________________ विहार 1292 - अभिधानराजेन्द्रः - भाग 6 विहार तएणं अहं गोयमा! अण्णया कयाइ पढमं सरदकालसमयंसि अप्पबुटिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ जगराओ कुम्मारगामं णयरं संपट्ठिए विहाराए। (सू०५४२+) | भ०१५ श०। ('गोसालग' शब्दे तृतीयभागे 1016 पृष्ठे व्याख्या गता।) (वर्षासु साधर्मिकाणामुदन्तवहनार्थ चतुः पञ्च योजनानिगच्छेत्, तत्र वस्त्रग्रहणम् 'उवहि' शब्दे द्वितीयभागे 1067 पृष्ठे उक्तम्।) (16) वर्षासुव्यतिक्रान्तासु विहरेत्। साम्प्रतं गतेऽपि वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याहअह पुण एवं जाणिज्जा चत्तारि मासा वासावासाणं वीतिकंता हेमंताण य पंच दस रायकप्पे परिसिते अंतरा से मग्गे बहू पाणा० जाव ससंताणगा णो जत्थ बहवे. जाव उवागमिस्सन्ति, सेवं नया णो गामाणुग्गामं दुनिया / / अह पुण एवं जाणिजा चत्तारि मासा वासावासाणं वीतिकंता हेमंताण य पंच दस रायकप्पे परिवुसिए अंतरा से मग्गे अप्पंडा० जाव ससंताणगा बहवे जत्थसमण जाव उवागमिस्संतिय सेवं णमा संजयामेव गामाणुग्गामं दूइजिजा। (सू०-११३) अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः; कार्तिकचातुर्मासिकमति-क्रान्त-मित्यर्थः, तत्रोत्सर्गतो यदिन वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम्, अथवृष्टिस्ततो हेमन्तस्य पञ्चसुदशसुवा दिनेषु पर्युषितेषु- गतेषु गमनं विधेयम्, तत्राऽपि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्नचतत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशीर्य यावत्तत्रैव स्थेयं, तत ऊर्ध्वं यथा तथाऽस्तु नस्थेय मिति / एवमेतद्विपर्ययसूत्रमप्युक्तार्थम्। आचा०२ श्रु०१चू०३ अ०१ उ०।दश। नि० चू०। ओघ० / ग०। (17) हेमन्तग्रीष्मयोश्चरितुं कल्पतेकप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिम्हासु चारए॥३७|| अस्य सम्बन्धमाहदुस्संचर बहुपाणा-दिकाउँवासासु जंन विहरिंसु। तस्स उ विवजयम्मि, चरन्ति अहसुत्तसंबंधो॥६०७।। वर्षासु कईमाकुलतया दुस्संचरं बहुप्राणहरितादिसंकुलं वा मेदिनीतलं 'भवतीति कृत्वा यत्तदानीं न विहृतवन्तः, तत एव तस्य वर्षावासस्य विपर्यत ऋतुबद्धकालेषु संचरमकल्पप्राणजातीयं वा मत्वा चरन्ति। अथैध पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्ध इत्यनेन सम्बन्धेनाऽऽयातस्याऽस्य (सू० 37) व्याख्याकल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां या हेमन्तग्रीष्मयोरष्टसु ऋतु-बद्धमासेषु चरितुंग्रामाऽनुग्रामंपर्यटितुमिति सूत्रार्थः। अथ नियुक्तिविस्तरः पुण्णेऽनिग्गमें लहुगा, दोसा ते चेव