________________ विहार 1302 - अभिधानराजेन्द्रः - भाग 6 विहार येतावत् व्रजन्तितेयदिसूत्रपौरुषीं कुर्वन्ति ततो मासलघु, अर्थपौरुषीं कुर्वन्ति मासगुरु।ये तुपाश्रये तिष्ठन्ति तेषां सूत्रपौरुष्या अकरणे लघुको मासः, अथपौराष्या अकरणे गुरुको मासः। यावत्कालं गुरूणां समीपन यान्ति न प्राप्नुवन्ति तावत् 'सव्वं अकणाए' त्ति सर्वमपि सूत्रमर्थं च न कुर्वन्ति। इदमेव सविशेषमाहजइ वि अणंतरखेत्तं, गया तह वि अगुणयंतगा एंति। नितियाईमागच्छे, इतरत्थय सिडावाघाओ॥६६१|| यद्यप्यनन्तरमव्यवहितमेव क्षेत्रगतास्ते ततोऽप्यगुणयन्तः सूत्रार्थवक्तव्यताम् आयान्ति, कुतइत्याह-नित्यावासादयो दोषा गच्छस्य मा भूवन, इतरत्र च प्रत्युपेक्षिते क्षेत्रे चिरकालं विलम्ब्यागच्छन्तं शय्याया उपाश्रयस्य व्याघातो मा भूत्। यत एवमतोऽगुणयन्तः समागम्य ते इदं कुर्वन्ति-- ते पत्त गुरुसगासं, आलोएंती जहकम सव्ये। चिंता वीमंसावा, आयरियाणं समुप्पन्ना // 692 / ते क्षेत्रप्रत्युपेक्षका प्राप्ताः सन्तो गुरुसकाशमालोचयन्ति यथाक्रम सर्वेऽपि क्षेत्रस्वरूपम्, ततस्तेषामालोचनां श्रुत्वा चिन्ता-कस्यां दिशि व्रजाम इत्येवं लक्षणा मीमांसा च शिष्याभिप्रायविचारणा आचार्याणां समुत्पन्ना। अथैनामेव गाथां भावयतिगंतूण गुरुसगासं, आलोएत्ता कर्हिति खेत्तगुणे। नय सेस कहणमाणोज संखडं रत्ति साहंति॥६९३|| गत्वा गुरूणां, सकाशमालोच्य गमनागमनातिचारं कथयन्ति क्षेत्रगुणान, तेचाचार्यान् विमुच्य, नच-नैवशेषाणांसाधूनां कथयन्ति। कुत इत्याहमा भूदसंखडं स्वस्वक्षेत्रपक्ष पात-समुत्थम्, यद्यन्येषां कथयन्ति तदा मासलघु, तस्माद्रात्रौ 'साहन्ति' त्तिकथयन्ति।कथमितिचेत् ? उच्यतेआचार्या आवश्यकसमाप्य मिलितेषु सर्वेष्वपि साधुषु पृच्छन्ति, आर्याः ! आलोचयत कीदृशानि क्षेत्राणि ? तत उत्थाय गुरूनभिवन्द्य बद्धाञ्जलयो यथाज्येष्ठमालोचयन्ति। पढमाएँ नऽत्थि पढमा, तत्थ य घयखीरकूरदधिमाई। बिइएऽविय तइयाए, दो अवितेसिं च धुवलंभो // 66 // ओभासिय धुवलंभो, पाउग्गाणं चउत्थिए नियमा। इहरा विजहिच्छाए, तिकालजोगं च सव्वेसिं||६|| प्रथमायां पूर्वस्यां दिशि यदस्माभिः क्षेत्रं प्रत्युपेक्षितं तत्र प्रथमा-- सूत्रपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलासम्भवात; परं तत्र क्षेत्रे च क्षीरकूरदध्यादीनि प्रकामं प्राप्यन्ते / द्वितीयाः क्षेत्रप्रत्युपेक्षका ब्रुवतेद्वितीयस्यां दिशि द्वितीया अर्थपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलाभावात् घृतदुग्धदध्यादीनितुतथैव लभ्यन्ते। तृतीया ब्रुवते-तृतीयस्यां | दिशिद अपि सूत्रार्थपौरुष्यौ विद्येते, मध्याहे भिक्षालाभसद्भावात् तेषां चघृतदुग्धादीनां ध्रुपो निश्चितो लाभ इति। तथाचतुर्थाः पुनरित्थमाहुःअस्मत्प्रत्युपेक्षितायां चतुर्थ्यां दिशि प्रायोग्यानामवभाषितानां ध्रुवोऽवश्यंभावी लाभः इतरथाऽप्यवभाषणमन्तरेणाऽपि यदृच्छया प्रकामं .