________________ विहार 1295 - अभिधानराजेन्द्रः - भाग 6 विहार * राइणियादि उवसंतो, तस्स सोमाय नासउ॥११॥ अथ यादृशं प्रथमेन कथितं तादृशमन्यैरपि कथिते सनोपशाम्यति-न प्रव्रज्याभिमुखीभूतो भवति ततः तस्मिन्ननुपशान्ते पुनः कथना धर्मास्य सर्वेषां रत्नाधिकादीनां-रत्नाधिकप्रभृतीनां स्वलध्या यथा स्वशक्तितुलनया, एवं च कथने यस्य समीपे स उपशान्तस्तस्याऽऽभवति / कस्मादेवं कथनेति चेदत आह-मा सोऽनुपशान्तः सन् नश्यतु संसारं परिभ्रमत्विति कृत्वा / अथ सर्वे आचार्या एकत्र मिलितास्तिष्ठन्ति सच शैक्षक एवं कञ्चन पृच्छति कोऽऽचार्याः, सर्वे प्रधाना इति, एवमुक्ते यदि शैक्षको ब्रूतेयं जानीथ यूयमाचार्य तं मम दर्शयत। तत्राऽऽहजं जाणह आयरियं, तं देह ममंतिएव भणियम्मि। जइ बहुया ते सीसा, दलंति सदेसिमेकं // 116|| यं जानीथ यू यमाचार्य तं मम 'देह' त्ति दर्शयतेत्येवं भणिते यदि ते शिष्याः शिष्यत्वेनोपस्थिता बहवो भवन्ति, ततः सर्वेषामेकैकं शिष्यं ते एकत्र मिलिताः परस्परसम्मत्या ददति-प्रयच्छन्ति। अथ एकः शिष्यस्तत्र विधिमाहराइणिया थेरा सति, कुलगणसंघे दुगादिणो भेदा। एमेव वत्थपाए, तालायर सेवगा वणिए // 117 / / यधेक एव शिष्यस्तदा यस्तेषां सर्वेषामपि रात्निको रत्नाधिकस्तस्य तं समर्पयन्ति / अथ सर्वे समरत्नाधिकास्ततो यस्तेषां वृद्धतरस्तस्य। अथ सर्वे वृद्धास्तहि यस्य शिष्या नसन्ति तस्य। अथ सर्वेषामपि शिष्या न विद्यन्ते, तत इयं सामाचारी-सर्वेषां शिष्याणामसत्यभावे 'कुल' त्ति यदिते सर्वे समानकुलास्ततः कुलस्थविरस्य तं ददति। अथान्यकुलसत्का अपि तत्र ते तत आह- 'गण' त्ति गणस्थविरस्य समर्पयन्ति। अथान्यगणसत्का अपितत्र विद्यन्ते, तत आह-'संघे त्तिसङ्कस्थविराय ददति / अथवा-स एकः शिष्यः साधारणस्तावत् क्रियते यावदन्ये उपतिष्ठन्ते उपस्थितेषु च तेषु यदा सर्वेषां परिपूर्णा भवन्ति तदा विभज्यन्ते / एवं द्विकादयोऽपि भेदा वाच्याः-द्विप्रभृतीनामपि शिष्याणामुपस्थितानामेव विभाषा कर्तव्या। एवमेव-अनेनैव च प्रकारेण वस्त्रपात्रेऽपिवस्वपात्रादिलाभेऽपि द्रष्टव्यम् ! तच वस्त्रपात्राऽदिकं तालाचरा वा दधुः सेवका वा वणिजो वा एतेषां प्रायो वर्षासुदानसम्भवात्। एनामेव गाथां व्याचिख्यासुः प्रथमतः 'रायणिया थेरा सति' इति व्याख्यानयति-- रायणियस्स उ एगं, दलंतितुल्लेसुथेरगतरस्स। तुल्लेसु जस्स असती, तहावि तुल्ला इमा मेरा // 118|| एक शिष्यमुपस्थितं रात्निकस्य-रत्नाधिकस्य ददाति / अथ सर्वे समरत्नाधिकास्ततस्तुल्येषु रत्नाधिकेषु यः स्थविरतरस्तस्य, अथ सर्वे स्थविरतरास्तर्हि