________________ विहार 1296- अभिधानराजेन्द्रः - भाग 6 विहार तोऽसौ शीतातपादिना परिताप्यते तन्निष्पन्नम्, देवता वा काचित् क्षपकमनुकम्पमाना खलु क्षेत्रेऽपि भक्तपानमुत्पादयति, लोको वा क्षपक इति कृत्वा तस्याऽनुकम्पया सर्वमपि ददातिनाऽन्यस्य,तपः क्षामकुक्षिश्वासौ तिसृणां गोचरचर्याणामसमर्थ इति। बालद्वारमाहहीरेज व खेलेज व, काकजं न जाणई बालो। सो व अणुकंपणिो , न दिति वा किंचि बालस्स / / 638|| हियते वा म्लेच्छादिनो, खेलयेद्वा चेटरूपैः सार्द्ध कार्याऽकार्य चकर्तव्याकर्तव्यं न जानाति बालः।सचबालःस्वभावत एवाऽनुकम्पनीयो भवति, ततः सर्वोऽपि लोकस्तस्मै भक्तपानं प्रयच्छति / स चागत्याचार्याय कथयति, यथा सर्वमपि प्रायोम्यं तत्र प्राप्यते। ततस्तद्वचनादागतस्तत्र गच्छो यावन्न किचिल्लभते, नददातिवा किञ्चिदालायलोकः पराभवनीयतया दर्शनात्। वृद्धद्वारमाहवुड्डो ऽणुकंपणिज्जो, चिरेण न य मग्गथंडिले पेहे। अहवाऽवि बालवुड्डा, असमत्था गोयरतियस्स॥६३६॥ वृद्धः-परिणतवया अनुकम्पनीयोलोकस्य भवति, ततश्चाऽयं सर्वत्राऽपि लभते नापरः / तथा स मन्दं मन्दं गच्छन् चिरकालेनोपैति, न च मार्ग पन्थान स्थण्डिलानिच प्रत्युपेक्षते। अथवा-बालवृद्धौ असमर्थों गोचरत्रिकस्यत्रिकालभिक्षाटनस्येति। योगवाहिद्वारमाहदूरंतो वन पेहे, गुणणालोमे न य चिरं हिंडे / विगई पडिसेहेई, तम्हा जोगिन पेसिया॥६५०।। योगवाही श्रुतं मम पठितव्यं वर्तत इतिचरमाणः सन्नपान्तरालेपन्थानं न प्रत्युपेक्षते, गुणनापरावर्तना तस्या लोभेन चिरमसौ भिक्षां न हिण्डते, लभ्यमानापि विकृति घृतादिकमसौ प्रतिषेधयति, तस्माद्योगिनं न प्रेषयेत्। अगीतार्थद्वारमाहपंथं च मास वासं, उवस्सयं एचिरेण कालेण / एहामो त्ति न जाणइ, गीतो पडिलोम असतीए॥६५१।। अगीतार्थपन्थानं-मार्ग मास-मासकल्पविधिं वासं-वर्षावासविधिम् उपाश्रयं-वसतिम् एतानि परीक्षितुं न जानाति / तथा शय्यातरेण पृष्टः कदा यूयमागमिष्यथ ? ततोऽसौ ब्रवीति-इयता कालेनार्द्धमासादिना वयमेष्याम इत्येवं वदतो यः खल्वविधिभाषणजनितो दोषस्तमगीतार्थो नजानाति, यतएवमतः प्रथमतो गणावच्छेदकेनगन्तव्यम्। तस्याऽभावे अपरोऽपि यो गीतार्थः स व्यापारणीयः, तस्याप्यसत्यभावे प्रतिलोभ पश्चानुपूर्व्या एतानेव गीतार्थमादिं कृत्वा प्रेषयेत्। केन विधिनेत्युच्यतेसामायारिमगीए, जोग्गमणागाढखमग पारावे। वेयावचे दामण-जुयलसमत्थं व सहियं वा // 642|| अगीतार्थ ओघनियुक्तिसामाचारी कथयित्वा प्रेषणीयः / तदभावे अनागाढयोगी बाह्ययोगवाही योगं निक्षिप्य प्रेष्यते। अस्याप्यसत्यभावे