________________ विहार १२९५-अभिधानराजेन्द्रः - भाग 6 विहार पडिलेहसंकमविही, ठिए य मेरं पडिकहेऽहं // 620 // वर्षावासे अतीते - अतिक्रान्ते अष्टसु ऋतुबद्धमासेषु वारो मासे मासे क्षेत्रान्तरगमनलक्षणो विहारो भवति, अतः शरदादिरयं मन्तव्यः। तत्रच क्षेत्रप्रत्युपेक्षणाविधिं क्षेत्रान्तरसंक्रमणविधिं प्रत्युपेक्षिते च क्षेत्रे 'ठिए' त्ति स्थितानां सतां या काचिन्मर्यादा तामहं परिकथयिष्यामि। प्रतिज्ञातमेव यथाक्रमं व्याचिख्यासुराहनिग्गमणम्मिय पुच्छा, पत्तमपत्ते अइथिए वाऽवि। वाघायम्मि अपत्ते, अइथिए तस्स असतीए॥६२१|| यत्र वर्षावासः कृतस्ततः क्षेत्रान्निर्गमने पृच्छा, किं कार्तिकचतुर्मासिके निर्गन्तव्यम्, उताऽप्राप्ते आहोस्विदतिक्रान्ते ? उच्यते-- यदि कोऽपि व्याघातस्तदा अप्राप्ते वा अतिक्रान्ते वा निर्गच्छन्ति तस्य व्याघातस्याऽसत्यभावे प्राप्ते चातुर्मासिकदिने मार्गशीर्षप्रतिपदि निर्गत्य बहिर्गत्वा पारयन्ति। कः पुनव्यार्घात इत्याहपत्तमपत्ते रिक्खं, असाहगं पुन्नमासिणिमहो वा। पडिकूल त्ति य लोगो, मा वोच्छिइ तो अईअम्मि // 622 // प्राप्ते-चातुर्मासिकदिवसे अप्राप्ते वा यथाऽचार्याणाम् ऋक्ष नक्षत्रमसाधकम्-अननुकूलं पूर्णमासीमहो वा तदा भवेत्; कार्तिकीमहोत्सव इत्यर्थः / तत्र च लोको निर्गच्छन् साधून दृष्ट्वा अमङ्गलं मन्यमानः प्रतिकूला अस्मिन्महोत्सवप्रतिपन्थिनोऽमी इत्येवमावक्ष्यति ततोऽतीते निर्गन्तव्यम्। पत्ते अइथिए वा, असाहणं तेण णिति अप्पत्ते। नाऊ निग्गमकालं, पडिचरए एस बिति तहा।।६२३।। प्राप्ते अतिक्रान्त वा निर्गमनकाले नक्षत्रमसाधकम्, उपलक्षणत्वान्मेघो वा वर्षणान्नोपरंस्यते, पन्थानः कदमदुर्गमाश्च भविष्यन्तीत्यतिशयज्ञानवशेन परिज्ञाय तेन कारणेनाप्राप्ते चातुर्मासके निर्गच्छन्ति, निर्गमनकालं ज्ञात्वा प्रतिचरकान्-क्षेत्रप्रत्युपेक्षकान्प्रेषयन्तिा तथा तेष्वायातेषुसत्सु निर्गमनकाल उपढौकते / तच्च क्षेत्रं द्विधा दृष्टपूर्वम्, अदृष्टपूर्व च / उभयमपि नियमेन प्रत्युपेक्षणीयम्। ___ कुत इति चेदुच्यतेअप्पडिलेहिएँ दोसा, वसही भिक्खं च दुल्लहं होला। बालाइगिलाणाणव, पाउग्गं अहव सज्झाओ / / 624|| अप्रत्युपेक्षिते क्षेत्रे गच्छतामेते दोषाः / सा पूर्वदृष्टा वसतिः स्फोटिता पतिता वा भवेत्, अन्ये वा साधवस्तत्र स्थिता वा भवेयुः, भैक्षं वा दुर्लभं भवेत्, दुर्भिक्षाऽऽदिभावात् बालादीनां ग्लानानां वा प्रायोग्यं दुर्लभं भवेत्, स्वाध्यायो वा दुर्लभः स्यात्; मांसशोणितादिभिरस्वाध्यायिकैराकीर्णत्वात्। यतश्चैवमतः किं विधेयमित्याहतम्हा पुर्वि पडिले-हिऊण पच्छा विहीऍ संकमणं। पेसेइ जइ अणापु-च्छिउंगणं तत्थिमे दोसा॥६२५॥ तस्मात्पूर्व प्रत्युपेक्ष्य पश्चाद्विधिना संक्रमणं तत्र कर्त्तव्यम् / अथाप्रत्युपेक्षिते व्रजन्ति ततश्चतुर्लघु, आज्ञाभङ्गे चतुर्गुरु, अनवस्थायां चतुर्लघु / यद्वा-संयमविराधनादिकं प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम्। यदि पुनराचार्यो गणं गच्छमनापृच्छ्य क्षेत्रे प्रत्युपेक्षकान् प्रेरयति तदा मासलधु। तत्रच गणमनापृच्छय प्रेषणे इमे दोषाःतेणा सावए मसगा, ओम-सिवे सेह-इत्थि-पडिणीए। थंडिल्लवसहि उहा-ण एवमाई भवे दोसा // 626 / / स्तेना द्विविधाः-शरीरस्तेना, उपधिस्तेनाश्च / श्वापदाः-सिंहव्याघ्रादयः मशकाः-प्रतीताः अवमं-दुर्भिक्षम् अशिवंव्यन्तरकृतोपद्रवः शैक्षस्य वा तत्र मारिकं स्त्रियो वा स्नेहोद्रेकबहुलाः साधूनुपसर्गयन्ति, प्रत्यनीको वा कोऽप्युपद्रवति, स्थण्डिलानिवा तत्र न विद्यन्ते, वसतिर्वा नास्ति, 'उहाणे' त्ति उत्थितः स देशः एवमादयस्तत्रापान्तराले पथि गच्छतांदोषा भवन्ति। तत्र स्थाने प्राप्तानां पुनरिमे दोषाःपञ्चंत तावसीओ, सावय दुम्भिक्ख तेणपउराइं। नियगयउप्पटवायण, फेडणयाहरियपत्तीए॥६२७|| सग्रामः प्रत्यन्तो-म्लेच्छाधुपद्रवोपेतः, तापस्यो वा तत्र प्रचुरमोहाः संयमात्परिभ्रशयन्ति, श्वापदभयं दुर्भिक्षः, स्तेन-प्रचुराणि च तानि क्षेत्राणि, शिक्षकस्यान्यस्य वा कस्याऽपि साधोस्तत्र निजकाः स्वजनास्ते तमुत्प्रव्राजयन्ति, प्रद्विष्टो वा प्रत्यनीकस्तत्र साधूनुपद्रवति, उत्थितो वा सग्रामः, स्फुटिता वासा वसतिः, स्फिटितानि वा परिणामित्यानि तानि कुलानि येषां निश्रया तत्र गम्यते / अत्र चूर्णिकृत्"फिडियाणि वा ताणि कुलाणि जेसिं निस्साए गम्मइ” ति 'हरियपत्तीए' त्ति हरितपत्रशाकं बाहुल्येन तत्र भक्ष्यते।अथवा-तत्र देशे केषु-चिद्गृहेषु राज्ञा दण्डं दत्त्वा देशतापहारार्थमागन्तुकः पुरुषो मार्यते, गृहस्य चोपरिष्टादावृक्षशाखाचिह्न क्रियते, एतेन चिह्ननाऽस्माभिराख्यातमेवाभवद्यन्मारणेऽप्यस्माकं न दोष इति, यत एते दोषा अतः सर्वमपि गणमामन्त्र्य क्षेत्रप्रत्युपेक्षकाः प्रेषणीयाः। यदि पुनर्न सर्वमपि गणमामन्त्रयतेतत एते दोषाः। सीसे जइ आमंते, पडिच्छगा तेण बाहिरं भावं। जइ इअरे तो सीसा, तेऽवि समत्तम्मि गच्छंति॥६२८|| तरुणा बाहिरभाव, न य पडिलेहोवहिं न किइकम्म। मूलगपत्तसरिसगा, परिभूया वचिमो थेरा॥६२९।। यद्याचार्यः शिष्यान् केवलानामन्त्रयति कस्यां दिशि क्षेत्रप्रत्युपेक्षकाः प्रेषयितुमुचिता इति ततो मासलघु, आज्ञादयश्च दोषाः, प्रतीच्छकाश्च तेन कारणेन बाह्यं भावं गच्छेयुः। अहो अद्य शिष्या एवामीषां सर्वकार्येषु प्रमाणं न वयमित्यतो रागद्वेषदूषितत्वात्को वा नामामीषामुपकण्ठे स्थास्यतीति / यदि इतरान् प्रतीच्छकानामन्त्रयति ततः शिष्याः बर्हिर्भावं गच्छेयुः, प्रतीच्छका एव तावदमीषां प्र