________________ विहार 1284 - अभिधानराजेन्द्रः - भाग 6 - विहार अथ ते कथमेकाकिनोऽसमाप्ता वा जाता इत्यत आहपडिभग्गेसु मएसु व, असिवादीकारणेसु फिडिया वा। एएण तु एगागी, असमत्ता वा भवे थेरा॥७१।। शेषेषु साधुषु व्रतात् प्रतिभग्रेषु वा मृतेषु वा। अथवा-ये अशिवादिभिः | कारणै स्फिटिताः-परस्परं वित्रुटिता एतेन स्थविरा एकाकिनोऽसमाप्ता वा भवेयुः। साम्प्रतम् ‘एगदुगपिण्डियाणं(६८)' इत्यस्य व्याख्यानार्थमाहएगदुगपिंडिया वि हु, लब्मति अण्णोण्णनिस्सिया खेत्तं / असमत्ता बहुया विहु, न लभंति अणिस्सिया खेत्तं / / 72 / / एककाः पिण्डिता एकपिण्डिताः, द्रिकेन-वगद्वयेन पिण्डिताः अपिशब्दात्-त्रिकपिण्डिताश्चतुष्कपिण्डिताश्च। अमीषां भावना प्रागेवोक्ता हु-निश्चितम्, अन्योऽन्यनिश्रिताः-परस्परमुपसम्पन्ना लभन्ते क्षेत्रम्, ये पुनरसमाप्ताः परस्परोपसम्पद्ग्रहणाभावतोऽसमाप्तकल्पास्तिष्ठन्तिते परस्परमनिश्रिताः,'निमित्तकारणहेतुषु सर्वास विभक्तीनां प्रायोदर्शन' मिति न्यायादत्र हेतौ प्रथमा। ततोऽयमर्थः-परस्परमनिश्रितत्वात् बहुका अपि सन्तो हु-निश्चितं न लभन्ते क्षेत्रं समाप्तकल्पानामेव क्षेत्रस्याऽभवनात् / तथा पूर्वाचार्यकृतिस्थिति। जइ पुण समत्तकप्पो, दुहा ठितो तत्थ होज चउरण्णे। चउरोऽवि अप्पभूते, लभंति दो ते इतरनिस्सा // 73|| यदि पुनः समाप्तकल्पः पञ्चजनात्मको वसतेः सङ्गटनादोषेणैकस्मिन् क्षेत्रे द्विधा स्थित एकस्यां वसतौ द्वौ जनावपरस्यां त्रयस्तथाऽस्मिन् क्षेत्रे अन्यस्यां वसतावन्ये चत्वारोजनाः स्थिता भवेयुस्तथाऽपि चत्वारोऽपि तस्य क्षेत्रस्याऽप्रभवो न तेषां तत् क्षेत्रमाभाव्यं भवति।यौ पुन तौ तत् क्षेत्रं लभेते। कुत इत्याह-इतरनिश्री, अत्राऽपि हेतौ प्रथमा / यस्तस्तावितरत्रयनिश्रातः समाप्तकल्पत्वाल्लभन्ते। अथ कस्मादसमाप्तकल्पानामेकाकिनां चाभाव्यं क्षेत्रं न भवतीत्यह आहएगागिस्स उदोसा, असमत्ताणं च तेणथेरेहि। . एस ठविया उ मेरा, इति विहुमा होज एगागी // 74|| यत एकाकिनः सतोऽसमाप्तानां च-असमाप्तकल्पानां च दोषा भूयांसस्तेन कारणेन स्थविरैरेषा मर्यादा स्थापिता इत्यपि खलु कारणात्' क्षेत्रानाभवनलक्षणत् एकाकिनोसमाप्तकल्पावामा भूवन्निति।व्य०४ उ०। तत्र साधारणशैक्षं वक्तुमाहअक्खेत्तें जस्सुवठितो,खेत्ते वा समठियाण साहारे। वायन्तियववहारे, कयम्मि जो जस्सुवट्ठाइ।।