________________ विहार 1295 - अभिधानराजेन्द्रः - भाग 6 विहार सादपात्राणि; अतः किमर्थं वयमेव वैयावृत्त्यादिप्रयासं कुर्मइति, तेऽपिप्रतीच्छकाः समाप्ते सूत्रार्थग्रहणे स्वगच्छं गच्छन्ति। ततश्चाचार्य उभयैरपि प्रतीच्छकैः शिष्यैः परित्यक्तः सन्नेकाकी सञ्जायते।अथवृद्धानामन्त्रयते ततस्तरुणा बहिविं मन्यन्ते, नच-नैव गुरूणां क्षेत्रप्रत्युपेक्षकाणां वा उपकरणं प्रत्युपेक्षन्ते, नवा स्थविरादीनामुपधिं वहन्ति, न च कृतिकर्म भक्तपानाऽऽनयनविश्रामणादिकं कुर्वते, वृद्धा एव सर्वमपि विधा-स्यन्ति, के पुनर्वयमस्थापितमहत्तरा इति। अथैतदोषभयात् तरुणानेव पृच्छति, ततः स्थविराश्चिन्तयेयुः मौलकपत्रसदृशा- मौलम्-- आद्यं यत्पूर्ण परिपक्वप्रायम्, यदि वा- मूलकः कन्दविशेषस्तस्य यत्पत्रं निस्सारं तस्सदृशा वयम्, अत एव परिभूताः-परिभवपदमायाता इत्यतो ब्रजामो वयं गणान्तरमिति। अथाऽकिञ्चित्करत्वात् स्थविराणामनामन्त्रणादपि कानाम हानिः सम्पद्यते ? उच्यतेजुन्नमिएहि विहूणं, जं जूहं होइ सुद्धवि महल्लं। तं तरुणरहसपोइय-मयगुम्मइयं सुहं हंतुं // 630 // जीर्णाः परिणतवयसो ये मृमास्तैर्विहितं यत् यूथं भवतिसुष्ट्वप्यतिशयेन महत्- महासमूहाऽऽत्मकं तत् यूथम् / 'तरुण' त्ति भावप्रधानत्वात् निर्देशस्य तारुण्येन यौवनवशेन यद्भसश्चापलं गोरिगीतश्रवणादिविषयं तेन 'पोतितं' ति देशीवचनत्वादितस्ततः स्पन्दितं मदगुल्मितं मदेन घूर्णिणतचेतनं तत् सुखं हन्तुं विनाशयितुंसुखेन तद्व्यापाद्यत इति भावः। उक्तं च--"अतिरागप्रणीतान्यतिरभसकृतानिचातापयन्ति नरं पश्चात्क्रोधाध्यवसितानि च // 1 // " यतश्चैवमतः सर्वएव मिलिताः सन्तः प्रष्टव्याः / अत्रैव प्रायश्चित्तमाह-- आयरिय अवाहरणे, मासे वाहित्तणागमे लहुओ। वाहित्ताण य पुच्छा, जाणगसिद्धे तओ गमणं // 631 / / आचार्या गणं न व्याहरन्ति-नामन्त्रयन्ति मासलघु, शिष्यप्रतीच्छ.. कतरुणस्थविराणामन्यतमानविशेष्याऽऽमन्त्रयन्ति तदापि मासलघु / तेऽपि व्याहृताः सन्तो यदि नागच्छन्ति तदापि मासलघु / व्याहृत्य च सर्वमपि गणं, पृच्छा कर्तव्या। यथा-कतरत् क्षेत्रं प्रत्युपेक्षणीयम् ? ततो ज्ञायकेन क्षेत्रस्वरूपेपृष्टे शिष्टन कथितेसतिगमनं क्षेत्रप्रत्युपेक्षकैः कर्तव्यम्। आमन्त्रणस्यैव विधिमाहथुइमंगलमामंतणे- नागच्छह जो व पुच्छिओ कहई। तस्सुवरि ते दोसा तम्हा मिलिएसु पुच्छिना / / 632|| आवश्यके समापिते स्तुतिमङ्गलं कृत्वा तिस्रः स्तुतीर्दत्वेति भावः, सर्वेषामपि साधूनाम् आमन्त्रण कर्त्तव्यं, कृते चा मन्त्रणे च यः कश्चिन्नागच्छति आगतो वा क्षेत्रस्वरूपं पृष्टः सन्न कथयति तदा मासलघु, तथा तस्योपरि ते दोषाः स्तेनश्वापदादयो भवन्ति ये तत्रगतानां भविष्यन्ति। तस्मान्मिलितेषु सर्वेष्वपि पृच्छेत्, उपलक्षणत्वात्सर्वेऽपि च कथयेयुः। तत्रैव मतान्तरमुपन्यस्य दूषयन्नाह केई भणंति पुट्वं, पडिलेहिय एवमेव गंतव्वं / तंतुन जुइ वसही, फेडण आगंतु पडिणीए॥