________________ विहार 1287 - अभिधानराजेन्द्रः - भाग 6 विहार पूर्वस्थिते सूत्रादि गृह्णाति अन्यस्यागन्तुकस्य समीपे सूत्रादि जिघृक्षु मेधाविनं शिष्यं प्रेषयति, यदिवा-गीतार्थे गणं निक्षिप्य स्वयं वाचयति तदा तत्क्षेत्रं तस्यैव मूलागन्तुकस्याअथ गणमनिक्षिप्त अगीतार्थे वा गणं निक्षिप्य सूत्रादि गृह्णाति तदा ग्राहयितुः क्षेत्रम्, अगीतार्थस्य च गणं निक्षिपतः प्रायश्चित्तं चतुर्गुरुकमिति / तथा साधारणे च द्वयोराचार्ययोः क्षेत्रे सूत्रादिग्रहणचिन्तायामेष एव गमोज्ञातव्यस्तद्यथा-द्वयोः साधारणक्षेत्रे एको यद्यपरस्य समीपे सूत्रादिकं ग्रहीतुकामः प्राज्ञ विनीतं शिष्यं प्रेषयति,गण वा गीतार्थे निक्षिप्य स्वयं गृह्णाति तदोभयोरपि साधारणम् / अथ गणमनिक्षिप्यागीतार्थे वा निक्षिप्य वाचयति तदाऽध्यापयितुः क्षेत्रं नेतरस्य, तदपि च तावद्यावत्स ततो गच्छान्न निर्गच्छति। निर्गत उभयोः साधारणम्। अगीतार्थस्य गणाध्यारोपे प्रायश्चित्तं चतुर्गुरुकम्। * साहारणो उ भणितो, इयाणि पच्छा कडं तु वोच्छामि। सो दुविहो बोधयो, निहत्थसारूविओ चेव // 13 // साधारणोऽभिहितः इदानीं पश्चात्कृतं वक्ष्यामि, स च पश्चात्कृतो द्विविधः / तद्यथा-गृहस्थः सारूपिकश्व गृहेगृहलिङ्गे तिष्ठतीतिगृहस्थः, समान रूपं सरूपं तेन चरतीति सारूपिकः। अनयोरेव स्वरूपमभिधित्सुराहअसिहो ससिह गिहत्थो, रयहरवजो उ होइ सारूवी। धारेइ निसिज्जंतु, एगं ओलंबगं चेव / / 13 / / गृहस्थः पश्चात्कृतो द्विविधः- अशिखः, सशिखश्च / तत्र यः केशान् धारयति स सशिखाकः, यस्तु मुण्डनेन तिष्ठति सोऽशिखाको भवति, रजोहरणवर्जः, रजोहरणग्रहणं दण्डकपात्रादीनामुपलक्षणम्। ततोऽयमर्थः- यः केवलं शिरसो मुण्डनमात्रं कारयति न च रजोहरणदण्डकपात्रादिकं धरति सोऽशिखाक इति / यस्तु सारूपी सारूपिकः स एकनिषद्यामेकनिषद्योपेतं रजोहरणम् अवलम्बकंदण्डकमुपलक्षणमेतत् पात्रादिकं च धारयति, शिरश्च मुण्डयति। अत्राऽऽभवनमाहगिहिलिंग पडिवाइ, जो ऊ तदिवसमेव जो तंतु। उवसामेती अण्णो, तस्सेव ततो पुरा आसी॥१३६|| यो व्रतं मुक्त्वा गृहिलिङ्गं प्रतिपन्नो योऽन्य उपलक्षणमेतत् मूलाचार्यो वा तद्दिवसमेव उपशमयति पुनरपि व्रतग्रहणायाभिमुखीकरोति येनैव उपशमितस्तस्यैवाऽऽभवति, न मूलाचार्यस्य / उक्तं च-"पच्छाकडो गिहत्थीभूतो तदिवसँ पव्वइउमिच्छइ। जस्स सगासे इच्छइ, तस्सेवय होइ सो चेव / / " इति एष विधिः पुरा आसीत्, संप्रति पुनर्लिङ्ग परित्यक्तेऽपि त्रिषु वर्षेषु गतेषु तदाभवनपर्यायः परिपूर्णो भवति नाऽऽरतः-(न अक्)ि / किं कारणं केव वाचार्येणेयं मर्यादा स्थापियेति चेदत आहइम्हि पुण जीवाणं, उक्कडकलुसत्तणं वियाणित्ता। तो महबाहुणा उ, तेवरिसाठाविया ठवणा / / 