________________ विहार १२९८-अभिधानराजेन्द्रः - भाग 6 विहार * चरमे भिक्षाकाले परितापितं पेयाक्षीरं येषु प्राप्यते तानि कुलानि सम्यगवधारयन्ति। किमर्थमित्याह--आदेशाय प्राघूर्णकास्तदा समागच्छेयुः, अतरणोग्लानस्तदानीं पथ्यमुपयजीततदर्थमुपलक्षणत्वादालाद्यर्थं च / अत्राऽप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवर्तन्ते / यत आह'एक्कक्क इत्यादिएकैक्कः साधुरन्यसाधुना संयुक्तो यस्मिन्नानयते तदेकैकं संयुक्तं भक्तार्थमुदरपूरमाहारमेकैकस्य साधोरायाऽऽनयन्ति। इदमुक्तं भवति-प्राती साधू सङ्घट्टकेन पर्यटतः, तृतीयो रक्षपाल आस्ते। द्वितीयस्यां वेलायां तयोर्मध्यादेक आस्ते अपरः प्रथमव्यवस्थितं गृहीत्वा प्रयाति, तृतीयस्यां तु द्वितीयवेलारक्षपालः प्रथमव्यवस्थितरक्षपालेन सह पर्यटति। यस्तुवारद्वयंपर्यटतिस तिष्ठति, एवं त्रयाणां जनानांद्वौ द्वौ वारौ पर्यटनं योजनीयम्। ओसहमेसजाई, काले य कुले य दाणसखाई। सग्गामे पेहित्ता, पेहें तितओ परग्गामे // 657 / / औषधानि-हरीतक्यादीनि, भेषजानि-पेयादीनि, त्रिफलादीनि च। | 'काले य' त्ति येषु कुलेषु यत्र काले वेलायां वा दानश्राद्धादीनि कुलानि | एतानि स्वग्रामे प्रत्युपेक्ष्य ततः परग्रामे प्रत्युपेक्षन्ते। __ अत्र चालनां कारयतिचोयगवयणं दीहं, पणीयगहणं नणु भवे दोसा। जुजइ तं गुरुपाहण-गिलाणगट्ठा न दप्पहा / / 658| जइ पुण खद्धपणीए, अकारणे एकसिं पि गिहिला। तहियं दोसा तेण उ, अकारणे खद्धनिद्धाइं॥६५॥ . | नोदकः-प्रेरकस्तस्य वचनंचालनारूपंनतुतेषामित्थं दीर्घाभिक्षाचाँ कुर्वतां प्रणीतस्यचदधिदुग्धादेहणे दोषाः सूत्रार्थे परिमन्थमोहोद्भवादयो. भवेयुः / सूरिराह-- भद्र ! युज्यते तत्प्रणीतग्रहणं दीर्धभिक्षाटनं च प्राघूर्णकग्लानाथ न दार्थ तन्मनोबलवर्णादिहेतोः, यदि पुनः 'खद्धं' प्रचुर प्रणीतं-स्निग्धंमधुरमिति अकारणे-गुर्वादिकारणाभावे एकशोऽपि गृह्णीयान्न तस्मिन् खद्धप्रणीतग्रहण भवेयुर्दोषाः।कुत इत्याह-अकारणे आत्मार्थं यस्मात्तेन 'खद्धनिद्धाई ति प्रचुरस्निग्धानि भक्ष्यन्ते इति वाक्यशेषः / अतो गुरुग्लानादिहेतोः क्षेत्रप्रत्युपेक्षणे काले प्रणीतं गृह्णतां चिरं च पर्यटतां न कश्चिद्दोष इति। अथ'कुलाइतह तस्स पंचेव' तिपदंव्याख्यायते। भिक्षामटन्तः कुलानि जानन्ति, कथमित्याहदाणे अभिगमसड़े, सम्मत्ते खलु तहेव मिच्छत्ते। मामाए अवियत्ते, कुलाइजाणंति गीयत्था॥६६०॥ दानश्रद्धानि-प्रकृत्यैव दानरुचीनि अभिगमश्रद्धानि-प्रतिपन्नाणुव्रतानि श्रावककुलानि सम्यक्त्वश्रद्धानि- अविरतसम्यग्दृष्टीनि तथैव मिथ्यात्वे-मिथ्यादृष्टिकुलानि मामकानि मा मदीयं गृहं श्रमणाः प्रविशन्त्विति प्रतिषेधकारीणि 'अवियत्ते' ति नास्ति प्रीतिः साधुषु गृहमुपागतेषु येषां तान्यप्रीतिकानि एतानि कुलानि गीतार्थाः पर्यटन्तः सम्यग् जानन्ति उपाश्रयांश्च जानन्ति। कथमित्याहजेर्हि कया उवस्सय-समणाणं कारणा वसहिहे। परिपुच्छिय सहोसा, परिहरियव्वा पयत्तेणं // 661 / / इह श्रमणाः पञ्चधा, तद्यथा-शाक्याः, परिव्राजका, गेरुका आजीवकाः, निर्ग्रन्थाश्च / तेषामेव वा कारणात; कारणमुद्दिश्येत्यर्थः / कारणमेव व्यनक्ति, वसतिः- अवस्थानं तद्धेतोस्तन्निमित्तं यैहिभिः कृता उपाश्रयास्तेषां समीपे भिक्षामटद्भिः परिपृच्छ्योपाश्रयं मूलोत्पत्तिं पर्यनुयुज्य सदोषाः सवाद्यादोषदुष्टास्तेउपाश्रयाः प्रयत्नेन परिहर्त्तव्याः। तथाजेहिं कया उवस्सय-समणाणं कारणा वसहिहेउं। परिपुच्छिय निहोसा, परिभोत्तुं जे सुहं होइ॥६६२।। यैः कृता उपाश्रयाः श्रमणानां-निर्ग्रन्थवर्जानां शाक्यादीनां कारणाद्वसतिहेतोस्तान् परिपृच्छ्य निर्दोषाः-निरवद्यास्ते उपाश्रयाः परिभोक्तुं 'जे' इति निपातः पादपूरणे, सुखं भवति; सुखेनैव संयमबाधामन्तरेण तेपरिभुज्यन्त इत्यर्थः / जेहिं कया पाहुडिया, समणाणं कारणा वसहिडेउं। परिपुच्छिय सद्दोसा, परिहरियव्वा पयत्तेणं॥६६३३॥ यैः कृता प्राभृतिका-- उपाश्रयेषु उपलेपनधवलनादिका श्रमणानांपञ्चानामपि साधूनामेव वा कारणाद्वसतिहेतोस्तान् परिपृच्छय सदोषाः उत्तरगुणैरशुद्धत्वात्, सावद्यास्ते उपाश्रयाः प्रयत्नेनपरिहर्त्तव्याःजेहि कया पाहुडिया, समणाणं कारणा वसहिहे। परिपुच्छिय निहोसा, परिभोत्तुं जे सुहं होइ॥६६॥ यैः कृता प्राभृतिका श्रमणानां-साधुवर्जितानां तापसादीनां कारणाद् वसतिहेतोः तान् परिपृच्छ्य निर्दोषा इति मत्वा परिभोक्तुं 'जे' इति प्राग्वत् सुखं भवति-सुखेनैव परिभुज्यन्त इत्यर्थः। / अथ कीदृशे स्थाने वसतिरन्वेषणीया? उच्यते-यावन्मात्रं वसितुमाक्रान्तं भवति तावन्मानं पूर्वाभिमुखवामपावोपविष्टवृषभाकारं बुद्ध्या परिकल्प्य प्रशस्तेषु स्थानेषु वसतियुज्ये। अथ कुत्रावयवस्थाने गृहाणामावसतिः किं फला भवति ? इति उच्यतेसिंगक्खोडे कलहो, ठाणं पुण नऽत्थि होइ चलणेसु। अहिठाणे पोट्टरोगो, पुच्छम्भिव फेडणं जाणे // 66 // मुहमलम्मि य चारी, सिरे अककुहे य पूअसक्कारो। खंधे पट्ठीइभरो, पुट्ठम्मिय घायओवसहो // 666|| शृङ्गकखोडे-शृङ्गप्रदेशे यदि वसतिं करोति तदा निरन्तरं साधूनां कलहो भवति, स्थानमवस्थितिः पुनर्नास्ति चरणेषु गाढप्रदेशेषु अधिष्ठाने आपादप्रेशे 'पुढे ति उदरं तस्य रोगो भवति, पुच्छे-पुच्छप्रदेशे स्फेटनमपनयनं वसतेजर्जानीहि // 665 / / मुखमूले यदि वसतिः तदा चारी भोजनसम्पत्तिः, प्रशस्ता, शिरसि शृङ्गयोर्मध्ये ककुदिच