६३३|| केचित् भणन्ति पूर्व प्राक् प्रत्युपेक्षिते क्षेत्रे एवमेव गन्तव्यं न पुनस्तत्र क्षेत्रप्रत्युपेक्षकाः प्रेक्षणीया इति / तत्तु न युज्यतेन घटते,कुत इत्याह-- वसतेः कदाचित् स्फेटनं कृतं भवेत्, आगन्तुको वा प्रत्यनीकस्तत्र संवसेत्, अतः पूर्वदृष्टमपि क्षेत्रं प्रत्युपेक्षणीयम्। अथ कथं प्रष्टव्यमित्याहकयरी दिसा पसत्था, अमुगी सव्वेसि अणुमए गमणं / चउदिसितिदुए वा, सत्तगपणगं तिग जहन्ने // 634 / / यदा सर्वेऽपि साधवो मिलिता भवन्ति तदा गुरवो ब्रुवते- आर्याः ! पूर्णोऽयमस्माकं मासकल्पः क्षेत्रान्तरं सम्प्रति प्रत्युपेक्षणीयम्, अतः कतरा दिक् साम्प्रतं प्रशस्ता? ते ब्रुवतेअमुका पूर्वादीनामन्यतमा, एवं सर्वेषां यद्यसावनुमता अभिरुचिता तदागमनं कर्तव्यम्। प्रथमंचतसृष्वपि दिक्षुअथ चतुर्थ्यां कोऽप्यशिवादिरुपद्रवस्ततस्तिसृषु दिक्षु, तदभावे द्वयोर्दिशोस्तदसत्येकस्यां दिशि मच्छन्ति। ते चैकैकस्यां दिस्युत्कर्षतः सप्त व्रजन्ति।सप्तानामभावे पञ्चजधन्येनतुत्रयः साधवो नियमाद्रच्छन्ति। तत्र च ये आभिग्रहिका:-क्षेत्रप्रत्युपेक्षणार्थ प्रतिपन्नाभिग्रहास्ते स्वयमेव गुरूनापृच्छय गच्छन्ति। अथ न सन्त्याभिग्रहिकास्ततः को विधिरित्याहवेयावचगरं बा-लवुडखमयं वहतऽगीयत्थं / गणवच्छेइअगमणं, तस्सव असतीय पडिलोमं / / 635 / / वैयावृत्त्यकरम् 1 बालम् 2 वृद्धम् 3 क्षपकम् 4 वहन्तम्योगवाहिनम् 5 अगीतार्थम् 6 एतान्न क्षेत्रप्रत्युपेक्षणाय व्यापारयेत, किंतु-गणावच्छेदकस्य गमनं भवति / तस्य वाशब्दादापरस्य वा गीतार्थस्यासत्यभावे प्रतिलोम-प्रतिक्रमेण पश्चानुपूर्येत्यर्थः, एतानेवाऽगीतार्थानादिं कृत्वा व्यापारयेदिति संग्रहगाथासमासार्थः। अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाहआइतिए चउगुरुगा, लहुओ मासो उ होइ चरिमतिए। आणाइणो विराहण, आयरियाईसुणेयव्वा / / 636|| आदित्रिके वैयावृत्त्यकरबालवृद्धलक्षणे व्यापार्यमाणे चत्वारो गुरुकाः। चरमत्रिके तु क्षपकयोगवाह्यगीतार्थलक्षणे लघुको मासः, आज्ञादयश्च दोषाः, विराधना चाऽऽचायादीनां ज्ञातव्या। तामेव भावयतिठवणकुले न वसाहइ, सिट्ठावन दिति जा विराहणया। परितावणमणुकंपण, तिण्ह समुत्थो भवे खमओ॥६३७।। वैयाकृत्याकरः प्रेक्ष्यमाणोरक्ष्यति, रूषितश्चयान्याचार्यादिप्रायोग्यदायकानि स्थापनाकुलानि तानि न कथयति, शिष्टानि वा कथितानि परं तानि तस्यैव ददति, नान्यस्यतेन भावितत्वात्तेषांततोऽलभ्यमानेप्रायोग्येयाकाचिदात्मनो ग्लानादीनांवा विराधना तन्निष्पन्नमाचार्यस्यप्रायश्चित्तम्। अथक्षपकंप्रेषयतित