१०।। अक्षेत्रे स्नानादिप्रयोजनतः क्वाप्येकत्र मिलितानां यो यस्योपतिष्ठति शैक्षः सतस्याऽऽभवति। अथवा समकमेककालं ये स्थिताः पृथक्पृथक् समाप्तकल्पास्तेषां समकस्थितानां तत्क्षेत्रं साधारणं; तस्मिन् साधारणे क्षेत्रे समकस्थितानाम्, अथवा- पश्चादागता अप्येवं व्यवस्थां कृत्वा प्रविष्टाः-यस्योपतिष्ठति तस्याऽऽभवति, तत एवं वाचन्तिके व्यवहारे कृतेयो यस्योपतिष्ठति स तस्याऽऽभवति। साधारणट्ठियाणं, सेहे पुच्छंतुवस्सए जो उ। दूरत्थं पिहु निययं, साहेति उ तस्स मासगुरु / / 110 / / विचारादिविनिर्गतं साधुं दृष्ट्वा कोऽपि शैक्षकः पृच्छति कुत्र साधूनां वसतय इति, एवं साधारणस्थितानाम्-साधारणक्षेत्रावस्थितानामुपाश्रयान् पृच्छति शैक्षो यो निजकमात्मीयमुमाश्रयं दूरस्थमपिशब्दात्प्रत्यासन्नं वा साधयतिकथयति तस्य हु-निश्चितं प्रायश्चित्तं मासगुरु / किं कथनीयमित्याहसवे उद्विसियव्वा,(अह) पुच्छइ कयरो य एत्थ आयरितो। बहुस्सय तवस्सि पव्वा-यगो य तत्थ वि कहेयव्वा // 111|| सर्वे यथाक्रममुपाश्रया उद्देष्टव्याः, यथा-अमुकस्याचार्यस्योपाश्रयोऽमुकप्रदेशेऽमुकस्याऽमुके इति, एवं कथिते यत्र यातितेषामाभवति। अथ स पृच्छेत् कतरोऽत्राचार्यः बहुश्रुतो वा तपस्वी वा प्रव्राजको वा तत्रापि तस्यामपि पृच्छायां तथैव कथनीयमन्यथा कथने मासगुरु। सव्वे सुयत्था य बहुस्सुया य, पव्वावगा आयरिया पहाणा। एवं तु वुत्ते समुवेति जस्स, सिद्धे विसेसो चउरो य किण्हा ||११सा अथ सर्वे श्रुतार्थाः सर्वेबहुश्रुताः सर्वेच प्रव्राजकाः सर्वेचाचार्याः प्रधानास्ततस्तथैव यथाभावं कथनीयाः, एवं तूक्ते यस्य समीपं समुपैति तस्याऽऽभवति। अथाऽऽत्मीयानां बहुतरगुणोत्कीर्तनतोऽन्येषां बहुतरनिन्दनेन रागद्वेषाऽऽकुलतथा विशेष कथयति, ततः शिष्ट विशेषे तस्य-विशेषकथकस्य प्रायश्चित्तं चत्वारो मासाः कृत्स्नाः परिपूर्णगुरुका इत्यर्थः। अथ सर्वेषां मिलितानां स शैक्षः समागत एवं ब्रूयात्धम्ममिच्छामि सोउंजे, पव्वइस्सामि रोइए। कहणालवितो हीणो, जो पढमं सो उ साहति॥११३।। धर्म, श्रोतुमिच्छामि युष्माकं पार्श्वे 'जे' इति पादपूरणे, श्रुते धर्मे रुचिते- प्रतिभासिते सति प्रव्रजिष्यामि एवमुक्ते कथना सा धर्मस्य भवति / कः कथयतीति चेदत आह-यो लब्धितः कथनलब्धेरहीनः स प्रथमं साधयति-कथयति / अथाऽन्येऽपि द्वित्रिप्रभृतयो लब्धितः समानास्तहि यो रत्नाधिकस्तेन कथयितव्यम्। पुणो वि कहमिच्छंते, तत्तुल्लं भासते परो। एवं तु कहिए जस्स, उवट्ठायति तस्स सो॥११॥ अहं पुनरपि कथां-- धर्मकथां श्रोतुमिच्छामीति ततः पुनरपि काधर्मकथां श्रोतुमिच्छामीति ब्रवीति, ततः पुनरपि कथा- धर्मकथा श्रोतुमिच्छति परोऽन्यो भाषते परं तत्तुल्यं तावन्मात्रमेवमपरवेलायामन्योऽपि। उक्तं च 'जारिसं पढमेण कहियं तारिसंसेसेहि वि कहेयव्वमिति एवं प्रदीपकथनसदृशता सर्वैः कथिते यस्योपतिष्ठते तस्य स आभवति। अथाऽन्ये विशेषेण विशेषतरेण कथयन्ति तर्हि तेषां न लभन्ते, किं तुयो रत्नाधिकस्तेषां तस्य स आभवति। अणुवसंते च सव्वेसि, सलद्धिकहणा पुण।