क्षपकः तच प्रथमं पारयेत्-पारणं कारयेत्, ततो मा क्षपकं कार्षीरिति शिक्षां दत्त्वा प्रहिणुयात्। तस्याऽप्यभावे वैयावृत्त्यकरः प्रेष्यते, 'दामण्ण' त्ति स वैयावृत्त्यकरो वास्तव्यसाधूनां स्थापनाकुलानि दर्शयति-ततो बालवृदयुगलं, कथंभूतं ? समर्थ-दृढशरीरं वाशब्दो विकल्पार्थः / सहितं वा-वृषभसाधुसमन्वितम्। इत्थमादिष्टस्तैः शेषसाधूनां स्वमुपछि समर्म्य परस्परं क्षामणं कृत्वा गमनकाले भूयोऽपि गुरूनापृच्छ्य गन्तव्यम्। यदि नाऽऽपृच्छन्ति तदा मासलघु। ते चावश्यिकीं कृत्वा निर्गच्छन्ति, कियन्तः कथं चेत्याहतिन्नेव गच्छवासी, हवंतऽहालंदियाण दोन्नि जणा। गमणे चोदक पुच्छा, थंडिलपडिलेह हालंदे // 643|| जघन्यतस्त्रयो गच्छवासिनो जना एकैकस्यां दिशि व्रजन्ति, यथालन्दिकानां तु गच्छप्रतिबद्धानां द्विजनावेकस्यां दिशि क्षेत्रप्रत्युपेक्षको गच्छतः, शेषास्तुतिसृषु दिक्षु। गच्छयासिनामाचार्या आदिशन्ति, यथायथालन्दिकानामपि योग्यं क्षेत्र प्रत्युपेक्षणीयं तेषां च गमने प्ररूपिते नोदकपृच्छा वक्तव्या,स्थण्डिलप्रत्युपेक्षणं यथालन्दिकानांवाच्यम्। तत्र गमनद्वारं विवृणोतिपंथुचारे उदये, ठाणे भिक्खंतरा य वसहीओ। तेणा सावयबाला, पचावाया य जाणविही॥६४४|| पन्थान-मार्गम्, 'उच्चारे' त्ति उचारप्रश्रवणभूमिके उदिय'त्ति पानकस्थानानि येषु बालादियोग्यं प्राशुकैषणीयं पानकं लभ्यते, 'ठाणे' त्ति विश्रामस्थानानि 'भिक्ख' त्ति येषु येषु प्रदेशेषु भिक्षा प्राप्यते न वा अन्तराअन्तराले च सतपःप्रतिश्रयाः, सुलभा दुर्लभा वा स्तेनाः श्वापदा व्यालाश्चयत्र सन्ति, नवा प्रत्यपायाश्च यत्र दिवा रात्रौवा भवन्ति, तदेतत्सर्व सम्यग् निरूपयद्भिर्गन्तव्यम् / यानं-गमनं तस्य विधिरयं द्रष्टव्य इति। इदमेव व्याचिख्यासुराहवावारियसच्छंदा-ण वावि तेसिं इमो विही गमणे। दव्वे खित्ते काले, भावे पंथं सुपडिलेहे // 645| व्यापारिता-आचार्येण नियुक्ताः स्वच्छन्दानाम ये आभिग्रहिकास्तेषामुभयेषामप्ययंगमने विधिः। तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च पन्थानं प्रत्युपेक्षन्ते। कथमित्याहकंटगतेणा वाला, पडिणीया सावयाय दवम्मि। समविसमउदगथंडिल-भिक्खायरियंतरा खेत्ते॥६४६|| दिय राउ पचवाए, य जाणई सुगमदुग्गमे काले। भावे सपक्खपरप-क्खपेल्लणा निण्हगाईया // 647 // द्रव्यतः कण्टकास्तेनाव्यालाः प्रत्यनीकाः श्वापदाश्वपथिप्रत्युपेक्षणीयाः / क्षेत्रत:--समोगिरिकन्दराप्रपातनिम्नोन्नतरहितः-पन्था विषमस्तद्विपरीतः 'उदग' ति पानीयवदुलो मार्गः स्थण्डिलानि भिक्षाचर्या तथा अन्तरा-अ