त्रिकालं पूर्वाह्न-मध्याह्वापरावलक्षणे लक्षणे कालत्रये सर्वेषामपि बालवृद्धानां योग्यं सामान्य भक्तपानं प्राप्यते। इत्थं सर्वरपिस्वस्वक्षेत्रस्वरूपे निवेदिते सत्याचार्याश्चिन्तयन्ति कस्यां दिशि गन्तुं युज्यते। ततः स्वयमेवाद्यानां तिसृणां दिशा सूत्रार्थहान्यादिदोषजालं परिभाव्य चतुर्थी दिशमनन्तरोक्तदोषरहितत्वेन गन्तव्यतया विनिश्चित्य किं कुर्वन्ति ? इत्याहइच्छागहणं गुरुणो, कहिं दयामो त्ति तत्थ ओदरिया। खुहिया भणंति पढमं तं चिय अणुओगतत्तिल्ला // 666|| बिइयं सुत्तग्गाही, उभयग्गाही य तइयगं खित्तं / आयरिओ उ चउत्थं, सो य पमाणं हवइ तत्थ // 697|| गुरोः- आचार्यस्य इच्छाग्रहणं शिष्याणामभिप्रायपरीक्षणं भवति, आर्याः! कथयत-कुत्र कस्यां दिशिव्रजाम? इति। ततो ये औदरिकाः स्वोदरभरणैकचिक्तस्ते क्षुभिताः संभ्रान्ताः सन्तो भणन्ति-प्रथमां दिशं व्रजामो यत्र प्रथमपौरुष्यामेव प्रकामं भोजनमवाप्यते; तामेव दिशम् 'अणुओगतत्तिल्ल' त्ति अनुयोग-ग्राणैकनिष्ठाः शिष्याः आगच्छन्तितिष्ठन्ति येन द्वितीयपौरुष्यां नियाघातमर्थग्रहणं भवति ये तु सूत्रग्राहिणस्ते भणन्ति-द्वितीयां दिशं गच्छामः। यत्र न सूत्रपौरुषीव्याघात इति, ये तूमयग्राहिणस्ते तृतीयदिग्वर्तिक्षेत्रमिच्छन्ति / तत्र हि द्वयोरप्याद्यपौरुष्योर्नियाघात सूत्रार्थग्रहणे भवतः। आचार्यास्तु चतुर्थ क्षेत्रं गन्तुमिच्छन्ति / यतस्तत्र त्रिष्वपि कालेषु बालवृद्धाद्यर्थ, सामान्यभक्तं प्राधूर्णकाद्यर्थ नावभाषितमिति दुग्धादि प्रायोग्यं च प्राप्यते, न च कोऽपि सूत्रार्थयोयाघात इति स एव चाचार्यस्तत्र तेषां मध्ये प्रमाणं भवति। आह--किं पुन: कारणं येनाचार्याश्चतुर्थक्षेत्रमिच्छन्तीत्यत आहमोहुम्भओ उ वलिए, दुग्बलदेहो न साहए अत्थं / तो मज्झबला साहू, दुऽस्सो होइ दिटुंतो॥६९८|| प्रथमद्वितीयतृतीयेषु क्षेत्रेषु प्रचुरस्निग्धमधुराहारप्राप्तेः शरीरेण बलवान् भवति, बलवतश्वावश्यंभावी मोहोद्भवः / एवं तर्हि यत्र भिक्षा न लभ्यते तत्र गत्वा बुभुक्षाक्षामकुक्षयस्तिष्ठन्तु, नैव दुर्बलदेहः साधु साधयत्यर्थं ज्ञानदर्शनचारित्ररूपं यत एवं ततो मध्यमबलानातिबलवन्तो न चातिदुर्बलाः साधव इष्यन्ते! दुष्टाश्वो भवत्यत्र दृष्टान्तः, दुष्टाश्वो गर्दभः, स यथा प्रचुरभक्षणाद्दुर्जयः सन्नुत्प्लुत्य कुम्भकारारोपितानि भाण्डानि भिनत्ति भूयस्तेनेव कुम्भकारेण निरुद्वाऽऽहारः सन् भाण्डानि वोढुं न शक्नोति / स एव च गर्दभो विमध्यमाहारक्रियया प्रतिचयमाणः सम्यग् भाण्डानि वहति। एवं साधवोऽपि यदि स्निग्धमधुराभ्यवहारतः शरीरोपचयभाजो भवन्ति तत उत्पन्नदुर्निवारमोहोद्रेकतया संयमयोगान् बलादुपमर्देयुः, आहाराभावे चातिक्षामवपुषः संयमयोगान् वोढुंन शक्नुयुः। मध्यमबलोपेतास्तुव्यपगतौत्सुक्या अनुदिनपरिणामाः सुखेनैव संयमयोगान् बहन्तीतिमत्वा क्षेत्रत्रयं परिहृत्याचार्याश्चतुर्थ क्षेत्रं व्रजन्ति।