________________ विहार 1286 - अमिधानराजेन्द्रः - भाग 6 विहार कैः सह विहारं कुर्यात् कैः सह वा न कुर्यात् ? तत्राऽपि प्रथमं येन मुनिना छडास्थेनापि साकं केवली विहरेत्, तत्स्वरूपं गाथाद्वयेनाऽऽहगीअत्थे जे सुसंविग्गे, अणालस्सी दढध्वए। अक्खलियचरित्ते सययं, रागद्दोसविवजए॥४१॥ निहविअअट्ठमयठाणे, सोसि (य) कसाए जिइंदिए। विहरिजा तेण सद्धिं तु, छउमत्थेण वि केवली // 42 // अनयोव्याख्या-गीतः-परिज्ञातोऽर्थः छेदसूत्रस्य येन स गीतार्थः, यदा--गीतार्थावस्य विद्येते इत्यभ्रादित्वादप्रत्यये गीतार्थः। तत्र गीतम्सूत्रम् अर्थः-तद्व्याख्यानम्। उक्तं च श्रीबृहत्कल्पभाष्यपीठिकायाम् "गीयं गुणितेगट्ठ, विदियत्थं खलु वयंति गीयत्थं / गीएण स अत्थेण य, गीयत्थो वा सुयं गीयं / / 1 / / गीएण होइ गीई, अत्थी अत्थेण होइ नायव्वो। गीएणय अत्थेण य, गीयत्थं तं वियाणाहि॥२॥" यः सुसंविग्गे' त्ति अत्यर्थ संवेगवान् आलस्यमस्यास्तीति आलस्यी न आलस्यी अनालस्यी आलस्यरहित इत्यर्थः, दृढानि-- निश्चलानि व्रतानि-नियमा उत्तरगुणा इति यस्यासौ दृढव्रतः, अस्खलितम्अतीचाररहितं चारित्रं मूलगुणरूपं यस्याऽसौ अस्खलितचारित्रः, सततमनवरतं रागद्वेषविवर्जितः तत्र मायालोभात्मको रागः क्रोधनामात्मको द्वेष इति, निष्ठापितानिक्षयं नीतान्यष्टौ मदस्थानानिमानभेदा जातिकुलरूपबललाभश्रुततपोविभवभदाख्या येनाऽसौ निष्ठापिताष्टमदस्थानः, शोषिताः कषायाः सभेदाः क्रोधमानमायालोभाख्याः, नोकषायावा येनासौ शोषितकषायः, जितान्यात्मवशीकृतानीन्द्रियाणि श्रोत्रदृगनासाजिह्वात्वगमनोरूपाणि येनाऽसौ जितेन्द्रियः स्यादिति शेषः / एवंविधेन तेन छदास्थेनाऽपि सार्द्ध केवलमेकं ज्ञानमस्यास्तीति केवली विहरेत्- विचरेत् / तुशब्दादेकत्र वसेदपि / यद्वा-- तेन छास्थेन सार्द्ध केवल्यपि विहरेत् छपस्थस्तु तेन सार्द्ध सुतरां विहरेदित्यर्थः / इति विषमाक्षरेति लक्षणे गाथाछन्दसी॥४१॥४२॥ ग०२ अधि०। (यैः सह विहारादिन विधीयते ते 'अगीयत्थ' शब्दे प्रथमभागे 162 उक्ताः।) (केन सार्द्ध केवली विहरेदिति 'परदारगमण' शब्दे पञ्चमभागे 527 पृष्ठे दर्शितम्।) नो खलु कप्पइ देवाणुप्पिया ! समणाणं० जाव पमत्ताणं विहरित्तए। (सू०५५४) ज्ञा०१ श्रु०५ अ०। (12) वर्षासुन विहरेत्नो कप्पइ निग्गंथाणंवा निग्गंथीण वावासावासासु चरित्तए॥३६|| अस्य सम्बन्धमाह-- अहिगरणं काऊण व, गच्छइ तं वाऽवि उवसमेतुं जे। पुव्वं च अणुवसंते, खामेस्सं वयति संबंधो // 562| अधिकरणं कृत्वा कषायानुबद्धमना अन्यत्र ग्रामादौ गच्छति, यता-- | तदधिकरणमुत्पन्नं श्रुत्वा कश्चिद्धर्मश्रद्धावान्, तदुपशमयितुमागच्छति। 