137 / / इदानीं पुनर्जीवानामुकृष्टं कलुषत्वं विज्ञाय ततो भद्रबाहुना त्रैवर्षिकात्रिवषप्रमाणा स्थापना मर्यादा स्थापिता। चारित्रतडागे संयमोदकपरिवहनरक्षणार्थं त्रैवर्षिकी मर्यादा पालीकृतेति भावः। सम्प्रति त्रैवर्षिक्यामेव स्थापनायां विशेषमभिधित्सुराहपरलिंग निण्हवे वा, सम्मइंसणजहे उ संकंते। तहिवसमेव इच्छा, सम्मत्तजुते समा तिषिण / / 138 // परलिङ्गं द्विधा-गृहिलिङ्ग,परतीर्यिकलिङ्गं चातत्रेह पररतीर्थिकलिङ्ग गृह्यते तस्मिन् - परतीर्थिकलिङ्गं निवे वात्यक्तसम्यग्दर्शने संक्रान्ते यस्य समीपे तद्दिवसमपीच्छा तस्य स आभवति / अयमत्र भावः--स भग्नचारित्रपरिणामः सम्यग्दर्शनमपि परित्यज्य परिव्राजकादीनां निह्नवानां मध्ये गतः, यदि तद्दिवसमेव यस्य समीपे प्रव्रजितुमिच्छति ततः स तस्यैवाऽऽभवति न मूलाचार्यस्य / अथ सम्यक्त्वसहितः परलिङ्गादिषु गतस्ततस्तस्मिन् सम्यक्त्वयुतेपरलिङ्गादिगतेमूलाचायमर्यादा तिस्रः समाः-त्रीणि वर्षाणि त्रिषु वर्षेशु पूर्णेषु पूर्वपर्यायस्तुट्यति। एमेव देसियम्मि वि, सभासिएणं तु समणुसिम्मि। ओसण्णेसु वि एवं, अचाइण्णेन पुण एहिं // 139 / / एवमेव- अनेनैव प्रकारण दोशकऽपि समाभाषिकेण समानभाषाव्यवहारिणा समनुशिष्ट ज्ञातव्यम्। किमुक्तं भवति-द्रविडान्ध्रादिदेशोद्भवो म्लेच्छप्राय आर्यभाषामजानानो यो विपरिणतःसन्त्यक्तसम्यक्त्वो गृहस्थीभूतः परिव्राजकादिषु निहवेषु वा मिलितो यदि केनाऽपि सामाषिकेण समनुशिष्टः सन्प्रत्यावर्त्ततेतर्हि तस्य समनुशासकस्याऽऽभवति, नाऽन्यस्य। अथ ससम्यक्त्वः परलिङ्गादिषु गतस्तर्हि मूलाचार्यपर्यायपरिमाणं तिस्रः समाः।अवसन्नेष्वपिएवं पूर्वमासीत, यथा अवसन्नीभूतं तद्दिवसमपि यत्र प्रशमयति स तस्याऽऽभवति / इदानीं पुनः कषायैरत्याकीणे नेयं व्यवस्था, किंतु-त्रीणि वर्षाणि / उक्तो गृहस्थः पश्चात्कृतः। सम्प्रति सारूपिकमधिकृत्याहसारूवी जजीवं, पुवायरियस्स जे य पवावे / अपवाविएँ सच्छंदो, इच्छाएजस्स सो देइ / / 140 / / सारूपिको रजोहरणादिधारी स यावज्जीवं पूवाचार्यस्याऽऽभवति न तु त्रिवर्षप्रमाणा तस्य मर्यादा। यानि च ससारूपिकः प्रव्राजयितुंमुण्डूितानि करोति तान्यपिपूर्वाचार्यस्याऽऽभवन्ति तेन मुण्डितत्वात्।यानि पुनस्तेत न मुण्डितानि किं त्वद्यापि सशिखाकानि वर्तन्ते तदायत्तानि च तान्यप्रव्राजितान्यधिकृत्य स्वच्छन्द आत्मेच्छा। तथा चाह-यस्येच्छ्या स ददाति तस्याऽऽभवान्त नाऽन्यस्येति / एतचाऽपुत्रादिषु द्रष्टव्यं, पुत्रादीनि पुनः पूर्वाचार्यस्याऽऽभवन्ति। जो पुण गिहत्थमुंडो, अहवा मुंडो उतिण्ह वरिसाणं / अरिणं पवावे, सयं च पुवायरिए सव्वं / / 141 // यः पुनर्गृहस्थ इव मुण्डो गृहस्थमुण्डः क्षुरेण मुण्ड इ