________________ विहार १२८८-अभिधानराजेन्द्रः - भाग 6 विहार त्यर्थः / अथवा-मुण्डो लोचेन मुण्ड एष द्विविधोऽपि मुण्डो गृहस्थत्वं करोति, न तु रजोहरणदण्डपात्रादि धारयति, तेन सारूपिकाद्भिन्नः स त्रयाणां वर्षाणामारतोऽर्वाक यानि प्रव्राजयति-मुण्डितानि करोति तानि स्वयं च यावत्रीणि वर्षाणि न पूर्यन्ते तावत्सर्वं पूर्वाचार्यस्याऽऽभवति। अप्पावितें सच्छंदा, तिण्हं उवरिंतु जाणि पव्वाबे। अपव्वावियाणिजाणिय, सो दियजस्सिच्छए तस्स॥१४२।। यानि पुनस्त्रयाणां वर्षाणामारतोन प्रवाजितानि-नमुण्डितानि कृतानि किं तु सशिखाकानि वर्तन्ते तानि स्वचछन्दात् यस्मै प्रयच्छति तस्याऽऽभवन्ति, त्रयाणां वर्षाणामुपरिपुनर्यानि प्रव्राजयति--मुण्डितानि करोति यानि वा प्रव्राजितानि सशिखाकानि तिष्ठन्ति सोऽपि च स्वयमात्मना यस्य सकाशे इच्छति-प्रतिभासते तस्य समीपे प्रव्राजयति प्रव्रजति चतानि यस्येच्छति तस्याऽऽभवन्ति त्रिवर्षमर्यादायाः परिपूर्णीभूतत्वात्। गंतूणं जइ वेत्ती, अहयं तुझं इमाणि अन्नस्स। एयाणि तुज्झनाहं, दो वि तुज्झं दुवेऽण्णस्स / / 143|| त्रिवषप्रमाणायां मर्यादायामतिक्रान्तायां पूर्वाचार्यस्य समीपंगत्या यदि ब्रूते- अहं युष्माक्रमन्तिके प्रव्रजिष्यामि, यानि पुनरिमानि मम समीपे उपस्थितानितान्यन्यस्याऽमुकस्य पार्श्वे प्रव्रजिष्यन्ति। अथवा-एतानि युष्माकमहमन्यस्य, अथवा-द्वावपि एतान्यहं च युष्माकं, यदि वाद्वावपि एतान्यहं चान्यस्य तदा यदिच्छति तत् प्रमाणम्। तदेवाहछिण्णम्मि उ परियाए, उवट्ठियंते उपुच्छिउं विहिणा। तस्सेव अणुमएणं, पुवदिसा पच्छिमा वाऽवि॥१४॥ छिन्ने पर्याये; वर्षत्रयमर्यादायामतिक्रान्तायामित्यर्थः तस्मिन् स्वयमुपतिष्ठति अन्यांश्चोपस्थापयति विधिना, तं दृष्ट्वा तस्यैवोपतिष्ठतोऽनुमतेनेच्छया पूर्वा दिक् पश्चिमा वा दीयते, किमुक्तं भवति- यदि पूर्वाचार्यमिच्छति ततः पूर्वाचायस्याऽऽ-भवति / अथाऽन्यं त_न्यस्य शेषतदुपस्थापितविषयेऽपिच तस्येच्छा प्रमाणं, सा च प्रागेवोपदर्शिता। स यदि सम्यगुपशान्तः सन् स्वकमाचार्यमाश्रयते तर्हि स प्रव्राजनेन संग्रहीतव्यः, यदि पुनर्न संगृह्णाति ततः प्रायश्चित्तं मासलघु / अन्यच तेनाऽसंग्रहणे यदि तस्य श्रद्धाभङ्गो भवति, यदपि चान्यस्य समीपे दूर गच्छन् पथि स्तेनश्वापदादिभ्योऽनर्थ प्राप्नोति तन्निमित्तमपि तस्य प्रायश्चित्तं तस्मादवश्यं संग्रहीतव्यः। संविग्गमुहिसंते, पडिसेवंतस्स संथरे गुरुगा। किं अम्हं तु परेणं, अहिकरणं जं तु तं तेसिं // 14 // अथान्यस्य समीपे प्रव्रजन् स पूर्वाचार्यमात्मीयं संविनिमुद्दिशति / प्रकाशयति, तस्मिन् संविग्नमुद्दिशति यस्य समीपे प्रव्रजितुमिच्छति स यदि प्रतिषेधति, यथा-किमस्माकं परेण-परकीयेन यत्येषामधिकरणं तत्तेषां भवत्विति तस्य एवं प्रतिषेधत प्रायश्चित्तं