'जे' इति पादपूरणे। यदिवा पूर्वमनुपशान्तः सन्नन्यत्र ग्रामादौ गतस्तत्र च स्वयमन्योपदेशेन वा क्षमयिष्याम्यहं तं साधुमिति / परिणाममुपगतो भूयस्तत्रैव ग्रामे व्रजति, तच गमनमनेन सूत्रेण वर्षासु प्रतिषिध्यते इत्ययं पूर्वसूत्रेण सहास्य सम्बन्धः। __ अथास्यैव तृतीयं सम्बन्धप्रकारं व्याख्यातिअहवा अखामियम्मि, त्ति कोइ गच्छेज ओसवणकाले। सुभमवितम्मि उगमणं, वासावासासु चारेउं ||563|| अथवा अनुपशान्त एवान्यत्र गतस्तत्र च वर्षासुपर्युषणाकाले समायाति सत्यधिकरणे मया न क्षमितम्; अतः कथं मे सांवत्सरिकप्रतिक्रमणं विधीयमानं शुद्धमेष्यतीति परिभाव्य यत्र द्वितीयः साधुश्चतुर्मास्यां स्थितोऽस्ति तत्राधिकरणं क्षमयितुं गच्छति, तच तत्र गमनं शुभमपि वर्षावर्षास्वनेन सूत्रेण वारयति इत्यनेन सम्बन्धेनायातस्याऽस्य (सू० ३६)व्याख्या-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनांवावर्षोपलक्षिता वर्षा वर्षावर्षास्तासु। 'चर' गतिभक्षणयोरिति धातुरत्र गत्यर्थो गृह्यते ग्रामात् ग्रामं पर्यटितुमित्यर्थः / यदा-भक्षणार्थोऽप्यत्र गृह्यते, तथाहि-भक्षणंसमुद्देशनं तच्च यथा ऋतुबद्धेसाधूनां तथा वर्षासु कर्तुं न कल्पते, तदानीं हिचतुर्थभक्तादिप्रत्याख्यानपरायणैर्भवितव्यं विकृतीनां चाभीक्ष्णं ग्रहणं न कर्तव्यमिति सूत्रार्थः। अथ नियुक्तिविस्तरःवासावासो, दुविधो, पाउसवासो उ पाउसे गुरुगा। वासासु होति लहुगा, ते वि य पुण्णे अणितस्स ||16|| वर्षा एव वासो वर्षावासः, स द्विधा--प्रावृद, वर्षा रात्रश्च / तत्र श्रावणभाद्रपदमासौ प्रावृडुच्यते, आश्विनकार्तिको तु वर्षा रात्रः। आह च चूर्णिकृत- "पाओसोसावणो भद्दवओअ, वासारत्तो आसोओ कत्तिओ अत्थि।" तत्र यदि प्रावृषि ग्रामानुग्रामं चरति तदा चतुर्गुरुकाः, वर्षासु विचरतश्चतुर्लघुकाः,तएव चत्वारो लघुकाः पूणे वर्षारात्रे अनिर्गच्छतः प्रायश्चित्तम्। तत्र प्रावृषि विहरतस्तस्य दोषानाहवासावासविहारे, चउरो मासा हवंतऽणुग्धाया। आणाइणो यदोसा, विराहणा संजमायाए॥५६५|| इह वर्षावासः श्रावणो भाद्रपदश्चाभिधीयते, तत्र विहारं कुर्वतश्चत्वारो मासा अनुदाता गुरवः प्रायश्चित्तं भवति। आज्ञादयश्च दोषाः, विराधना च संयमाऽऽत्मविषया। तामेव भावयतिछक्कायण विराहण, आवडणं विसमखाणुकंटेसु / वुज्झण अमिहणरुक्खो,ल्ल सावय तेणे गिलाणे य॥५६॥ वर्षासु विहरतः षट्कायानां विराधना, तथा आपतनं वर्षे निपतति वर्षाकल्पादितीमनभयाद् वृक्षादेरधस्तिष्ठतः तदीय-शाखादिना शिरस्य-भिधातो भवेत्, यद्वा-आपतनं कर्दमे पिच्छिल्ले प्रविश्य लचन् विषमे च भूप्रदेशे निपतेत्, स्थाणुकीलकः स पादयोरास्फालेत् कण्टकैर्वा पादतले विद्ध्येत्, उदकवाहेन वा गिरिनद्यां या वाहनमु