उग्गमादीया। दुबलखमगगिलाणे, गोरस उवहिं पडिच्छंति // 605|| यदि पूर्ण वर्षावासे ततः क्षेत्रान्न निर्गच्छन्ति ततः चत्वारो लघुकाः, त एव चोदमाशुद्धिस्त्रीसमुत्थादयो दोषायेमास-कल्पप्रकृते दर्शिताः / अपरे चामी दोषाः 'दुब्बल' इत्यादि,ये साधवो वासेन दुर्बला:-कृशीभूतशरीरास्ते कदा वर्षावासं पूरयिष्यन्त इत्येवं निर्गमनं प्रतीक्षमाणा यत्परितापनादिकमवाप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् / क्षपका वा विकृष्टतपोनिस्तप्तवपुषो निर्गमनं प्रतीक्षन्तेग्लानो वा अधुनोत्थितो दुःखं तत्र तिष्ठति तत्र चतुर्मासादूर्ध्वमप्यवस्थाने क्षेत्रस्य चमढिततया तथाविधपश्वाद्यभावात्, गोरसाऽऽधारको वा कश्चित् सिन्धुदेशीयः प्रव्रजितः, सोऽपि गोरसाभावान्न तत्र स्थातुं शक्रोति, उपधिर्वा पूर्वगृहीतः परिक्षीणः, अतस्तम् अभिनवमुत्पादयितुंसाधवो निर्गमन प्रतीक्षन्ते, ततस्तेन विना यत्परिताप्यन्ते तन्निष्पन्नमनिर्गच्छतां प्रायश्चित्तम्। अथ निर्गच्छन्ति तर्हि किं भवतीत्याहएएन हॉति दोसा, बहिया सुलभं च भिक्ख ओहीय। भवसिद्धियाउ आणा, बिइयपय गिलाणमादीसु॥६० . निर्गच्छतामेते अनन्तरोक्ता दोषा न भवन्ति। बहिश्चबहिमिषु विहरतां भैक्षं सुलभं भवति, तेन च दुर्बलक्षपकादीनामाप्यायना स्यात, उपधिश्च बहिःप्राप्यते, भवसिद्धिकाश्च सत्त्वाबोधमासादयन्ति, केचिदा तदानीमाचार्याणां दर्शनमभिलषन्ति तेषां च विरत्यादिप्रतिपत्तिः, आज्ञा च भगवतां-तीर्थकृतां कृता भवति, यत् एवमतो निर्गन्तव्यम्। द्वितीयपदे ग्लानादिषु कारणेषु निर्गच्छति आदिशब्दाद्-अवमौदर्यादिपरिग्रहः, अत्र च यतना यथा मासकल्पे कृता तत्र 'भागतिभागद्धे जयन्ति निच्छे अलम्भे वा' इत्यादिना दर्शिता तथैव द्रष्टव्या। तम्हाउ विहरियव्वं, विहिणा जे मासकप्पिया गामा। छह वंदणादी, तइ लहुगा मग्गणा पच्छा॥६१०।। यदिग्लानादिकारण न स्यात्ततो अवश्यं विधिना मासकल्पः, प्रकृतोक्ता ये मासकल्पप्रायोग्या ग्रामास्तेषु विहर्त्तव्यम्। अथमासकल्पप्रायोग्याणि क्षेत्राणि चैत्यवन्दनादिभिः कारणैर्वक्ष्यमाणैः छईयति तदा यावन्ति क्षेत्राणि परित्यज्य गच्छति 'तइ' त्ति तावन्ति चतुर्लघुकानि 'मग्गणा पच्छत्ति द्वितीयपदेमासकल्पप्रायोग्यक्षेत्राणामपि परित्यागे ये गुणास्तेषां मार्गणा-अन्वेषणा प्रत्याहिता। अथ वन्दनान्येव कारणानि प्रतिपादयतिआयरियसाहुवंदण-चेइयनीयल्लए तहा सन्नी। गमणं च देवदंसण-वइगासु य एवमाईणि // 611 / / आचार्याणां साधूनां चैत्यानां वा वन्दनाथ गच्छन्ति, निजका:-- संज्ञातकाः असंज्ञिनः- श्रावकास्तेषामुभयेषामपि दर्शनार्थ देशदर्शनार्थं वा गमनं करोति / व्रजिकासु वा क्षीरा