________________ विहार १३००-अभिधानराजेन्द्रः - भाग 6 विहार एवेह समानेतव्या न शेषाः। अथवा भणेत्येवा ते वा सा धवो भवन्तु परमेतावन्त एवात्र तिष्ठन्तु तत्र किं कर्त्तव्यमित्याह-तत्रैवं शय्यातरेण निर्धारितेसतिन कल्पते वासो-नयुज्यते तस्यां वसताववस्थातुमिति भावः / अथनास्त्यपरं मासकल्पप्रायोग्य क्षेत्रंतत इतरस्या वसतेरलाभे तस्यामेव वसतौ वासोऽनुज्ञातः। तत्रच वसतां यदि प्राघूर्णकः समागच्छति ततः को विधिः? इत्याहसकारो सम्माणो, भिक्खग्गहणंच होइ पाहुणए। जइ वसइ जाणओ तह, आवाइ मासियं लहुगं // 674|| सत्कारो-वन्दनाऽभ्युत्थानादिः सम्मानो-विश्रामणादिः भिक्षाग्रहणमुपविष्टस्य भिक्षाया आनयनम्, एतत्सर्वमपि प्राधूण्णक आगते सति कर्तव्यं, यदिवसतिर्येषां वा परिमितानां दत्ता तदा यावन्तः प्राधूर्णकाः समायाताः तावतो वास्तव्यानन्यत्र विसय॑ प्राधूर्णकाः स्थाप्यन्ते। अथ नामग्राहं गृहीत्वा नियमितानामेव साधूनां सा दत्ता ततः प्राघूर्णकस्य वसतिस्वरूपं निवेद्यते, निवेदिते च यदि कोऽपि वसतिस्वरूपं जानानोऽपि तत्र वसति तदा आपद्यते मासिकं लघुकम्। ततःकिइकम्में भिक्खगहणे, कयम्मि जाणाविओ तहिं वसई। हियन सुं संका-सुण्हा उन्मामवोच्छेदो॥६७५॥ कृतिकर्मणि-विश्रामणादौ भिक्षाग्रहणे च कृते सति वसतिस्वरूपं ज्ञापितः सन् रात्रौ बहिर्वसति। यदि ज्ञापितोऽपि सन् बहिर्न व्रजति तदा सागारिकस्य केनचिचौराऽऽदिना हृते-नष्ट च एवमेवादृश्यमाने कस्मि - श्चिद्वस्तुनि शङ्का भवेत्, नूनं यदद्यामुकं वस्तु न दृश्यते, तदेतेषां यः प्राघूर्णको रात्रावुषित्वा प्रतिगतः तेन हृतं भविष्यति, स्नुषा वा वधू रात्रावुद्धामकेन सह गता भवेत्, तत्राऽपि यदि प्राघूर्णकस्य शङ्का सागारिकः करोति तदा तद्रव्यान्यद्रव्याणां व्यवच्छेदो भवेत्। एवं वसतौ लब्धायां किं विधेयमित्याहपडिलेहियं च खेत्तं,थंडिलपडिलेहऽमंगले पुच्छा। गामस्स व नगरस्सव, मसाणकरणं पढमवत्थु // 676 // यदा क्षेत्रं सम्यक् प्रत्युपेक्षितं भवति तदा महास्थण्डिलंशवपरिष्ठापनभूमिलक्षणं प्रत्युपेक्षणीयम्, अमङ्गलेषु पृच्छति, भगवन्तो! यूयं तिष्ठन्त एव किमेवम् ? अमङ्गलं-कुरूपं, सूरिराह-ग्रामस्य वा नगरस्य वा 'मसाणकरणं ति श्मशानस्थापनायोग्यं प्रथममाद्यं वास्तु प्रत्युपेक्षीत इति वाक्यशेषः / इयमत्र भावना-ग्रामनगरादीनां तत्प्रथमतया निवेश्यमानानां वा वास्तुविद्याऽनुसारेण प्रथमं श्मशानवास्तु निरूप्य ततः शेषाणि देवकुलसभासौधादिवास्तूनि निरूप्यन्ते, लोके तथा दृष्टत्वात्। नच तदमाङ्गलिकम्, एवमत्राऽपि महास्थण्डिलं प्रथमं प्रत्युपेक्षमाणमस्माकं न अमाङ्गलिकं भवतीति। तच कस्यां दिशि प्रत्युपेक्षणीयम् ? उच्यते दिसा अवरदक्खिणया, अवरा वा दक्खिणाय पुटवा वा। अवरुत्तराय पुव्वा, उत्तरपुव्युत्तरा चेव // 677 / / पउरन्नपाणपठमा, वितियाए भत्तपाण न लभंति। ततियाएँ उवहिमादी, चउत्थी सज्झार्य न करेंति॥