चत्वारो गुरुकाः। एतच संस्तरणे सति द्रष्टव्यम्। अथासंस्तरन् प्रतिषेधति ततः शुद्धः। अथ स पूर्वाचार्यस्यैव पार्श्वे कस्माल्लिङ्गं न प्रतिपद्यते ? उच्यते-- आचार्याः, यदि वा-यत्र यत्रतेपूर्वाचार्या विहरन्तितत्र तत्र तस्य सागारिकं किमपि अतिदूरे वा ते उपलभ्यन्ते, ग्लानो वा पूर्वाचार्यों जात इति। एवं खलु संविग्गे, संविग्गे वारणा न उदिसणा। अन्भुवगतों जं भणती, पच्छ भणंतेण से इच्छा / / 146|| एवमुक्तेन प्रकारेण संविग्ने पूर्वाचार्ये उद्दिश्यमाने खलु विधिरुक्तः। अथ स पूर्वाचार्यमात्मीयमसंविग्नमुद्दिशति, तर्हि तेनाऽसंविग्रे पूर्वाचार्ये उद्दिश्यमाने तस्य वारणाप्रतिषेधः कर्तव्यो न दातव्या तस्य प्रव्रज्या गुरुनिन्दकत्वादिति भावः। न च स तं पूर्वाचार्यमसंविनमुदिशेत्, एष भगवतां परमगुरूणामुपदेशः। 'न उदिसणा' इत्यादि, अथ स ब्रूते नाहं संविनमसंविनंवा पूर्वाचार्यमुद्दिशामि, किंतु-त्वमेव मभाचार्य इति, तर्हि यदि पूर्वाचार्यस्य नोद्देशना, यं वाऽभ्युपगतस्तं प्रत्येवं भणति, ततः स प्रव्राजनीयः। अथ स प्रवाजितःसन्पश्चाद्वदेत् यथा पूर्वाचार्यस्याऽहं न युष्माकमिति तत आह-पश्चादेवं भणति, तस्मिन्न 'से' तस्य इच्छा, किंतु-यमभ्युपगतस्तस्यैव सः। एतदेव स्पष्टतरमाहएमेव निच्छिऊणं, उट्ठतो पच्छ तेसिमाउट्टो। इयरेहि व रोसवितो, सच्छंददिसं पुणो न लभे // 147|| उपतिष्ठन् प्रव्रज्यां जिघृक्षुरेवमेव मे त्वमाचार्य इति निश्चित्य प्रव्रजितः सन् यः पश्चात्तेषां पूर्वाधार्याणामात्मीयानामावृत्तो जायते, इतरैर्वा येषां समीपे प्रव्रजितस्तैर्वा रोषितः सन् अहं पूर्वाचार्यस्यैवनयुष्माकमितिस एवं बुवाणः पुनः स्वच्छन्ददिशंस्वेच्छया दिशं न लभते, किं तु यमभ्युपगतस्तस्यैव स इति। यस्तु पश्चात्कृतो न ज्ञातो यस्यानुज्ञातस्याऽपि पूर्वदिक्संग्रहणे भावोन ज्ञायते तस्य मलङ्गदाने विविधमाहअण्णाते परियाए, पुण्णे न कहे जो समुहेंतो। लजाएँ मा य गेज्झति, मा वन दिक्खिन मे भयणा // 148|| अज्ञातः सन् यः पर्याये पूर्णेऽपि समुपतिष्ठन् आत्मानं न कथयति यथाहममुकस्याऽऽचार्यस्य पश्चात्कृत इति। कस्मान्न कयमति इतिचेदत आह- लज्जया, यदि वामा तत्पाक्षिकेण केनाऽप्यहं ग्रहीष्ये, अथवामाम् अमी पश्चात्कृतं ज्ञात्वा न दीक्षयेयुरिति भजनात्-विकल्पनात् न कथयति। नाते व जस्स भावे, न नज्जए तस्स दिजए लिंगे। दिण्णम्मि दिसिं नाहिति, कालेण व सो सुणंतो वा||१vel ज्ञातेवा पश्चात्कृततया तस्मिन् प्रव्रज्यार्थमुपस्थितेयस्य भावोन ज्ञायते केनाऽपि कारणेन पूर्वाचार्यसमीपंन गत इति तस्य ज्ञातस्याज्ञातस्य वा लिङ्ग दीयते, दत्ते च लिङ्गे स आत्मीयां दिशं कालेन पूर्वाचार्यस्य लक्षणं हास्यति, स वा पूर्वाचार्यः कालेन परम्परया शृण्सन्तं ज्ञास्यति, ततो यस्य समीपे ? यस्य समीपमुपमच्छतु। व्य० 4 उ०।