताः कुड्यकरणादयो दोषाः परिहृताः। इत्थमुक्त्वा सागारिकमापृच्छ्य, ते किं कुर्वन्तीत्याहजइपंच तिनि चत्तारिछस्सु सत्तस्सु पंच अच्छंति। चोदक पुच्छा सज्झाय करणवचंत अच्छंते॥६८९॥ यदि ते पञ्च जनास्ततस्त्रयस्तत्रैवासते, द्वौ गुरुसकाशं गच्छतः, अथ षट् जनास्ततश्चात्वारस्तिष्ठन्ति द्वौ गुरूणामभ्यणे व्रजतः, अथ सप्त जनास्ततः पञ्च तत्रैवासते द्वौ गुरूणामुपकण्ठे गच्छतः, यदिच-ऋजुः पन्थाः सव्याघातस्ततोऽपरं पन्थानं प्रत्युपेक्षन्ते। नोदकः पृच्छति-येच गुरुसकाशं व्रजन्तिये चतत्र उपाश्रये आसते ते उभये अपि किंस्वाध्याय कुर्वते न वा? उच्यतेवचंत करण अच्छंत अकरण लहुओ मासों गुरुओ य। जावह कालं गुरुणो, न हंति सव्वं अकरणाए // 66 //