________________ विहार 1286 - अभिधानराजेन्द्रः - भाग 6 विहार तव चेव गणावच्छो, किं कारण जेण तरुणो उ॥१२॥ यथा 'कप्पट्ठी' ति बालिका नीलकेशी-कृष्णकेशी; तरुणीत्यर्थः सर्वस्य तरुणस्य महतो वा प्रार्थनीया भवति, तथा गणावच्छेदकोऽपि। किं कारणम् ? सूरिराह-येन कारणेन स गणावच्छेदकस्तरुणस्ततस्तरुणतया तरुण्या महत्या वा प्रार्थनीयो जायते। दोण्हं चउकण्णरहस, हवेज छकंनमो न संभवति। सिद्धं लोके तेण उ, परपञ्चयकारणा तिनि॥१२॥ लोके इदं सिद्धं-प्रतीतं यद्योश्चतुःकर्ण रहस्यं भवति षट्कर्ण 'मो' / इति पादपूरणे। त्रयाणां रहस्यं न सम्भवति, तेन कारणेन परप्रत्ययकारणात् परेषां प्रत्ययोत्पादनार्थं त्रयो विहरन्ति / इतरथा समर्थः स आत्मनिग्रहं कर्तुम् / त्रयोऽपि चोत्सर्गतो नं कल्पन्ते तत इदमपि सूत्रं कारणिकमवगन्तव्यम्। कारणतश्च तेषां त्रयाणां तिष्ठतामियं यतनांजयणा तत्थुदुबद्ध, सममिक्खाणुण्ण णिक्खम पवेसो। दासासु दोण्हि चिहे, दो हिंडेऽसंथरे इयरे॥१२६|| तत्रऋतुबद्धे काले इयं यतना-समकं भिक्षा, समकं शय्यातरस्य समीपे वसतेरनुज्ञा, समकं विचारार्थ निष्क्रमः, समकं वसतौ प्रवेशः। वर्षासु पुनरियम्-द्वौ पश्चात् तिष्ठतो हिण्डेते एतच संस्तरणे, इतरौ द्वौ गणावच्छेदकतदन्यलक्षणौ वसतेः प्रत्यासन्नेषु गृहेषु वसतिं प्रलोकमानौ हिण्डेते यावता न पूर्यते तावदितरानीतं गृहीतः / इदमपि वर्षाविषयं कारणिकम्। अकारणे चतुण्ाँ तिष्ठतां प्रायश्चित्तं चतुर्लघु। सम्प्रति बहुत्वविषये गणावच्छेदकसूत्रे भावयतिएमेव बहूणं पी, जहेव मणिया उ आयरियसुत्ते। जाव य सुओवसंपय, नवरि इमं तत्थ नाणत्तं // 127 // एवमेव अनेनैव प्रकारेण। किमुक्तं भवति-यथा एकत्वे ऋतुबद्धे वर्षासु च पूर्व सूत्रमुक्तमेवं बहूनामपि ऋतुबद्धे वर्षासु च वक्तव्यम्। भावनाऽपिच यथा बहुत्वविषये आचार्यसूत्रे भणिता तथैवाऽत्रापि भणनीया / सा च तावत्यावत् श्रुतोपसम्पत्। तथाहि-तैरपि समाप्तकल्पीकरणार्थमन्योऽन्यनिश्रया वर्तितव्यमः परस्परो-पसम्पदा इत्यर्थः / सा च निश्रा द्विविधा-गीतार्थनिश्रा, श्रुतनिश्राच। तत्रयद्गीतार्थस्य समीपे उपसम्पत्सम्पादनं सा गीतार्थनिश्रा, तया परस्परोपसम्पन्नत्वेन समाप्तकल्पीभूतयोयोस्त्रयाणं वा वर्गाणां समकमागतानां साधारणं क्षेत्रम् / तथा श्रुतार्थ निश्रा श्रुतनिश्रा, साऽपि च यथा प्राक् आचार्यसूत्रेऽभिहिता तथा अत्रापि भणितव्या, नवरमिदं तत्र निश्रायां नानात्वम्। तदेवाऽऽहसाधारणट्ठिया उ, सुत्तत्थाई परोप्परं गिण्हे। वारंवारेण तहिं, जह आसा कंडुयंते उ॥