________________ विहार 1293 - अभिधानराजेन्द्रः - भाग 6 विहार दिकं लप्स्येऽहमिति कृत्या गच्छति, एवमादीनि कारणानि मासकल्पयोग्यक्षेत्रं परित्यजन्नवलम्बते। अथ तान्येव व्याख्यानयतिअपुष्वा विवित्तबहु-स्सुयाय परियारवंच आयरिया। परियारवज्जसाहू, चेइयपुष्वा अभिनवा वा // 612 / / गाहिस्सामि व नीए, सन्नी वा भिक्खुमाइवुग्गाहो। बहुगुणअपुष्वदेसे, वइगाइसु खीरमादीणि // 613 // अपूर्वा-अदृष्टपूर्वा विविक्ता निरतिचारचारित्रा बहुश्रुता नाम-युगप्रधानागमा विचित्राः श्रुतवन्त उपचारवन्तश्च बहुसाधु-समूहपरिवृता एवंविधा आचार्या अमुके नगरे तिष्ठन्ति तानहं वन्द्रिष्ये, साधवोऽप्येवंविधगुणोपेता एव नवरं परिवारवस्तेि भवन्ति / चैत्यानि अपूर्वाणि वा चिरन्तनानिजीवन्तस्वामि-प्रतिमादीनि अभिनवानिवा तत्कालकृतानि एतानि ममा-दृष्टपूर्वाणीति द्ध्या तेषां वन्दनाय गच्छन्ति / तथा निजकान् या संज्ञातकान् ग्राहयिष्यामि बोधयिष्यामीत्यर्थः / संज्ञिनो वा श्रावकान् भिक्षुकादिः कुप्रावचनिकपरिव्राजकादिः परपाषण्डी व्युद्ग्राहयति-तेषां स्थिरीकरणा) , देशोवा बहुगुणः सुलभ-भैक्षतादिगुणोपेतोऽपूर्वश्च वर्तते, वजिकायां गोकुले आदिशब्दात्-प्रचुरद्रव्यं प्रतिग्रामादिषु वा क्षीरदधिघृतावगाहिमादीनि लभ्यन्ते एवमादिभिः कारणमसिकल्पप्रायोग्याणि क्षेत्राणि परित्यजति। अत्रदोषान् दर्शयति-- अद्धाणे उव्वाता-भिक्खोवहिसाणतेणपडिणीए। ओमाण अभोज्जघरे, थंडिलें असतीय जे जत्थ // 614|| ते साधवोऽध्वनि व्रजन्त उद्वाताः-परिश्रान्ता सन्तश्चिन्तयन्ति-अत्र ग्रामे गुरवः स्थास्यन्ति, आचार्याश्च तं ग्रामं व्यतीत्याऽग्रतो गतास्ततस्ते छिन्नायामाशायां व्रजन्तो यदनागाढमागाढं वा परिताप्यन्ते तन्निष्पन्नं प्रायश्चित्तम्। भैक्षंवा तत्र स्फिटितायां वेलायां न प्राप्यते, अत्यन्तपरिश्रान्ता मार्ग एवोपधिं परित्य-जेयुः / अकाले पर्यटतांश्वान उपद्रवं कुर्युः, स्तेना वा तेषामुपछि तानेव वा अपहरन्ति। प्रत्यनीको वातदानीं विजनं मत्वा हन्यादा / मारयेद्वा / अपमानं स्वपक्षतः परपक्षतो वा भवेत् / अभोज्यगृहेषु वा रजकादिसम्बन्धिषु भिक्षां गृह्णीयुः, तत्रैव वा तिष्ठेयुः, ततश्च प्रवचनविराधना / स्थण्डिलानि वा तत्र न भवेयुः तेषामभावे संयमात्मविराधना। एवं ये यत्र दोषा भवन्ति तेऽत्र योजयितव्याः। अथ द्वितीयपदमाहबितियपए असिवाई, उवहिस्स व कारणाव लेवो वा। बहुगुणतरं व गच्छे, आयरियाई व आगाढे // 615 / / द्वितीयपदे अशिवादीनि कारणानि विज्ञाय व्यतिव्रजेयुरपि तत्र यदपान्तराले क्षेत्रं तदशिवगृहीतम्, आदिशब्दाद् - अवमौदर्यराजद्विष्टादिदोषयुक्तं स्वाध्यायो वा तत्र न शुद्ध्य-तीत्यादिपरिग्रहः / उपधिर्वस्त्रपात्रादिरूपस्तत्र न लभ्यते, पुरोवर्तिनि तु ग्रामादौ लभ्यते अतस्तस्य कारणात् लेपो