तुल्येषु स्थविरतरेषु यस्य शिष्याणामभावस्तस्य, अथ शिष्याभावेनाऽपि सर्वे तुल्यास्तत इयं मर्यादा। तामेवाहसमकुलगा कुलथेरे गणथेरे, गणिय्वएयरा संधे। रायणिए थेरेऽसति, कुलादिथेराण वि तहेव // 11 // यदि तेसर्वेसमकुलकाः-समानकुलकास्ततः कुलस्थविस्स्य ददति / अथान्यकुलका अपि विद्यन्ते ततः 'सङ्के' सङ्घस्थविरस्य, अथैषां मध्ये तत्कालमेकस्याऽप्यभावस्तत आह-'रायणिए' इत्यादिरत्नाधिकस्थविरस्याभावे कुलादिस्थविराणामपि तथैव अभावे ददति। साहारणं व काउं,दोहि विसारति जाव अण्णो उ। उप्पज्जइ सिं सेहो. एमेव य वत्थपत्तेसुं / / 120|| साधारणं वा तं शिष्यं कृत्वा द्वावपितं तावत्सारयतो यावदन्यशिष्यस्तयोरुत्पद्यते। ततो विभजनमिति। अत्र द्विग्रहणं त्रिप्रभृतीनामुपलक्षणं तेन बहूनामप्ययं न्यायो द्रष्टव्यः / एवमेव वस्त्रपात्रेष्वपि साधारणतया सम्पन्नेषु विधिर्द्रष्टव्यः। अत्र पर आह-- चोएइ वत्थपाया, कप्पंते वासवासि घेत्तुंजे। जइ कारणम्मि सेहो, तह तालचरादिसुं वत्था // 121 / / चोदयति शिष्यः वर्षावासे वस्त्रपात्राणि ग्रहीतुंकल्पन्ते काचा पाठयति प्रश्नावगमः। सूरिराह-यथा कारणे पूर्वोपस्थित इत्येवंलक्षणे अव्यवच्छित्तिकारको भविष्यतीत्येवं रूपे वा अपवादतःशैक्षः कल्पते तथाऽपवादतस्तालाचरादिषु वस्त्राणि उपलक्षणमेतत् पात्राणि च कल्पन्ते। साहारणो अभिहतो, इयाणि पच्छाकडस्स अवयारो। सो उगणावच्छेहय-पिंडगसुत्तम्मि भणिहिति॥१२२|| यदुक्तं प्राक् द्विविध शैक्षं वक्ष्ये-साधारणं, पश्चात्कृतमिति च तत्र साधारणः शैक्षोऽभिहितः, इदानीं पश्चात्कृतस्याऽवतार:-प्रस्तावः स तु गणावच्छेदकपिण्डगसूत्रे गणावच्छेदकबहुत्वसूत्रे भणिष्यते तदेवमाचार्योपाध्यायगतान्येकत्वबहुत्वसूत्राणि भावितानि। संप्रति गणावच्छेदकैकत्वबहुत्वसूत्राणि बिभावयिषुराहएमेव गणावच्छे, एगत्तपुहुत्तदुविहकालम्मि। जं इत्थं नाणत्तं, तमहं वुच्छं समासेणं // 123 / / एवमेवाचार्योपाध्यायसूत्रगतेन प्रकारेण द्विविधे काले-ऋतुबद्धे काले वर्षाकाले चगणावच्छेदकैकत्वपृथक्त्वसूत्राणि भावयितव्यानि। किमुक्तं भवति-यथा आचार्योपाध्या-यानामेकत्वपृथक्त्वसूत्राणि द्विविधकालगतानि व्याख्यातानि, या वाऽऽभवति अनाभवति च समाचारी, तथा गणावच्छेदकस्याऽप्येकत्यपृथक्त्वसूत्राणि द्विविधकालगतानिभावयितव्यानि, सैव च सामाचारी आभवत्यनाभवतीति, नवरभत्र यन्नानात्वं तदहं समासेन वक्ष्ये। तत्र ऋतुबद्धतावद्भण्यते यदि गणावच्छेदक आत्मद्वितीयो वसति तदा तस्य प्रायश्चित्तं मासलघु। इमे च दोषाः-- जह होति पत्थणिज्जा, कप्पट्टी नीलकेसी सव्वस्स।