६७८|| पंचमिआएऽसंखड,छट्ठीऍ गणस्स भेदणं जाण। सत्तमिए गेलण्णं, मरणं पुण अहमीए उ॥६७६।। प्रथमतो महास्थण्डिलप्रत्युपेक्षणविषया अपरदक्षिणविषया अपरदक्षिणा दिक् / अथ तस्यां नदीक्षेत्रे 'अट्ठमीए उ’ प्रथमा अपरदक्षिणा दिक् प्रचुरानपाना भवति; तस्यां प्रत्युपेक्षमाणायां प्रचुरमन्नपानं प्राप्यत इत्यर्थः, यदि तस्यां सत्यां द्वितीयां दक्षिणां प्रत्युपेक्षन्ते तेन भक्तपानं न लभन्ते। अथ प्रथमायां कोऽपि व्याघातस्ततो द्वितीयामपि प्रत्युपेक्षमाणाः शुद्धाः। एवमुत्तरास्वपि दिक्षु भावनीयम्। तथा तृतीयस्याम् 'उवहिमाइ' . त्ति उपधिर्वस्त्रपात्रादिकः स्तेनैरपहियते तस्मिश्चापहृते तृण-ग्रहणाग्निसेक्तादयो दोषाः, चतुर्थ्यां स्वाध्यायं न कुर्वन्ति-स्वाध्यायः कर्तव्यो न भवतीत्यर्थः पञ्चम्यामसंखडं-कलहः साधूनां भवति, षष्ठ्यां गणस्यगच्छस्य भेदन-द्वेधीभवनं जानीहि, सप्तम्यां ग्लानं-ग्लानत्वं साधूनां जनयति, अष्टम्यां पुनर्मरणमपरस्य साधोरुपजायते। अमुमेव गाथाद्रयोक्तमसमकगाथया प्रतिपादयतिसमाही य भत्तपाणे, उवमरणे तुमंतुमा य कलहो उ। भेदो गेल्लनं वा, चरिमा पुण कडते अन्नं // 680 // प्रथमायां भक्तपानलाभेन साधूनां समाधिः-- रुचिर्भवति, द्वितीयायां भक्तपानं न लभन्ते, तृतीयायामुपकरणमपहियते, चतुर्थ्याम् एकः साधुरपरं भणति त्वमेवमपराधं कृतवान्, अपरो ब्रूते न ममापराधः, त्वमेवेदं विनाशितवानित्येवं तुमंतुमा भवति, तस्याः करणेनस्वाध्यायो नभवतीति भावः / पञ्चम्यांकलहो भण्डनं, षष्ठ्या भेदोगच्छस्यद्वैधीभावः, सप्तम्यां ग्लानत्वम्, चरमा-अष्टमी पुनरन्यं साधुं कर्षति-पञ्चत्वं प्रापयतीत्यर्थः। एकिकम्भितु ठाणे, चउरो मासा हवंतऽणुग्घाया। आणाइणो यदोसा, विराहणा जा जहिं भणिया।।६८१॥ एकैकस्मिन् स्थाने यथोक्तक्रममन्तरेण दक्षिणादीनां दिशां प्रत्युपेक्षणे चत्वारो मासा अनुद्धाताः प्रायश्चित्तं भवति / आज्ञादयश्च दोषाः, विराधना-भक्तपानलाभोपधिकरणादिका या यत्र भणिता सा तत्र द्रष्ठव्या। एतेन विधिना यदा क्षेत्रं प्रत्युपेक्षितं भवति तदा किमपरं भवतीत्याह-- पडिलेहियं च खित्तं, अहय अहालंदियाण आगमणं। नत्थि उवस्सयबालो, सव्वेहि वि होइगंतव्वं // 682 // एकतो गच्छवासिभिः क्षेत्रं प्रत्युपेक्षितं भवति, अथात्रान्तरे यथालन्दिकानामागमनं भवति, तेहि सूत्रार्थपौरुष्यावा हापयन्तस्तृतीयपौरुष्या विहारं कुर्वन्तो गच्छवासिभिः क्षेत्रे प्रत्युपेक्षितेसमायान्ति, तेषांच नाऽस्ति