वाऽग्रतोवर्तिनि ग्रामे लभ्यतेन तत्र, गच्छस्य वा बहुगुणतरं तत् क्षेत्रं स्थानप्रत्यनीकाद्यभावात् भिक्षात्रयवेलासद्भावात्, आचार्यादीनां वा प्रायोग्यं तत्र विद्यते / यता- 'आयरियाई व' ति सम्यक्त्वं ग्रहीतुकामाः केचिदाचार्याणां दर्शनं कान्ति आदिशब्दात्परप्रवादी वा कश्चिदुद्धोषणं कारयेत्, तथा-शून्याः परप्रवादाः, इत्यादि, ते चाचार्या वादलब्धिसम्पन्ना अतस्तन्निग्रहार्थमागाढयोगवाहिनां वा प्रायोग्यमर्वाक् न प्राप्यते, परस्मिन् ग्रामे तु प्राप्यते / यद्वा-आगाढं सप्तधा, तद्यथाद्रव्याऽऽगाढं क्षेत्राऽऽगाढं कालागाढं भावागाढं पुरुषागाढं चिकित्सागाढं सहायागाढम्। तत्र द्रव्यागाढमेषणीयं द्रव्यं यत्रनलभ्यते, क्षेत्रागाढं नामतदतीव खलु क्षेत्रं स्वल्पभैक्षा-दायकमित्यर्थः, कालागाढं तत्क्षेत्रं न ऋतुक्षम, भावागाढंग्लानादीनां प्रायोग्यं तत्र न लभ्यते, पुरुषागाढमाचार्यादिपुरुषाणां तदकारकम्, चिकित्सागाढं वैद्यास्तत्र न प्राप्यन्ते, सहायागाढ सहायास्तत्र न सन्तीति। एएहि कारणेहिं, एक्कदुगंतरतिगतरं वाऽवि। संकममाणो खेत्तं, पुट्ठो विजओ नऽतिक्कमइ // 616|| एतैरशिवादिभिः कारणैरेकं वा द्वे वा त्रीणि वाऽपान्तरालक्षेत्राणि अतिक्रम्यापरं क्षेत्रं संक्रामन् पूर्वोक्तदोषैः स्पृष्टोऽपि न दोषवान् भवति, यतो यस्मात्तीर्थकराज्ञामसौ नातिक्रामति। यद्वा यतो नाम यतनायुक्तः। निकारगणमणम्मि उ, जे चिय आलंबणाउ पडिकुट्ठा। कमम्मि संकमंतो, तेहिं चिय सुज्झई जयणा // 617 // निष्कारणे अशिवाद्यभावे यद्-- गमनमपान्तरालक्षेत्रपरित्यागेन क्षेत्रान्तरसंक्रमणं तत्र तान्येवाऽऽचार्यसाधुचैत्यवन्दनादीनि आलम्बनानि प्रतिकुष्टानि-प्रतिषिद्धानि कार्येद्वितीयपदे ज्ञानदर्शनादिविशुद्धिनिमित्तं संक्रामन् तैरेवाचार्यादिभिरा-लम्बनैर्यतनायुक्तेषु शुद्ध्यति-अदोषभाग् भवतीत्युक्तो मास-कल्पविहारः। बृ०१ उ०३ प्रक०। (18) अथ विहारद्वारविषयं विधिमभिधित्सुराहनिप्फत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा। आयरियउवज्झाया, भिक्खू थेरा य खुड्डा य॥६१८॥ शिष्याणां निष्पत्तिं कुर्वन्तःस्थविरा-गच्छवासिनः साधवो विहरन्तिअप्रतिबद्ध विहारं विदधति। तेषां चेत्थं विहरतामियं मर्यादासामाचारी! तत्र गच्छवासिनस्तावत्पञ्चाविधा:- तद्यथा- आचार्यः, उपाध्यायो, भिक्षवः, स्थविराः, क्षुल्ल-काश्चेति। धीरपुरिसपन्नत्तो, सप्पुरिसनिसेविओ अमासविही। तस्स पडिलेहगा पुण, सुत्तत्थविसारया भणिया॥६१६॥ धीरपुरुषैस्तीर्थकरगणधरैः प्रज्ञप्तः, सत्पुरुषैश्च जम्यूप्रभवादिभिनिषेवितुमनुष्ठितो मासकल्पविधिः। तस्य पुनर्मासकल्पविधेः प्रत्युपेक्षकाः सूत्रार्थविशारदाः साधवो भणिता भगवद्भिः। स पुनर्विहारः शरदादिर्भवति। कथमिति चेदुच्यते-- वासावासेऽतीए, अद्वसु वारो अतो उसरदाई।