१२८|| ते सर्वे द्विवगास्त्रिवर्गा वा समाप्तकल्पाः समकमेकस्मिन् क्षेते यदि स्थितास्ततः साधारणं तत् क्षेत्रम्, तेतस्मिन् साधारणे क्षेत्र स्थिता यदि यथा वारंवारेणाश्वाः परस्परं कण्डूयन्ति एवं वारंवारेण परस्परं सूत्रमर्थ वा गृह्णन्ति, यथाऽहमद्य तव पार्श्वे गृह्णामि कल्ये त्वं मम पार्श्वे ग्रहीष्यसि / अथवा-पौरुषीप्रमाणेन मुहूत्तैर्वा वारकं कुर्वन्ति तदा यो यदा यस्य पार्चे गृह्णाति तस्य तावन्तं कालमाभाव्यमितरः सूत्रस्यार्थस्य वा प्रदाता अपहरति। अह पुवठिए पच्छा, अण्णो एजाहि बहुस्सुतो खेत्ते। सो खेत्तुवसंपण्णो, पुरिमल्लो खेत्तितो तत्थ॥१२६।। अथ पूर्वस्थिते क्षेत्रिके क्षेत्रस्वामिनि गणावच्छेदके आचार्येवा पश्चादन्यो बहुश्रुतस्तस्मिन् क्षेत्रे आगच्छति तर्हि सतदनुमत्या तत् क्षेत्रमुपसम्पन्न इति तत् क्षेत्रे क्षेत्रिक:-क्षेत्रस्वामी पूर्वतनः एवनपश्चात्तनः। खेत्तेतो जइ इच्छे-जा सुत्तादी उ किंचि गिरोहउं। सीसं जइ मेहाविं, पेसे खेत्तं तु तस्मेव / / 130 // क्षेत्रिकः- क्षेत्रस्वामी यदि पश्चादागतस्य समीपे किञ्चित्तु सूत्रादिग्रहीतुमिच्छति तत्र यदि शिष्यं मेधाविनंप्रेषयतितर्हि क्षेत्रंतस्यैवं पूर्वस्थितस्य न पश्चादागतस्य। असती तस्विहसीसे, अणिखित्तगणे उ वायए संकमति / अहवाय अगीयत्थे, निक्खिवइ गुरुगन य खेत्तं / / 131 / / अथ तथाविधो मेधावी शिष्यो नास्ति ततस्तद्विधे शिष्ये असतिअविद्यमाने अनिक्षिप्ते स्वशिष्यस्य गीतार्थस्य, गणे यदि सूत्रादिपश्चादागतस्य समीपे वाचयति, तर्हि तत्क्षेत्र पश्चादागते वाचयति संक्रामति। अथागीतार्थे स्वशिष्ये गणं निक्षिपति निक्षिप्य च पश्चात्सूत्रादि वाचयति, तर्हि अगीतार्थे गणं निक्षिपतस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः, न च तस्य क्षेत्रं, किंतु सूत्रादिवाचयितुः पश्चादागतस्य। अह निक्खिवती गीते, होई खेत्तं तु तो गणस्सेव। तस्स पुण अतुलाभो, वायंते न निग्गतो जाव / / 132 / / अथगीते-गीतार्थे शिष्ये गणं निक्षिपति निक्षिप्य च पश्चादागतस्य समीपे सूत्रादि गृह्णाति, 'तो' त्ति ततः क्षेत्रं गणस्यैवाऽऽभवति न पाठयितुः पश्चादागतस्याचार्यस्त / अथ यदा गणमनिक्षिप्यागीतार्थे वा निक्षिप्य सूत्रादि गृह्णाति तदा कियन्तं, कालमाभाव्यं तत् क्षेत्रं पाठयितुंः? अत आह-तस्स' इत्यादि, तस्यपुनः पाठयितुंः पुनस्तस्मिन् क्षेत्रिकेवाचयति आत्मलाभः आत्मीयत्वेन क्षेत्रस्यालम्भनं तावत्यावत् सततो गच्छान्न निर्गतोभवति, किमुक्तं भवति-यावत्तस्य समीपे अध्ययनार्थमवतिष्ठते तावत्तस्याध्यापयितुः पश्चादागतस्याऽऽ-भवति तत क्षेत्रम्, यदपि च शिष्यादिकंतस्य सूत्रादि-ग्रहीतुरुपतिष्ठतितदपितस्याऽऽभवति, निर्गत च ततो गच्छात्तस्मिन् भूयस्तस्यैव पूस्थितस्य क्षेत्र संक्रामतीति। आगंतुगोऽवि एवं, ठवेंतों खेत्तोवसंपयं लभति। साहारणे य दोण्हं, एसेव गमो य नायव्यो।।१३३।। आगन्तुकोऽपि एवं पूर्वोक्तेन प्रकारेण गच्छे स्थापयन् क्षेत्रोपसम्पदं लभते / इयमत्र भावना- आगन्तुकोऽपि यदि